डॉ. श्यामा प्रसाद मुखर्जिनःपूर्ण जीवनं भारतस्य एकतायै समर्पितम् : केशव प्रसाद मौर्यः
लखनऊ, 06 जुलाईमासः (हि.स.)। उत्तरप्रदेशस्य उपमुख्यमन्त्री केशवप्रसादमौर्यः सोमवासरे सप्तकालिदासमार्गस्थिते स्वकीये शासकीयावासे भारतीयजनसङ्घस्य संस्थापकस्य डा श्यामाप्रसादमुखर्जिनः पञ्चविंशत्यधिकशततमीजयन्त्यवसरे तस्य चित्रे पुष्पाञ्जलिं समर्प्य न
डा.श्यामा प्रसाद मुखर्जी के चित्र पर पुष्पांजलि करते केशव प्रसाद मौर्य


लखनऊ, 06 जुलाईमासः (हि.स.)।

उत्तरप्रदेशस्य उपमुख्यमन्त्री केशवप्रसादमौर्यः सोमवासरे सप्तकालिदासमार्गस्थिते स्वकीये शासकीयावासे भारतीयजनसङ्घस्य संस्थापकस्य डा श्यामाप्रसादमुखर्जिनः पञ्चविंशत्यधिकशततमीजयन्त्यवसरे तस्य चित्रे पुष्पाञ्जलिं समर्प्य नमनं कृतवान्।

उपमुख्यमन्त्री स्वकीये सामाजिकमाध्यमसन्देशे अलिखत् यत् डा श्यामाप्रसादमुखर्जिनः राष्ट्रहितं सर्वोपरि स्थापयत् प्रेरणादायकं व्यक्तित्वं सांस्कृतिकराष्ट्रवादं प्रति तस्य अटूटसमर्पणं राष्ट्रियैकतायै अखण्डतायै च तेन कृतः सङ्घर्षश्च अस्माकं सर्वेषां कृते सदैव प्रेरणास्रोतः भविष्यति। तस्य आदर्शाः विचाराश्च राष्ट्रसेवायाः पथि निरन्तरम् अस्माकं मार्गदर्शनं करिष्यन्ति।

डा श्यामाप्रसादमुखर्जी राष्ट्रहितं सर्वोपरि स्थापयन् भारतस्य एकतायाः लोकतान्त्रिकमूल्यानां राष्ट्रियस्वाभिमानस्य च रक्षणाय स्वकीयं सम्पूर्णं जीवनं समर्पितवान्। तस्य दूरदर्शी नेतृत्वं निर्भीकं व्यक्तित्वं राष्ट्रं प्रति अटूटनिष्ठा च अद्यापि जनसेवायाः आदर्शं प्रस्तौति। तस्य विचाराः आदर्शाश्च अस्मभ्यं राष्ट्रं प्रथमम् इति भावनां सांस्कृतिकचेतनां च सुदृढां कर्तुं निरन्तरं प्रेरणां ददति।

सः अग्रे अलिखत् यत् अद्य प्रधानमन्त्री नरेन्द्रमोदिनः कुशलनेतृत्वेन केन्द्रीयगृहसहकारितामन्त्री अमितशाहस्य दृढेच्छाशक्त्या च डा मुखर्जिनः जन्मभूमौ पश्चिमबङ्गाले सुशासनस्य यत् कमलं विकसितम् अस्ति तत् वास्तविकरूपेण तं प्रति अस्माकं सत्या श्रद्धाञ्जलिः अस्ति।

Hindusthan Samachar / Dheeraj Maithani