भारतीय-कला-संस्कृत्यै विश्वस्तरीयं मञ्चं भविष्यति, भातखण्डे-नूतन-परिसरस्य रूपरेखायाः विषये मन्थनम् अभवत्
लखनऊ-नगरम्, ०६ जुलाईमासः (हि.स.)। मुख्यमन्त्रिणः योगी-आदित्यनाथस्य दूरदृष्ट्याः अन्तर्गतं भारतीय-संस्कृतेः, सङ्गीतस्य, लोक-परम्पराणां तथा प्रदर्शन-कलानां वैश्विक-परिचयाय भातखण्डे-संस्कृति-विश्वविद्यालयस्य नूतनः परिसरः ऐतिहासिकं प्रयत्नम् इव सिद्धो
भारतीय कला-संस्कृति को मिलेगा विश्वस्तरीय मंच, भातखंडे के नए परिसर की रूपरेखा को लेकर अधिकारी चर्चा करते हुए।


लखनऊ-नगरम्, ०६ जुलाईमासः (हि.स.)। मुख्यमन्त्रिणः योगी-आदित्यनाथस्य दूरदृष्ट्याः अन्तर्गतं भारतीय-संस्कृतेः, सङ्गीतस्य, लोक-परम्पराणां तथा प्रदर्शन-कलानां वैश्विक-परिचयाय भातखण्डे-संस्कृति-विश्वविद्यालयस्य नूतनः परिसरः ऐतिहासिकं प्रयत्नम् इव सिद्धो भविष्यति। राजधानी-लखनऊस्य काकराबाद-क्षेत्रे प्रस्तावितः अयं विश्वस्तरीयः परिसरः केवलं सङ्गीत-विश्वविद्यालयत्वेन न, अपितु भारतीय-संस्कृतेः समग्र-केन्द्रत्वेन विकसितुं योजना विद्यते। एतदर्थं सोमवासरे संस्कृति-पर्यटन-धर्मार्थ-कार्य-विभागस्य अपर-मुख्य-सचिवस्य अमृत-अभिजातस्य अध्यक्षतायां सम्पन्नायां उच्चस्तरीय-परामर्श-समितेः सभायां देशस्य प्रतिष्ठितैः कलाकारैः, शिक्षाविद्भिः तथा विशेषज्ञैः परिसरस्य रूपरेखायाः विषये विस्तृतं मन्थनम् अभवत्। सभायां विशेषतया बलं दत्तं यत् अयं नूतनः परिसरः आगामि-शतवर्षपर्यन्तं भारतस्य सांस्कृतिक-धरोहरस्य, भारतीय-ज्ञान-परम्परायाः तथा प्रदर्शन-कलानां बृहत्तमं केन्द्रं भवेत्।

सभायां विशेषज्ञैः उक्तं यत् भारतस्य सहस्रवर्षप्राचीन: सांस्कृतिक-धरोहर: एकस्मिन् एव मञ्चे समाहर्तुं समर्थम् एतादृशं संस्थानम् अद्य देशे नास्ति, यत्र शास्त्रीय-सङ्गीतस्य, नृत्यस्य, रङ्गमञ्चस्य, लोक-जनजातीय-कलानाम्, दृश्य-ललित-कलानाम्, साहित्यस्य, दर्शनस्य, योगस्य, अध्यात्मस्य, भारतीय-ज्ञान-प्रणाल्याः तथा आधुनिक-कलाशिक्षायाः समन्वितम् अध्ययनम् अनुसन्धानं च भवेत्। एतस्याः दृष्टेः आधारेण भातखण्डे-संस्कृति-विश्वविद्यालयस्य नूतनः परिसरः देशस्य प्रथमः समग्रः 'संस्कृति-विश्वविद्यालयः' इति रूपेण विकसितुं परिकल्पना प्रस्तुता। अस्मिन् दुर्लभ-पाण्डुलिपीनां संरक्षणम्, मौखिक-परम्पराणां प्रलेखनम्, डिजिटल-सञ्चयागारस्य तथा भारतीय-प्रदर्शन-कलानां सङ्ग्रहालयस्य च विश्वस्तरीय-सुविधानां विकासस्य प्रस्तावः प्रस्तुतः।

