याेगीमंत्रिमंडलम् अददात् उत्तर प्रदेशप्रदत्तकेंद्रस्य नीतये-2026 सहमतिः
लखनऊ, 06 जुलाईमासः (हि.स.)। मुख्यमन्त्रिणः योगी आदित्यनाथस्य अध्यक्षतायां सोमवासरे आयोजितायां मन्त्रिमण्डलसभायाम् उत्तरप्रदेशदत्तांशकेन्द्रनीतिः २०२६ अनुमोदिता। अस्याः उद्देश्यं उत्तरप्रदेशं हरितं कृत्रिमबुद्धिमत्तासज्जं वैश्विकप्रतिस्पर्धात्मकं
कैबिनेट की बैठक करते मुख्यमंत्री योगी आदित्यनाथ


लखनऊ, 06 जुलाईमासः (हि.स.)।

मुख्यमन्त्रिणः योगी आदित्यनाथस्य अध्यक्षतायां सोमवासरे आयोजितायां मन्त्रिमण्डलसभायाम् उत्तरप्रदेशदत्तांशकेन्द्रनीतिः २०२६ अनुमोदिता। अस्याः उद्देश्यं उत्तरप्रदेशं हरितं कृत्रिमबुद्धिमत्तासज्जं वैश्विकप्रतिस्पर्धात्मकं च दत्तांशकेन्द्रकेन्द्ररूपेण विकसितुं वर्तते। नीत्याः अन्तर्गतं २ गीगावाटपरिमिताम् अतिरिक्तक्षमतां विकसितुं २ लक्षकोटिरूप्यकाधिकं निवेशम् आकर्षयितुं च लक्ष्यं निर्धारितम् अस्ति। सूचनाप्रौद्योगिकीविद्युदणुशास्त्रमन्त्री सुनीलशर्मा अवदत् यत् नवीननीतौ जीपीयू आधारितमूलसंरचनायाम् ऊर्जादक्षतायां सततविकासे च विशेषं बलं प्रदत्तम् अस्ति। अनेन सह बुन्देलखण्डपूर्वाञ्चलक्षेत्रयोः कृते अतिरिक्तप्रोत्साहनानि प्रस्तावितानि सन्ति।

५० सहस्रजनेभ्यः रोजगारप्राप्तेः सम्भावना

दत्तांशकेन्द्रनीतेः २०२६ अनुमोदनानन्तरं प्रदेशे विश्वस्तरीयं दत्तांशकेन्द्रपरितन्त्रं विकसितं भविष्यति। दत्तांशकेन्द्रैककानां समीपे सूचनाप्रौद्योगिक्याः सूचनाप्रौद्योगिकीआधारितानाम् अन्यैककानां च स्थापनया रोजगारावसराः वर्धिष्यन्ति। प्रस्तावितनीत्या ७५०० जनेभ्यः दीर्घकालिकप्रत्यक्षरोजगारस्य निर्माणावधौ च प्रायः ५० सहस्रजनेभ्यः अल्पकालिकप्रत्यक्षरोजगारस्य प्राप्तेः सम्भावना अस्ति।

त्रिस्तरीयपञ्चायतीसंस्थानां कृते वित्तीयप्रस्तावः स्वीकृतः

मन्त्रिमण्डलसभायां पञ्चायतीराजसंस्थानां वित्तीयावश्यकतासम्बद्धे प्रस्तावे अपि सहमतिः प्रदत्ता। अस्यानुसारं वित्तीयवर्षे २०२६ २७ राज्यवित्तायोगस्य अन्तर्गतं त्रयाणामपि स्तराणां पञ्चायतानां कृते १४९८८ दशमलव ५० कोटिरूप्यकाणां प्रावधानं कृतम् अस्ति। अस्याः राशेः १० प्रतिशतं धनराशिः अर्थात् प्रायः १४९८ कोटिरूप्यकाणि प्रशासनिकपरिचालनपरिपालनकार्येषु व्ययिष्यन्ते। अस्याः एव राशेः ४९५ दशमलव ८९ कोटिरूप्यकाणि पञ्चायतप्रतिनिधीनां मानदेये सभाभत्तेषु च व्ययिष्यन्ते।

