Enter your Email Address to subscribe to our newsletters

-मुख्यमंत्री सोमवासरे कृतं ‘जनता दर्शनं’, प्रदेशस्य विभिन्नकोणेभ्यः आगतेषु प्रत्येकं जनस्य अशृणोत्परिवादम्
लखनऊ, 06 जुलाईमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथः सोमवासरे प्रातः जनतादर्शनं कृतवान्। अस्मिन् अवसरे सः प्रदेशस्य विविधजनपदेभ्यः आगतेन प्रत्येकं परिवादिना सह मिलित्वा तेषां समस्याः श्रुतवान्। सः आवश्यकतावद्भ्यः जनेभ्यः आवासप्रदानस्य गम्भीररोगैः पीडितानां चिकित्सायै पर्याप्तार्थिकसहायताप्रदानस्य च आत्मीयं विश्वासं ददत् अवदत् यत् अस्माकं सर्वकारः नरसेवां नारायणसेवां मत्वा प्रदेशस्य पञ्चविंशतिकोटिजनानां हिताय कार्यं करोति।
पञ्चकालिदासमार्गस्थिते मुख्यमन्त्रिनिवासे जनतादर्शनस्य समये मुख्यमन्त्री स्वयं परिवादिनां समीपं गत्वा एकैकशः तेषां समस्याः श्रुतवान्। सः तेषां प्रार्थनापत्राणि स्वीकृत्य निस्तारणाय सम्बन्धितप्रशासनिकाधिकारिभ्यः आरक्ष्यधिकारिभ्यश्च प्रेषयन् निर्देशं दत्तवान् यत् सर्वासां समस्यानां निस्तारणं समयबद्धं निष्पक्षं प्रभावि च भवेत्।
अस्मिन् अवसरे मुख्यमन्त्री जनान् अवदत् यत् सर्वकारः प्रत्येकस्मै आवश्यकतावते पात्राय च जनाय कल्याणकारीयोजनानां लाभं प्रदातुं प्रत्येकस्याः समस्यायाः प्रभाविनिस्तारणाय च सङ्कल्पितः अस्ति। मुख्यमन्त्री अधिकारिणः निर्दिष्टवान् यत् ते जनसमस्यानां विषये संवेदनशीलतां प्रदर्शयेयुः।
अवैधाधिपत्यसम्बन्धिपरिवादेषु मुख्यमन्त्री आरक्षिदलं निर्दिष्टवान् यत् यदि कश्चित् प्रभावशाली जनः अन्यस्य भूमिम् अवैधरूपेण अधिगृह्णाति तर्हि तस्य विरुद्धं कठोरकार्यवाही क्रियताम्। राजस्वारक्षिविभागसम्बद्धेषु प्रकरणेषु निर्धारितसमयसीमायाः अन्तः न्यायः प्रदीयतां तथा प्रकरणस्य निस्तारणं कृत्वा पीडितस्य सन्तुष्टौ विशेषं ध्यानं दीयताम्।------------
Hindusthan Samachar / Dheeraj Maithani