Enter your Email Address to subscribe to our newsletters

मीरजापुरम्, 06 जुलाईमासः (हि.स.)।
उत्तरप्रदेशस्य मीरजापुरजनपदे छानबेक्षेत्रस्य विजयपुरस्थिते शीतलाधाम्नि डेरवांबलापुरग्रामस्थिते दुलारोदेवीधाम्नि च सोमवासरे श्रद्धालूनां विशालः जनसमूहः समागतः। प्रातःकालादेव मन्दवृष्टेः मध्ये श्रद्धालवः दर्शनपूजनार्थं मन्दिरयोः आगच्छन्तः आसन्। महिलाः मन्दिरपरिसरस्य समीपे चुल्लीः प्रज्वाल्य कढायां पूरीहलवाप्रसादं निर्माय देवीमात्रे समर्पितवत्यः।
लोकमान्यतानुसारं नवविवाहिताः महिलाः रक्तवर्णीयां शाटिकां परिधाय मातुः दरबारे पूरीहलवाप्रसादं समर्पयन्ति तथा स्वपतेः दीर्घायुषः अखण्डसौभाग्यस्य च कामनां कुर्वन्ति। अस्मिन् अवसरे सखीभिः सह मङ्गलगानानि गायन्त्यः महिलाः उभयोः मन्दिरयोः प्राप्तवत्यः येन सम्पूर्णं मेलाक्षेत्रं भक्तिमयवातावरणेन परिपूर्णम् अभवत्। प्रायः सार्धैककिलोमीटरपर्यन्तं विस्तृते मेलाक्षेत्रे शतशः स्थानेषु चुल्ल्यः प्रज्वलिताः दृश्यन्ते स्म यत्र श्रद्धालवः प्रसादं निर्मान्तः आसन्। मेलायां स्थापितासु आपणेषु अपि दिवसभरं पर्याप्तं क्रयविक्रयं जातं येन आपणिकाः प्रसन्नाः अभवन्।
श्रद्धालूनां सुरक्षायै आरक्षिबलस्य नियुक्तिः कृता आसीत्। गैपुराचौकीप्रभारी सुरेशदुबे आरक्षिदलेन सह निरन्तरं मेलाक्षेत्रे परिभ्रमन् सुरक्षाव्यवस्थायाः निरीक्षणं कुर्वन् आसीत्। चौराणाम् उपद्रवकारिणां दुर्व्यवहारिणां च उपरि अपि आरक्षिणां विशेषदृष्टिः आसीत्। तथापि गैपुराविजयपुरमार्गे भारवाहनानां प्रवेशे प्रतिबन्धे सत्यपि ट्रैक्टरट्रालीयानानाम् अन्येषां विशालवाहनानां च आवागमनेन अनेकस्थानेषु यातायातावरोधः उत्पन्नः। अनेन दर्शनार्थम् आगतेभ्यः श्रद्धालुभ्यः पर्याप्ता असुविधा अभवत्। श्रद्धालवः यातायातव्यवस्थां अधिकां सुव्यवस्थितां कर्तुं मागधिका कृतवन्तः।
---------------
Hindusthan Samachar / Dheeraj Maithani