जन-जनस्य कृते सर्वकारः, जन-जनस्य द्वारे इत्यस्मिन् अभियाने सहस्रशः जनाः लाभम् अलभन्त
देहरादून-नगरम्, ०६ जुलाई-मासः (हि.स.)। उत्तराखण्ड-सर्वकारस्य ''जन-जनस्य कृते सर्वकारः, जन-जनस्य द्वारे'' इत्यस्य अभियानस्य प्रथमेषु त्रिषु दिवसेषु प्रदेशव्यापिषु विशेष-शिविरेषु सहस्रशः जनाः विविध-शासकीय-सेवानां जनकल्याणकारी-योजनानां च लाभम् अलभन्
मुख्यमंत्री पुष्कर सिंह धामी फाइल चित्र।


देहरादून-नगरम्, ०६ जुलाई-मासः (हि.स.)। उत्तराखण्ड-सर्वकारस्य 'जन-जनस्य कृते सर्वकारः, जन-जनस्य द्वारे' इत्यस्य अभियानस्य प्रथमेषु त्रिषु दिवसेषु प्रदेशव्यापिषु विशेष-शिविरेषु सहस्रशः जनाः विविध-शासकीय-सेवानां जनकल्याणकारी-योजनानां च लाभम् अलभन्त। शिविरेषु जन-अभियोगानां तत्रैव निस्तारणं कृतम्। समाज-कल्याण-पेन्शन-योजना, आयुष्मान-परिचयपत्राणि, चिकित्सा-कृषि-उपकरणानि तथा अन्याः सुविधाः अपि प्रदत्ताः।

मुख्यमन्त्री पुष्करसिंहधामी अवदत् यत् राज्य-सर्वकारस्य उद्देश्यं भवति यत् जनानां स्वसमस्यानां समाधानार्थं शासकीय-कार्यालयानां पुनः पुनः परिभ्रमणस्य आवश्यकता न भवेत्। तेन उक्तं यत् अस्य अभियानस्य माध्यमेन प्रशासनम् एव जनान् प्रति गत्वा अभियोगानां त्वरित-निस्तारणं करोति तथा पात्रेभ्यः जनेभ्यः विविध-जनकल्याणकारी-योजनानां लाभः एकस्मिन्नेव स्थाने प्रदीयते। सः अवदत् यत् राज्य-सर्वकारः सरलीकरणम्, समाधानम्, सन्तुष्टिः इति मन्त्रेण जनसेवायै दृढसङ्कल्पः अस्ति।

सूचना-विभागस्य सोमवासरे प्रकाशितायां विज्ञप्तौ उक्तं यत् मुख्यमन्त्रिणः पुष्करसिंहधामिनः निर्देशानुसारं जुलाई-मासस्य चतुर्थ-दिनाङ्कात् आरभ्य प्रदेशव्यापी पञ्चदश-दिवसीयम् अभियानं सञ्चाल्यते। अस्य अन्तर्गतं जनपद-विकासखण्ड-तहसील-स्तरे विशेष-शिविराणि आयोज्यन्ते, यत्र विविध-विभागानाम् अधिकारिणः जनप्रतिनिधयश्च जनानाम् अभियोगानां समाधानं कुर्वन्ति।

विज्ञप्तौ उक्तं यत् शिविरेषु पात्र-लाभार्थिभ्यः समाज-कल्याण-पेन्शन-योजना, आयुष्मान-परिचयपत्राणि, राजस्व-विभागस्य विविध-प्रमाणपत्राणि, कृषि-उपकरणानि, बीजानि च प्रदीयन्ते। एतदतिरिक्तं स्वास्थ्य-परीक्षणानन्तरं आवश्यकताम् अनुभवन्तेभ्यः जनेभ्यः चिकित्सा-उपकरणानि अपि वितीर्यन्ते। मार्ग-विद्युत्-पेयजल-सम्बद्धाः स्थानीय-समस्याः अपि तत्रैव निराक्रियन्ते।

सर्वकारस्य अनुसारम्, अस्मात् पूर्वं २०२५ तमस्य वर्षस्य दिसम्बर-मासे सञ्चालिते पञ्चचत्वारिंशद्दिवसीये 'जन-जनस्य कृते सर्वकारः, जन-जनस्य द्वारे' इत्यभियाने प्रदेशव्यापि ६८१ शिविराणि आयोजितानि आसन्, येषु ५.३३ लक्षाधिकाः जनाः सहभागित्वम् अकुर्वन्। तस्मिन् काले प्रायः ३३ सहस्रं जन-अभियोगानां त्वरित-समाधानम् अपि कृतम्।

Hindusthan Samachar / Divya Ranjan