Enter your Email Address to subscribe to our newsletters

देहरादून-नगरम्, ०६ जुलाईमासः (हि.स.)। सहकारिता-मन्त्री डॉ.धनसिंह-रावतः सोमवासरे अवदत् यत् राज्ये सहकारितायाः विस्ताराय तथा ग्रामीण-अर्थव्यवस्थायाः सुदृढीकरणाय अष्ट नूतनाः सहकार-सङ्घाः गठिताः भविष्यन्ति। तेन सह जनपद-स्तरस्य अनन्तरम् अधुना विधानसभाक्षेत्र-स्तरेऽपि सहकारिता-मेलापकानाम् आयोजनं भविष्यति।
केन्द्रीय-सहकारिता-मन्त्रालयस्य पञ्चवर्ष-पूर्तेः अवसरे सहकारिता-विभागेन आयोजिते ‘सहकार-मन्थन’-कार्यक्रमे सम्बोधनं कुर्वन् डॉ.रावतः अवदत् यत् प्रदेशे सहकारितया सह अधिकाधिकान् जनान् संयोजयितुं लखपति-दीदी-फेडरेशन, महिला-स्वयं-सहायता-समूह-फेडरेशन, वन-पञ्चायत-फेडरेशन, स्वास्थ्य-फेडरेशन, प्लम्बर-जलकार्यकर्ता-फेडरेशन, भारत-टैक्सी-फेडरेशन, एविएशन-फेडरेशन तथा यूथ-फेडरेशन इत्येषां गठनं भविष्यति। एतदर्थं विभागीय-अधिकारिभ्यः आवश्यकाः निर्देशाः प्रदत्ताः सन्ति।
तेन उक्तं यत् महिला-स्वयं-सहायता-समूह-फेडरेशन-द्वारा राज्यस्य एकविंशति-सहस्रं स्वयं-सहायता-समूहा: अधिकं सुसङ्गठिता: आत्मनिर्भरा: च भविष्यन्ति। लखपति-दीदी-फेडरेशन महिलाः विविधाभिः शासकीय-योजनाभिः संयोज्य आर्थिकदृष्ट्या सशक्ताः करिष्यति। वन-पञ्चायत-फेडरेशन वनाधारित-जीविकां तथा पादपशालानां विकासं प्रोत्साहयिष्यति। प्लम्बर-फेडरेशन कुशल-शिल्पिभ्यः रोजगार-अवसरान् प्रदास्यति। भारत-टैक्सी-फेडरेशनद्वारा प्रायः सप्तचत्वारिंशत्-सहस्र वाहनचालकाः आधुनिक-अन्तर्जाल-मञ्चेन संयुक्ताः भविष्यन्ति। यूथ-फेडरेशन-इत्यस्य लक्ष्यं एकस्मिन् वर्षे एकलक्षं यूनः स्वरोजगारे संयोजयितुम् अस्ति।
सहकारिता-मन्त्री अवदत् यत् जनपद-स्तरे आयोजितैः सहकारिता-मेलापकैः प्राप्तस्य सफलतायाः अनन्तरम् अधुना प्रदेशस्य सर्वेषु विधानसभाक्षेत्रेष्वपि एतादृशानां मेलापकानाम् आयोजनं भविष्यति। तेन कृषकाः, काष्ठकाराः, शिल्पिनः तथा महिला-स्वयं-सहायता-समूहाः स्वोत्पादानां विपणनस्य श्रेष्ठतरम् अवसरं प्राप्स्यन्ति।
कार्यक्रमे घनसाली-विधानसभाक्षेत्रस्य विधायकः शक्तिलाल-शाहः सहकारिता-क्षेत्रे सम्पन्नानां नवाचाराणां प्रशंसाम् अकरोत्। अपरं उत्तराखण्ड-राज्य-सहकारी-सङ्घस्य पूर्वाध्यक्षः मातवर-सिंह-रावतः, टिहरी-जनपद-सहकारी-बैङ्कस्य पूर्वाध्यक्षः सुभाष-रमोला तथा सहकारिता-निबन्धकः डॉ.मेहरबान-सिंह-बिष्टः अपि स्वविचारान् प्रस्तुतवन्तः।
अस्मिन्नवसरे नाबार्ड-संस्थया चयनिताः त्रयोदश उत्कृष्टाः बहूद्देशीय-सहकारी-समितयः तथा द्वौ जनपद-सहकारी-धनागारौ प्रशस्ति-पत्रैः सम्मानितौ। तथा च उत्कृष्टकार्यं कृतवत्यः सहकारी-समितयः तथा कृषक-उत्पादक-सङ्गठनानि अपि सम्मानितानि।
कार्यक्रमे उत्तराखण्ड-आवास-निर्माण-सहकारी-सङ्घ-लिमिटेड् इत्यस्य विविध-निर्माण-परियोजनानां लोकार्पणं शिलान्यासश्च कृतः। तदतिरिक्तं त्रिभ्यः महिला-स्वयं-सहायता-समूहेभ्यः पञ्च-पञ्च-लक्ष-रूप्यकाणां ब्याजमुक्त-ऋणस्य धनादेशाः वितरिताः तथा द्वाभ्यां सहकारी-समितिभ्यां माइक्रो-एटीएम-यन्त्रे अपि प्रदत्ते।
Hindusthan Samachar / Divya Ranjan