सभायां प्रस्तावित-परिसराय अनेकासां अत्याधुनिक-सुविधानाम् अपि अनुमोदनम् अभवत्। नूतन-परिसरे सङ्गीत-, नृत्य-, रङ्गमञ्च-, योग-अध्यात्म-, दृश्य-ललित-कला-, साहित्य-दर्शन-, चलचित्र-निर्माण- तथा कला-सांस्कृतिक-प्रबन्धन-विषयाणां विशेष-विद्यालयाः स्थापनीयाः इति विचार: प्रदत्तः। तथा ध्वनि-विज्ञानाधारित-अभ्यास-कक्षाः, आधुनिक-नृत्य-स्टूडियो, सङ्गीत-ध्वनिमुद्रण-स्टूडियो, एआई-म्यूजिक-प्रयोगशाला, विष्णु-नारायण-भातखण्डे-महासभागारः, ब्लैक-बॉक्स-रङ्गमञ्चः, शास्त्रीय-नृत्य-रङ्गमञ्चः, रेसाइटल-सभागारः तथा मुक्ताकाशी-मञ्चः इत्यादीनाम् अधोसंरचनानां निर्माणस्य अपि सुझावः प्रदत्तः। तदतिरिक्तं सांस्कृतिक-स्टार्टअप्स-उद्यमानां कृते इनक्यूबेशन-केन्द्रम्, माध्यम-विषयवस्तु-प्रयोगशाला तथा बौद्धिक-सम्पदा-सहायता-केन्द्रस्य विकासेन भारतस्य सृजनात्मक-अर्थव्यवस्थायै नूतना गतिः प्रदातुं योजना प्रस्तुता।

सभायां पद्मश्री मालिनी-अवस्थी परिसरस्य प्रकृत्याः भारतीय-परम्परायाश्च अनुरूपं विकासं कर्तुं बलम् अददात्। तया व्यापक-पादपारोपणम्, मुक्तं प्राकृतिकं च वातावरणम्, अध्यापकानां कृते आवासीय-व्यवस्था, उत्तर-भारतीय-कर्नाटक-सङ्गीतयोः समन्वयः, उत्तरप्रदेशस्य पारम्परिक-घराणानां संस्थानेन सह संयोजनम्, नाट्य-सङ्कुलम्, प्रदर्शनी-सभागारः, अन्तरक्रियात्मक-अधिगम-परिसरः तथा समन्वित-ज्ञान-प्रणाली-आधारित-विशेष-प्रयोगशालानां स्थापनायाः सुझावः प्रदत्तः। प्रो. सिद्धार्थ-सिंहः विश्वविद्यालयं केवलं सङ्गीत-संस्थानं न स्थापयित्वा समग्र-संस्कृति-विश्वविद्यालयत्वेन विकसितुं आवश्यकताम् अवदत्।

पद्मश्री प्रो. वामन-केन्द्रेण सह विशेषज्ञैः लोक-जनजातीय-कलाः, रङ्गमञ्चः, प्रदर्शन-कलाः, दृश्य-कलाः तथा साहित्यं समन्वित-पाठ्यक्रमस्य भागत्वेन स्वीकर्तुं बलं दत्तम्। तैः डिजिटल-कला-केन्द्रस्य स्थापना, सर्वासां कलानां उत्कृष्टता-केन्द्रत्वेन विकासः तथा देश-विदेशयोः प्रख्यात-कलाकाराणां नियमितम् आमन्त्रणं कृत्वा विश्वविद्यालयं अन्तरराष्ट्रीय-सांस्कृतिक-संवादस्य केन्द्रं कर्तुं विचार: प्रदत्तः। विशेषज्ञाः अवदन् यत् अयं परिसरः भारतीय-सांस्कृतिक-धरोहरस्य संरक्षणेन सह नूतन-वंशाय विश्वस्तरीय-कलाशिक्षायाः अनुसन्धानस्य च अवसरान् प्रदास्यति।

