Enter your Email Address to subscribe to our newsletters

नवदेहली, ०६ जुलाईमासः (हि.स.)। भारतीय-ओलम्पिक-सङ्घः स्कॉटलैण्डदेशस्य ग्लासगो-नगरे जुलाई-मासस्य २३ दिनाङ्कात् अगस्त-मासस्य २ दिनाङ्कपर्यन्तम् आयोज्यमानायै राष्ट्रमण्डल-क्रीडास्पर्धायै प्रस्थास्यमानस्य भारतीय-दलस्य मङ्गलवासरे नवदेहल्यां औपचारिक-विदाय-समारोहम् आयोजयिष्यति। अस्मिन् समारोहे दश क्रीडाविधासु भारतस्य प्रतिनिधित्वं करिष्यमाणानां १२४ क्रीडकाणां सम्मानं भविष्यति।
भारतीय-दलस्य नेतृत्वं ओलम्पिक-स्वर्ण-पदक-विजेता नीरज-चोपड़ा, ओलम्पिक-पदक-विजेता मीराबाई-चानू, दशक्रीडा-क्रीडकः तेजस्विन्-शङ्करः, मुक्केबाजी-क्रीडायाः ओलम्पिक-पदक-विजेता लवलीना-बोरगोहेन् च करिष्यन्ति। अस्मिन् भारतीय-दले समर्थ-क्रीडकैः सह पैरा-क्रीडकाः अपि समाविष्टाः सन्ति। राष्ट्रमण्डल-क्रीडास्पर्धायाः अस्मिन् संस्करणे सीमितासु क्रीडासु प्रतियोगिताः आयोजयिष्यन्ते, तथापि भारतीय-क्रीडकैः अस्य कृते कठोरः अभ्यासः कृतः अस्ति तथा तेषां उत्कृष्ट-प्रदर्शनस्य अपेक्षा क्रियते।
आघातकारणात् बर्मिंघम्-२०२२ राष्ट्रमण्डल-क्रीडास्पर्धायाः बहिः स्थितः नीरज-चोपड़ा अस्मिन् वर्षे पुनरागच्छति तथा भारतीय-एथलेटिक्स-अभियानस्य नेतृत्वं करिष्यति। अर्वाचीनकाले राँची-नगरे आयोजिते फेडरेशन-कप-क्रीडास्पर्धायां दशक्रीडायां ८००० अङ्कान् अतिक्रान्तवान् तेजस्विन-शङ्करः अपि पदकस्य प्रबल-योग्य: मन्यते। भारोत्तोलन-क्रीडायां मीराबाई-चानू आघातात् स्वस्थतां प्राप्य पुनरन्ताराष्ट्रिय-प्रतियोगितायां प्रत्यागमनं करिष्यति। भारतेन बर्मिंघम्-२०२२ राष्ट्रमण्डल-क्रीडास्पर्धायां भारोत्तोलने दश पदकानि प्राप्तानि आसन्, अस्मिन् वर्षे तस्मादपि श्रेष्ठ-प्रदर्शनस्य अपेक्षा अस्ति। मुक्केबाजी-क्रीडायां साक्षी, प्रीति:, अङ्कुशः तथा लवलीना-बोरगोहेन् भारतस्य प्रमुख-पदक-प्रत्याशिषु सन्ति।
विदाय-समारोहे केन्द्रीय-युवा-कार्यक्रम-क्रीडा-मन्त्री मनसुख-माण्डविया, केन्द्रीय-वस्त्र-मन्त्री गिरिराजसिंहः, भारतीय-ओलम्पिक-सङ्घस्य अध्यक्षा डाॅ. पी. टी. ऊषा, क्रीडा-विभागस्य सचिवः हरि-रञ्जन-रावः इत्येतै: च सह अनेके गणमान्य-अतिथयः उपस्थिताः भविष्यन्ति। भारतीय-दलस्य शेफ-डी-मिशन-पदस्य उत्तरदायित्वं रोहित-राजपालः निर्वहिष्यति। रवि-बङ्गानी, वन्दना-रावः तथा राहुल-स्वामी सामान्य-दल-प्रबन्धकाः नियुक्ताः सन्ति। डाॅ.दिनशॉ-पारदीवाला मुख्य-चिकित्सा-परामर्शदाता भविष्यति, तेन सह फिजियोथेरेपिस्ट-दलम् अपि भविष्यति। श्रीनिवासन-कन्नन् तथा सर्वेश-केडिया भारतीय-दलस्य प्रेस-अटैची भवितारौ।
अस्मिन् अवसरे भारतीय-दलस्य आधिकारिक-समारोह-वेषभूषा अपि लोकार्पिता भविष्यति। प्रसिद्ध-वस्त्र-रचनाकारः आक़िब-वानी इत्यनेन जेएसडब्ल्यू-स्पोर्ट्स-संस्थायाः सहयोगेन निर्मितायाः अस्याः वेषभूषायाः अनावरणं भारतीय-क्रीडकाणां विशेष-रैम्प-प्रदर्शनेन सह भविष्यति।
एतदतिरिक्तं २०३० तमस्य वर्षस्य अहमदाबाद-राष्ट्रमण्डल-क्रीडास्पर्धायाः आयोजन-सज्जानाम् अन्तर्गतं भारतस्य पर्यवेक्षक-प्रतिनिधिमण्डलम् अपि ग्लासगो-क्रीडास्पर्धायाः आयोजन-व्यवस्था, प्रतियोगिता-सञ्चालनम्, क्रीडास्थल-प्रबन्धनम् इत्यादीनां व्यवस्थाः अध्ययनं करिष्यति।
भारतीय-ओलम्पिक-सङ्घस्य अध्यक्षा डाॅ. पी. टी. ऊषा अवदत् यत् भारतीय-दलस्य सर्वे क्रीडकाः देशस्य प्रतिनिधित्वस्य गौरवं प्राप्तवन्तः सन्ति। तस्याः पूर्णः विश्वासः अस्ति यत् ते साहसेन, दृढसङ्कल्पेन, क्रीडा-भावनया च उत्कृष्टं प्रदर्शनं कृत्वा देशस्य यशः वर्धयिष्यन्ति।
Hindusthan Samachar / Divya Ranjan