बिहारस्य राज्यपालः लेफ्टिनेन्ट-जनरल सैयद-अता-हसनैनः काश्यां गङ्गा-आरार्तिकीं दृष्ट्वा विभोरः अभवत्
वाराणसी, ०६ जुलाईमासः (हि.स.)। उत्तरप्रदेशस्य धर्मनगर्यां काश्यां आगतः बिहारस्य राज्यपालः लेफ्टिनेन्ट-जनरल सैयद-अता-हसनैन स्वपत्नी सबीहा-हसनैन-इत्यनया सह विधिवत् भगवत्याः गङ्गायाः पूजार्चनां कृतवान्। सः काशी-हिन्दू-विश्वविद्यालये सोमवासरात् आरब्धे
राज्यपाल को सम्मानित करते गंगा सेवा निधि के पदाधिकारी


वाराणसी, ०६ जुलाईमासः (हि.स.)। उत्तरप्रदेशस्य धर्मनगर्यां काश्यां आगतः बिहारस्य राज्यपालः लेफ्टिनेन्ट-जनरल सैयद-अता-हसनैन स्वपत्नी सबीहा-हसनैन-इत्यनया सह विधिवत् भगवत्याः गङ्गायाः पूजार्चनां कृतवान्। सः काशी-हिन्दू-विश्वविद्यालये सोमवासरात् आरब्धे “एकविंशतितमशताब्द्यै शैक्षिकसुधाराः—डाॅ.श्यामाप्रसाद-मुखर्जी-लोकनायक-जयप्रकाश-नारायणयोः धरोहरस्य आलोके शिक्षायाः पुनःपरिकल्पना” इति विषयके सम्मेलने सहभागितुं वाराणसीम् आगतः आसीत्। सम्मेलने सहभागितायाः पूर्वं रविवासरस्य सायंकाले दशाश्वमेध-घाटे गङ्गा-सेवा-निधेः आयोजनेन सम्पन्नां विश्वप्रसिद्धां भगवत्याः गङ्गायाः नित्य-आरार्तिकीं दृष्ट्वा सः अत्यन्तं विभोरः अभवत्।

गङ्गा-आरार्तिक्या: पूर्वं रामजन्म-योगिना ७ निमेषान् ५८ सेकण्ड्-परिमितकालं यावत् शङ्खनादः कृतः। एतत् दृष्ट्वा राज्यपालः सैयद्-अता-हसनैन आश्चर्यचकितः अभवत्। तेन रामजन्म-योगी मालया सम्मानितः, तस्य दीर्घकालिकस्य शङ्खनादस्य प्रशंसा अपि कृता।

गङ्गा-आरतिं दृष्ट्वा राज्यपालः गङ्गा-सेवा-निधेः दर्शक-पञ्जिकायां लिखितवान् यत्—“विश्वप्रसिद्धायाः अस्याः गङ्गा-आरार्तिक्या: अद्भुतः अनुभवः अभवत्। पूर्वम् अस्याः आरतेः विषये केवलं श्रुतम् आसीत्, अद्य तु प्रत्यक्षदर्शनात् अद्वितीयानुभूतिः अभवत्। भगवत्याः गङ्गायाः आशीर्वादस्य अनुभूतिरपि अभवत्।”

अस्मिन् अवसरे गङ्गा-सेवा-निधेः अध्यक्षः सुशान्तमिश्रः, कोषाध्यक्षः आशीषतिवारी, सचिवः सुरजीतसिंहः तथा सचिवः हनुमानयादवः राज्यपालस्य अङ्गवस्त्रेण, प्रसादेन स्मृतिचिह्नेन च स्वागतं कृतवन्तः।

सुशान्तमिश्रः अवदत् यत् राज्यपालः गङ्गा-आरार्तिक्या: प्रारम्भात् पूर्वमेव दशाश्वमेध-घट्टम् आगतः आसीत्। सः तत्र प्रायः एकहोराधिककालं स्थितवान् तथा काश्याः एतां आध्यात्मिक-परम्परां ज्ञातुं अनुभावयितुं च अत्यन्तं जिज्ञासुः आसीत्।

एतस्मात् पूर्वं राज्यपालः लेफ्टिनेन्ट्-जनरल् सैयद्-अता-हसनैनः स्वपत्नी सबीहा-हसनैन-इत्यनया सह वन्दे-भारत्-एक्सप्रेस-यानद्वारा वाराणसीम् आगतः। कठोर-सुरक्षाव्यवस्थायाः मध्ये सः दशाश्वमेध-घट्टम् आगत्य गङ्गा-आरार्तिकीं दृष्टवान्।

Hindusthan Samachar / Divya Ranjan