हॉकी-इण्डिया-संस्थया उपकनिष्ठ-पुरुष-राष्ट्रीय-प्रशिक्षण-शिविराय १५ क्रीडकाः चयनिताः
नवदेहली, ०६ जुलाईमासः (हि.स.)। हॉकी-इण्डिया-संस्थया ओमानदेशस्य मस्कट-नगरे जुलाई-मासस्य २० तः २५ दिनाङ्कपर्यन्तं आयोज्यमानायाः प्रथमायाः पुरुष-यूथ-हॉकी-५एस-एशियाई-चैम्पियनशिप्-२०२६ प्रतियोगितायाः सिद्धतार्थम् उपकनिष्ठ-पुरुष-राष्ट्रीय-प्रशिक्षण-शिविर
सब-जूनियर पुरुष राष्ट्रीय शिविर के लिए 15 खिलाड़ी


नवदेहली, ०६ जुलाईमासः (हि.स.)। हॉकी-इण्डिया-संस्थया ओमानदेशस्य मस्कट-नगरे जुलाई-मासस्य २० तः २५ दिनाङ्कपर्यन्तं आयोज्यमानायाः प्रथमायाः पुरुष-यूथ-हॉकी-५एस-एशियाई-चैम्पियनशिप्-२०२६ प्रतियोगितायाः सिद्धतार्थम् उपकनिष्ठ-पुरुष-राष्ट्रीय-प्रशिक्षण-शिविराय १५ क्रीडकाणां नामानि घोषितानि।

एतत् राष्ट्रीय-प्रशिक्षण-शिविरं जुलाई-मासस्य ७ तः १८ दिनाङ्कपर्यन्तं चण्डीगढ-नगरस्य पंजाब-विश्वविद्यालयस्य सेक्टर-१४-परिसरे आयोज्यते। भारतीय-दलस्य पूर्व-नायक: मुख्य-प्रशिक्षकश्च सरदारसिंहस्य मार्गदर्शने युवा-क्रीडकाः हॉकी-५एस-प्रारूपस्य विशिष्ट-प्राविधिक-कौशलानां रणनीतीनां च प्रशिक्षणं प्राप्स्यन्ति। शिविरे सम्मिलिताः सर्वे १५ क्रीडकाः अर्वाचीनकाले सम्पन्नायां अष्टादशवर्षाध-पुरुष-एशिया-कप्-२०२६ प्रतियोगितायां भारतीय-दलस्य सदस्याः आसन्। भारतेन अन्तिम-स्पर्धायां आतिथेय-देशः जापानदेश: ४-१ इति परिणामेन पराजित्य स्वर्ण-पदकं प्राप्तम्।

हॉकी-इण्डिया-संस्थया मन्यते यत् एषः प्रशिक्षण-शिविरं देशस्य युवा-क्रीडकान् अन्ताराष्ट्रिय-स्तरस्य कृते सज्जीकर्तुं तथा भविष्ये कनिष्ठ-वरिष्ठ-भारतीय-दलयोः प्रवेशाय समर्थान् कर्तुं महत्त्वपूर्णं पादक्षेपं भविष्यति। द्विसाप्ताहिके अस्मिन् शिविरे क्रीडकाः हॉकी-५एस-प्रारूपस्य प्राविधिक-सामरिक-सूक्ष्मताभिः परिचिताः भविष्यन्ति। तेषां क्रीडायाः मौलिक-कौशलानि अपि अधिकं सुदृढानि करिष्यन्ते।

शिविरस्य सफल-आयोजनार्थं हॉकी-इण्डिया-संस्थया पंजाब-विश्वविद्यालयं प्रति कृतज्ञता प्रकटिता। विश्वविद्यालयस्य कुलपतिः प्रोफेसर-डाॅ. रेणु-विग: अपि शिविरस्य भ्रमणं कृत्वा क्रीडकैः सह संवादं कृतवती तथा प्रतियोगितायै शुभकामनाः प्रदत्तवती। एषा प्रतियोगिता भारतीय-उपकनिष्ठ-क्रीडकान् हॉकी-५एस-प्रारूपे अन्ताराष्ट्रिय-अनुभवं प्रदास्यति तथा भविष्यस्य श्रेष्ठ-क्रीडकाणां निर्माणाय हॉकी-इण्डिया-संस्थायाः दीर्घकालिक-योजनायाः महत्त्वपूर्ण: भागः भविष्यति।

मुख्य-प्रशिक्षकः सरदारसिंहः अवदत्—“एतेषां युवा-क्रीडकाणां कृते अस्मिन् नूतन-प्रारूपे भारतस्य प्रतिनिधित्वं कर्तुं महान् अवसरः अस्ति। आगामिषु द्विसप्ताहेषु अस्माकं लक्ष्यं क्रीडकान् हॉकी-५एस-प्रारूपस्य आवश्यकताभिः परिचितान् कर्तुं तथा तेषां मौलिक-क्रीडा-कौशलं अधिकं सुदृढं कर्तुम् अस्ति, येन भविष्येऽपि तेषां लाभः भविष्यति। अस्य प्रशिक्षण-शिविरस्य आयोजनार्थम् उत्कृष्ट-सहयोगं प्रदत्तवत् पंजाब-विश्वविद्यालयं प्रति अहं धन्यवादं ज्ञापयामि।”

राष्ट्रीय-प्रशिक्षण-शिविराय चयनिताः क्रीडकाः—

करन-गौतमः, अरमान-सोरेङ्गः, सावन-कुमारः, अंश-बहुत्रा, अरशदीप-सिंहः, केतन-कुशवाहा, शाहरुख-अली, राहुल-यादवः, रोमित-पालः, आशीष-तानी-पूर्तिः, आकाशदीपः, अवि-मणिकपुरी, सिद्धार्थ-बेनः, प्रह्लाद-राजभरः तथा आयुष-रजकः।

/ अंशु गुप्ता