Enter your Email Address to subscribe to our newsletters

लखनऊ, 06 जुलाईमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्रिणः योगिनः आदित्यनाथस्य अध्यक्षतायां सोमवासरे लखनऊनगरे सम्पन्नायां मन्त्रिमण्डलसभायां प्रदेशस्य शाहजहांपुरजनपदस्य जलालाबादनगरस्य नाम परिवर्त्य परशुरामपुरी इति करणस्य प्रस्तावः अनुमोदितः। सभायां बहवः महत्त्वपूर्णाः प्रस्तावाः चर्चानन्तरं स्वीकृताः।
मन्त्रिमण्डलसभायाः अनन्तरं वित्तसंसदीयकार्यमन्त्री सुरेशखन्ना पत्रकारसम्मेलने अवदत् यत् शाहजहांपुरे स्थितस्य नगरपालिकापरिषदः जलालाबादक्षेत्रस्य जलालाबादनगरं भगवतः परशुरामस्य जन्मस्थलीरूपेण प्रसिद्धम् अस्ति। पौराणिककथासु ग्रन्थेषु च अस्य प्रमुखतया उल्लेखः प्राप्यते। जनप्रतिनिधीनां स्थानीयजनतायाश्च आग्रहानुसारं केन्द्रसर्वकारेण अनापत्तिः प्रदत्ता अस्ति। अतः जलालाबादस्य नाम परिवर्त्य परशुरामपुरी इति करणस्य प्रस्तावाय मन्त्रिमण्डलेन अपि स्वीकृतिः प्रदत्ता।
सः अवदत् यत् ओलम्पिकक्रीडानां पैरालम्पिकक्रीडानाम् एशियाईक्रीडानां राष्ट्रमण्डलक्रीडानां च पदकविजेतृक्रीडकानां प्रत्यक्षनियुक्तिमाध्यमेन चयनस्य प्रस्तावः अनुमोदितः। क्रीडाधिकारिणां ९ पदेषु जिलायुवकल्याणाधिकारिणां ३ पदेषु उपक्रीडाधिकारिणां २३ पदेषु च प्रत्यक्षनियुक्तिमाध्यमेन चयनं करिष्यते।
गोरखपुरमुरादाबादनगरनिगमयोः कृते नगरपालिकाबन्धपत्राणां निर्गमनस्य तथा आधारभूतसंरचनाविकासनिधये धनराशेः उपलब्धीकरणस्य प्रस्तावः स्वीकृतः। गोरखपुरे कर्मचारीराज्यबीमानिगमस्य १०० शय्यायुक्तस्य चिकित्सालयस्य स्थापनायै भूमेः उपलब्धीकरणसम्बन्धी प्रस्तावः अपि अनुमोदितः।
उत्तरप्रदेशहोमगार्डविभागस्य अधीने कार्यरताणां होमगार्डस्वयंसेवकानाम् अवैतनिकाधिकारिणां तेषाम् आश्रितपरिवारसदस्यानां च नगदरहितचिकित्सासुविधायाः लाभप्रदानसम्बन्धी प्रस्तावः अनुमोदितः। एतेन सह उत्तरप्रदेशदत्तांशकेन्द्रनीतिसहितेषु अन्येषु प्रस्तावेषु अपि मन्त्रिमण्डलेन स्वीकृतिः प्रदत्ता।
------------