उपराष्ट्रपतिं, लोकसभाध्यक्षं च समेत्य बहवो नेतायोऽददुः श्यामा प्रसाद मुखर्जये श्रद्धांजलिम्
नवदिल्ली, 06 जुलाईमासः (हि.स.)।उपराष्ट्रपतिः सी पी राधाकृष्णन् लोकसभाध्यक्षः ओम् बिरला इत्यादयः अनेके नेतारः भारतीयजनसङ्घस्य संस्थापकस्य डा श्यामाप्रसादमुखर्जिनः पञ्चविंशत्यधिकशततम्यां जयन्त्यां श्रद्धाञ्जलिं समर्प्य तस्य आदर्शान् एकतां स्वावलम्बिन
डॉ. श्यामा प्रसाद मुखर्जी  (फाइल फोटो)।


नवदिल्ली, 06 जुलाईमासः (हि.स.)।उपराष्ट्रपतिः सी पी राधाकृष्णन् लोकसभाध्यक्षः ओम् बिरला इत्यादयः अनेके नेतारः भारतीयजनसङ्घस्य संस्थापकस्य डा श्यामाप्रसादमुखर्जिनः पञ्चविंशत्यधिकशततम्यां जयन्त्यां श्रद्धाञ्जलिं समर्प्य तस्य आदर्शान् एकतां स्वावलम्बिनः विकसितस्य च भारतस्य निर्माणाय सामूहिकप्रयत्नान् च भाविपीढीनां कृते प्रेरणास्रोतोरूपेण वर्णितवन्तः।

उपराष्ट्रपतिः राधाकृष्णन् सोमवासरे उपराष्ट्रपतिभवने डा मुखर्जिनः चित्रे पुष्पाञ्जलिं समर्पयन् अवदत् यत् शिक्षाविद्रूपेण दूरदर्शिराजनेतृरूपेण राष्ट्रनिर्मातृरूपेण च डा मुखर्जी भारतस्य शैक्षिकराजनीतिकलोकतान्त्रिकयात्रायां गहनं प्रभावं स्थापितवान्। कलकत्ताविश्वविद्यालयस्य अल्पवयस्केषु उपकुलपतिषु अन्यतमः संविधानसभायाः सदस्यः अखिलभारतीयहिन्दूमहासभायाः अध्यक्षः स्वतन्त्रभारतस्य प्रथमः उद्योगापूर्तिमन्त्री भारतीयजनसङ्घस्य संस्थापकश्च भूत्वा सः राष्ट्रस्य असाधारणां सेवां कृतवान्।

सः अवदत् यत् राष्ट्रियैकतायाः अखण्डतायाश्च दृढसमर्थकरूपेण डा मुखर्जी जम्मूकश्मीरस्य भारतेन सह पूर्णविलयाय कृतप्रयत्ने स्वस्य सर्वोच्चं बलिदानं दत्तवान्। तस्य जीवनम् आदर्शाश्च सुदृढस्य एकीकृतस्य स्वावलम्बिनः विकसितस्य च भारतस्य निर्माणाय सामूहिकप्रयत्नेषु भाविपीढीः निरन्तरं प्रेरयिष्यन्ति।

लोकसभाध्यक्षः ओम् बिरला सामाजिकमाध्यममञ्चे एक्स इत्यत्र प्रकाशितसन्देशे डा मुखर्जिनं नत्वा अवदत् यत् तस्य जीवनं राष्ट्रसेवायै राष्ट्रियैकतायै च अविचलसमर्पणस्य प्रेरकं उदाहरणम् अस्ति। शिक्षाविद्रूपेण सः उच्चशिक्षाक्षेत्रे उल्लेखनीयं योगदानं दत्तवान् तथा जननेतृरूपेण राष्ट्रियहितेषु लोकतान्त्रिकमूल्येषु च स्वस्य स्पष्टप्रतिबद्धतां प्रदर्शितवान्। सः सशक्तस्य समरसस्य स्वावलम्बिनश्च भारतस्य परिकल्पनां स्वविचारैः कर्मभिश्च निरन्तरं बलवतीं कृतवान्। राष्ट्रस्य एकतायै अखण्डतायै जनकल्याणाय च तस्य समर्पणम् अद्यापि देशवासिनां कृते प्रेरणास्रोतः अस्ति।

गृहसहकारितामन्त्री अमित शाहः अवदत् यत् डा मुखर्जी राष्ट्रं प्रथमम् इति आदर्शं स्वजीवनस्य ध्येयं कृतवान्। बङ्गालविभाजनकाले तस्य दूरदर्शि नेतृत्वं जम्मूकश्मीरं भारतस्य अभिन्नाङ्गरूपेण स्थापयितुं तस्य सङ्घर्षश्च भारतीयेतिहासे सदैव स्मरणीयौ भविष्यतः। सिद्धान्तेषु तस्य अविचलप्रतिबद्धता देशस्य अखण्डतायै तस्य आजीवनसङ्घर्षश्च युवजनान् सदैव प्रेरयिष्यतः।