एषा राशिः राज्यवित्तायोगस्य वर्तमानांशस्य १४९८८ दशमलव ५० कोटिरूप्यकाणां प्रायः १ दशमलव ०५ प्रतिशतं वर्तते तथा १२ दिसम्बर २०२४ दिनाङ्कस्य शासनादेशानुरूपा एव अस्ति। एषा धनराशिः पञ्चायतीराजनिदेशकस्य निर्देशेन नियमानुसारम् आवश्यकतानुसारं च व्ययिष्यते।

रायबरेलीजनपदे उद्यानमहाविद्यालयस्य स्थापना भविष्यति

मुख्यमन्त्रिणः योगी आदित्यनाथस्य अध्यक्षतायाम् आयोजितायां मन्त्रिमण्डलसभायां रायबरेलीजनपदे उद्यानमहाविद्यालयस्य स्थापनार्थं कृषिविभागस्य २२ हेक्टेयरपरिमितां भूमिं कृषिशिक्षानुसन्धानविभागाय निशुल्कं हस्तान्तरयितुं प्रस्तावः अनुमोदितः। अयं महाविद्यालयः चन्द्रशेखरआजादकृषिप्रौद्योगिकीविश्वविद्यालयस्य कानपुरस्य अन्तर्गतं स्थापयिष्यते। अनेन निर्णयेन प्रदेशे कृष्युद्यानशिक्षायाः विस्ताराय नूतना गतिः प्राप्स्यते।

उद्यानमहाविद्यालयस्य स्थापनार्थं रायबरेलीजनपदाधिकारिणा पडेराग्रामे परगनासदरक्षेत्रे सदरतहसीले च उपलब्धा भूमिः चिह्निता आसीत्। मन्त्रिमण्डलस्य निर्णयानुसारम् उपलब्धायाः ४४ दशमलव ८८८ हेक्टेयरपरिमितायाः भूमेः २२ हेक्टेयरपरिमिता भूमिः कृषिशिक्षानुसन्धानविभागाय निशुल्कं हस्तान्तरिता भविष्यति। अनेन रायबरेलीसहिते पूर्वोत्तरप्रदेशे औद्यानिकशिक्षायाः अनुसन्धानस्य आधुनिककृषिप्रविधीनां विकासस्य च नूतना सुदृढता भविष्यति।

कृषिमन्त्री सूर्यप्रतापशाही अवदत् यत् प्रदेशे वर्तमानकाले चन्द्रशेखरआजादकृषिप्रौद्योगिकीविश्वविद्यालयः कानपुरे आचार्यनरेन्द्रदेवकृषिप्रौद्योगिकीविश्वविद्यालयः अयोध्यायां बान्दाकृषिप्रौद्योगिकीविश्वविद्यालयः बान्दायां सरदारवल्लभभाईपटेलकृषिप्रौद्योगिकीविश्वविद्यालयः मेरठे तथा निजिक्षेत्रस्य सैम हिग्गिनबाटमकृषिप्रौद्योगिकीविज्ञानविश्वविद्यालयः प्रयागराजे सञ्चालिताः सन्ति। एतदतिरिक्तं पूर्वोत्तरप्रदेशे कृषिगतिविधीनां संवर्धनार्थं महात्माबुद्धकृषिप्रौद्योगिकीविश्वविद्यालयस्य कुशीनगरे स्थापना क्रियते।

सः अवदत् यत् चन्द्रशेखरआजादकृषिप्रौद्योगिकीविश्वविद्यालयस्य कानपुरस्य अन्तर्गतं रायबरेलीजनपदे उद्यानमहाविद्यालयस्य स्थापनायाः प्रस्तावः निर्मितः अस्ति। अस्यां परियोजनायां प्रायः ५० कोटिरूप्यकाणां व्ययः अनुमानितः अस्ति। महाविद्यालयस्य स्थापनया प्रदेशे औद्यानिकशिक्षायाः अनुसन्धानस्य आधुनिककृषिप्रविधीनां च संवर्धनं भविष्यति।

Hindusthan Samachar / Dheeraj Maithani