Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 06 जुलाईमासः (हि.स.)।
पश्चिमबङ्गालस्य तिसृणां राज्यसभासनानां कृते जुलाईमासस्य २४ दिनाङ्के मतदानं भविष्यति। त्रीण्यपि आसनानि तृणमूलकाङ्ग्रेसस्य राज्यसभासदस्यानां त्यागपत्रकारणेन रिक्तानि अभवन्। निर्वाचनायोगेन सोमवासरे त्रिष्वपि आसनेषु उपनिर्वाचनस्य घोषणा कृता।
निर्वाचनायोगानुसारं मङ्गलवासरे एतेषाम् आसनानां कृते अधिसूचना प्रकाशयिष्यते तथा जुलाईमासस्य १४ दिनाङ्कपर्यन्तं नामाङ्कनपत्राणि प्रस्तोतुं शक्यन्ते। जुलाईमासस्य २४ दिनाङ्के प्रातः ९ वादनतः सायं ४ वादनपर्यन्तं मतदानं भविष्यति तथा तस्मिन्नेव दिने सायं ५ वादनतः मतगणना आरप्स्यते।
पश्चिमबङ्गालतः राज्यसभासदस्याः सुखेन्दुशेखररायः सुष्मितादेवी प्रकाशचिकबराइकश्च क्रमशः जूनमासस्य ८ १० ११ दिनाङ्केषु त्यागपत्राणि दत्तवन्तः आसन् यद्यपि तेषां कार्यकालः २०२९ तमवर्षपर्यन्तम् आसीत्। एते नेतारः उच्चसदस्यतया सह स्वपक्षं तृणमूलकाङ्ग्रेसम् अपि त्यक्तवन्तः आसन्।
उल्लेखनीयम् अस्ति यत् पश्चिमबङ्गाले सत्तापरिवर्तनानन्तरं तृणमूलकाङ्ग्रेसस्य बहवः नेतारः पक्षं त्यजन्ति।
-----------