रक्षामन्त्री राजनाथसिंहः अवदत् यत् डा मुखर्जी स्वविचारेषु कर्मसु च राष्ट्रं प्रथमं सदैव प्रथमम् इति भावनां सर्वदा सर्वोपरि स्थापितवान्। दृढसङ्कल्पः निर्भीकता संवेदनशीलता वैज्ञानिकदृष्टिकोणश्च तस्य व्यक्तित्वस्य विशिष्टा परिचयचिह्नानि आसन्। भारतीयजनसङ्घस्य संस्थापकरूपेण भारतीयजनतापक्षस्य वैचारिकाग्रदूतरूपेण च सः राष्ट्रवादस्य तस्यै विचारधारायै सुदृढम् आधारं प्रदत्तवान् यया भारतस्य राजनीतिः नूतनां दिशां प्राप्तवती। सांस्कृतिकराष्ट्रवादे लोकतान्त्रिकमूल्येषु राष्ट्रसेवायां च मुखर्जिनः अविचलसमर्पणम् अद्यापि कोटिशः देशवासिनां कृते प्रेरणास्रोतः अस्ति।

कृषिमन्त्री शिवराजसिंहचौहानः अवदत् यत् मुखर्जी एकस्मिन् देशे द्वे चिह्ने द्वौ प्रधानौ द्वे विधाने न चलिष्यतः इति उद्घोषं कृत्वा जम्मूकश्मीरात् अनुच्छेदस्य सप्तत्यधिकत्रिशतस्य निराकरणाय व्यापकान्दोलनं कृतवान्। सः भारतीयानां गौरवस्य सम्मानस्य च रक्षणाय स्वस्य सर्वोच्चं बलिदानं दत्तवान्। देशस्य एकतायाः अखण्डतायाश्च कृते यदा यदा सङ्घर्षगाथाः लेखिष्यन्ते तदा तदा तस्य नाम स्वर्णाक्षरैः अङ्कितं भविष्यति। जनसङ्घस्य स्थापनां कृत्वा सः राष्ट्राय वैचारिकं विकल्पं प्रदत्तवान् तथा राष्ट्रं प्रथमम् इति भावनां जनजनस्य हृदये प्रतिष्ठापितवान्। तस्य त्यागः तपः राष्ट्रं प्रति अविचलसमर्पणं च भाविपीढीः सदैव राष्ट्रसेवायै प्रेरयिष्यन्ति।

केन्द्रीयस्वास्थ्यपरिवारकल्याणमन्त्री जगतप्रकाशनड्डा अवदत् यत् भारतस्य सम्प्रभुतायै एकतायै च डा मुखर्जिनः अतुलनीयः सङ्घर्षः त्यागश्च अविस्मरणीयौ स्तः।

उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः डा मुखर्जिने श्रद्धाञ्जलिं समर्पयन् अवदत् यत् एकस्मिन् देशे द्वे विधाने द्वौ प्रधानौ द्वे चिह्ने न चलिष्यन्ति इति उद्घोषं कृत्वा सः राष्ट्रस्य एकतायाः अखण्डतायाश्च सङ्कल्पाय नूतनं जीवनं दत्तवान् तथा स्वबलिदानेन सम्पूर्णं राष्ट्रं जागरितवान्। अखण्डभारतं प्रति तस्य समर्पणम् अस्मान् सर्वान् नूतनया प्रेरणया नूतनया ऊर्जया नूतनया शक्त्या च पूरयति।

दिल्लीप्रदेशस्य मुख्यमन्त्री रेखा गुप्ता अवदत् यत् डा मुखर्जिनः जीवनम् अचलराष्ट्रप्रेम्णः प्रतीकम् आसीत्। पण्डितनेहरोः मन्त्रिपरिषदः त्यागपत्रं दत्त्वा सः भारतीयराजनीतये सशक्तं वैचारिकं विकल्पं प्रदत्तवान्। राष्ट्रहितं सर्वोपरि स्थापयितुम् इति तस्य जीवनस्य मूलमन्त्रः आसीत्। विभाजनकाले पश्चिमबङ्गालं भारतस्य अभिन्नाङ्गरूपेण रक्षितुं तस्य सङ्घर्षः राष्ट्रस्य एकतायाः अखण्डतायाश्च रक्षणाय दत्तं सर्वोच्चं बलिदानं च सदैव स्मरणीयं भविष्यति।

-----------

Hindusthan Samachar / Dheeraj Maithani