Enter your Email Address to subscribe to our newsletters

देहरादूनम्, 6 जुलाईमासः (हि.स.)।उत्तराखण्डे नदीनां धारानौलानां जलस्रोतसां च संरक्षणपुनर्जीवनदिशि प्रयत्नान् नूतनगतिं प्रदातुं स्प्रिङ्ग एण्ड रिवर रिजुवेनेशन अथारिटी सार्रा इत्यस्य राज्यस्तरीयकार्यकारिणीसमितेः एसएलईसी सप्तमी सभा सोमवासरे सचिवालयस्थिते वीरचन्द्रसिंहगढवालीसभागारे आयोजिता।
जलागमसचिवस्य दिलीपजावलकरस्य अध्यक्षतायाम् आयोजितायां सभायां नदीपुनर्जीवनस्य भूजलपुनर्भरणस्य धारानौलासंरक्षणस्य एकजनपदैकनदीयोजनायाः प्रगतेश्च समीक्षा कृता। अस्मिन् अवसरे बागेश्वरस्य गरुडगङ्गायाः पौडीजनपदस्य पश्चिमीनयारनद्याश्च विस्तृतपरियोजनाप्रतिवेदनानि डीपीआर समित्या अनुमोदितानि। उभयोः परियोजनयोः कुलव्ययः प्रायः ६० कोटिरूप्यकाणि अस्ति। अन्तिमस्वीकृत्यर्थम् एते प्रतिवेदने राष्ट्रियपरियोजनासमितिं एनपीसी प्रति प्रेषयिष्येते। एतयोः गरुडगङ्गापरियोजनायाः व्ययः प्रायः १२ कोटिरूप्यकाणि तथा पश्चिमीनयारपरियोजनायाः व्ययः प्रायः ४८ कोटिरूप्यकाणि अस्ति।
सभायां सूचितं यत् एकजनपदैकनदीयोजनायाः अन्तर्गतं राज्यस्य सर्वेषु १३ जनपदेषु एकैकस्याः प्रमुखनद्याः वैज्ञानिकपुनर्जीवनार्थं कार्ययोजना निर्मीयते। अधुना पर्यन्तं १३ नदीनां कृते १२० कोटिरूप्यकाधिकमूल्यानां विस्तृतपरियोजनाप्रतिवेदनानां डीपीआर निर्माणं कृतम् अस्ति। एतेषु अनेकासु परियोजनासु कार्यं प्रचलति अपरासां कतिपयपरियोजनानां उच्चस्तरीया स्वीकृतिः प्राप्ता अस्ति।
सार्रा द्वारा विकसितस्य भागीरथ अनुप्रयोगस्य माध्यमेन प्रदेशस्य ४४९० जलस्रोतसां जीआईएस आधारितम् अङ्कीयमानचित्रणं कृतम् अस्ति। एतदतिरिक्तं ५७७५ जलसंरचनानां जलस्रोतसां च परिचयं कृत्वा तेषां दत्तांशसञ्चयः निर्मितः अस्ति।
सभायां धारानौलासंवर्धनयोजनायाः समीक्षां कुर्वन् सूचितं यत् अधुना पर्यन्तं ६९७ धारानौलानां परिचयः कृतः अस्ति। प्रथमचरणे ऐतिहासिकपौराणिकसांस्कृतिकमहत्त्वयुक्तानां ५४ धारानौलानां संरक्षणपुनर्जीवनार्थं कार्ययोजनाः निर्मीयन्ते यासु स्थानीयसमुदायस्य सहभागिता सुनिश्चितीकरिष्यते।
हरिद्वारे भूजलस्तरस्य उन्नयनार्थं प्रायः २ दशमलव ४० कोटिरूप्यकाणां व्ययेन ४९ कृत्रिमपुनर्भरणकूपान् स्थापयितुं प्रस्तावस्य विषये अपि सभायां विचारः कृतः।
सभायां सूचितं यत् प्रचलिते वित्तीयवर्षे सार्रा माध्यमेन सम्पूर्णे राज्ये ८६ परियोजनासु कार्यं प्रचलति। अनेकाः परियोजनाः पूर्णाः जाताः सन्ति तथा नवीनयोजनानां कृते आयव्ययप्रावधानस्य स्वीकृतेश्च प्रक्रिया प्रचलति।
सभायां जलागमपरियोजनानिदेशकः हिमांशुखुराना सार्रा इत्यस्य एसीईओ कहकशांनसीम उपनिदेशकः डीएस रावतः सीएफओ दीपकभट्टः सहिताः विभिन्नविभागानाम् अधिकारिणः जनपदानां प्रतिनिधयश्च अन्तर्जालमाध्यमेन सम्मिलिताः।----------
Hindusthan Samachar / Dheeraj Maithani