संस्कृति-पर्यटन-धर्मार्थ-कार्य-विभागस्य अपर-मुख्य-सचिवः अमृत-अभिजातः अवदत् यत् उत्तरप्रदेशस्य समीपे एतादृशं विश्वस्तरीयं संस्थानं विकसितुं अनुपमः अवसरः विद्यते, यत् भारतस्य प्राचीन-सांस्कृतिक-धरोहरां संरक्ष्य नूतन-वंशस्य अपेक्षाः अपि पूरयिष्यति। तेन उक्तं यत् भातखण्डे-संस्कृति-विश्वविद्यालयं विश्वस्य अग्रणी-प्रदर्शन-कला-संस्थानानां श्रेण्यां स्थापयितुम् एव लक्ष्यं वर्तते। एतदर्थं भारतीयतायाः अनुभूतिं जनयन् वास्तुशिल्पेन, शैक्षणिक-उत्कृष्टतया तथा सांस्कृतिक-वातावरणेन युक्तः परिसरः विकसितः भविष्यति।

तेन सूचितं यत् विश्वविद्यालयस्य नूतन-परिसरस्य कृते राष्ट्रिय-स्तरीया वास्तु-अभिकल्प-प्रतियोगिता अपि आयोजयितुं योजना वर्तते, येन देशस्य श्रेष्ठ-वास्तु-विशेषज्ञाः अस्याः महत्त्वाकाङ्क्षिण्याः परियोजनायाः विकासे योगदानं दातुं शक्नुयुः। तेन अपि उक्तं यत् परिसरस्य रूपरेखायां भारतस्य विविध-घराणानां सांस्कृतिक-परम्पराणां च भौगोलिक-विविधता प्रतिबिम्बिता भवेत्। विश्वविद्यालयस्य शैक्षणिक-परिधौ पारम्परिक-प्रदर्शन-कलाभ्यः अतिरिक्तं डिजिटल-कलाः, एनीमेशनम्, वृत्तचित्र-निर्माणम्, आभासीय-निर्माणम्, सङ्गीत-प्रौद्योगिकी, अन्तर्विषयक-अनुसन्धानम्, बौद्ध-सांस्कृतिक-दर्शनम्, सांस्कृतिक-कूटनीतिः तथा भारतीय-ज्ञान-परम्परा इत्यादयः विषयाः अपि समावेश्यन्ते, येन अयं संस्थानः राष्ट्रियानाम् अन्ताराष्ट्रियाणां च विद्यार्थिनां शोधार्थिनां च आकर्षण-केन्द्रं भवेत्।

विश्वविद्यालयस्य कुलपतिः प्रो. माण्डवी-सिंहः अवदत् यत् भातखण्डे-संस्कृति-विश्वविद्यालयस्य नूतनः परिसरः भारतीय-संस्कृतेः, सङ्गीतस्य, प्रदर्शन-कलानां च समग्र-विकासस्य विश्वस्तरीयं केन्द्रं भविष्यति। अत्र परम्परायाः आधुनिक-प्रौद्योगिक्याः च समन्वयेन विद्यार्थिभ्यः उत्कृष्ट-शिक्षा, अनुसन्धानं, सृजनाय च उत्तमं वातावरणं प्रदास्यते।

सभायां कुलसचिवः एस.पी.सिंहः, पद्मभूषणः पं.अजय-चक्रवर्ती, प्रो. श्रुति-बन्दोपाध्यायः, पद्मश्री डॉ.शोवना-नारायणः, प्रो.अनुपम-महाजनः, पद्मविभूषणः डॉ.सोनल-मानसिंहः, पद्मश्री प्रो. वामन-केन्द्रे, प्रो.सिद्धार्थ-सिंहः तथा डॉ.वन्दना-सहगलः इत्येतै: सह अनेके विशेषज्ञाः उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan