पतञ्जलि-सिविल-सर्विसेज-अकादम्यां षोडश-राज्येभ्यः सहस्राधिकानि आवेदनपत्राणि, पञ्चाशत् संन्यासिनोऽपि साक्षात्कारे सहभागिनः भविष्यन्ति
हरिद्वार-नगरम्, ०६ जुलाईमासः (हि.स.)। पतञ्जलि-सिविल-सर्विसेज-अकादम्याः विषये देशव्यापि यूनां मध्ये महदुत्साहः दृश्यते। अद्यावधि उत्तराखण्ड-उत्तरप्रदेश-दिल्ली-राजस्थान-मध्यप्रदेश-महाराष्ट्र-बिहार-हरियाणा-हिमाचलप्रदेशादिषु षोडश राज्येषु सहस्राधिकाः अ
परीक्षा के संबंध में जानकारी देते योगगुरु बाबा रामदेव


हरिद्वार-नगरम्, ०६ जुलाईमासः (हि.स.)। पतञ्जलि-सिविल-सर्विसेज-अकादम्याः विषये देशव्यापि यूनां मध्ये महदुत्साहः दृश्यते। अद्यावधि उत्तराखण्ड-उत्तरप्रदेश-दिल्ली-राजस्थान-मध्यप्रदेश-महाराष्ट्र-बिहार-हरियाणा-हिमाचलप्रदेशादिषु षोडश राज्येषु सहस्राधिकाः अभ्यर्थिनः पञ्जीकरणं कृतवन्तः। विशेषतया अस्मिन् वर्षे पतञ्जलि-योगपीठस्य प्रायः पञ्चाशत् संन्यासिनोऽपि त्रिदिवसीय-प्रशिक्षण-कार्यशालायां सहभागिनः भविष्यन्ति तथा च १८ जुलाई-दिनाङ्के आयोज्यमानस्य साक्षात्कार-प्रक्रियायाः अपि भागिनः भविष्यन्ति।

योगगुरुः स्वामी-रामदेवः घोषितवान् यत् ये अभ्यर्थिनः स्वपरिश्रमेण यूपीएससी अथवा पीसीएस-परीक्षयोः प्रारम्भिक-परीक्षां मुख्य-परीक्षां च उत्तीर्णवन्तः, किन्तु द्वाभ्यां वा अधिकैः प्रयत्नैः अपि साक्षात्कारे सफलतां न प्राप्तवन्तः, तेऽपि अकादम्यां प्रवेशार्थम् आवेदनं कर्तुं शक्नुवन्ति। एतेषां योग्याभ्यर्थिनां प्रशिक्षणस्य, आवासस्य, भोजनस्य च समग्रं व्ययं पतञ्जलि-योगपीठेन वहिष्यते।

अकादम्यां यूपीएससी-परीक्षया सह पीसीएस-परीक्षाणामपि उच्चस्तरीया तैयारी कारयिष्यते। स्नातक-पाठ्यक्रमस्य द्वितीयवर्षे अध्ययनरताः छात्राः अपि आवेदनस्य पात्राणि भविष्यन्ति। १५ तः १७ जुलाई-पर्यन्तं आयोज्यमानायां त्रिदिवसीयायाम् आवासीय-प्रशिक्षण-कार्यशालायां उत्तरलेखनम्, व्यक्तित्व-विकासः, प्रशासनिक-दृष्टिकोणः, नेतृत्व-क्षमता, योगः, प्राणायामः, ध्यानम् तथा भारतीय-जीवन-मूल्यानां विषये विशेष-प्रशिक्षणं प्रदास्यते। प्रशिक्षणस्य अनन्तरं १८ जुलाई-दिनाङ्के साक्षात्कारस्य आधारेण अन्तिम-चयनं भविष्यति।

२१ जुलाईतः नियमित-कक्षाः आरभन्ते

साक्षात्कारे चयनितानां विद्यार्थिनां नियमित-कक्षाः २१ जुलाई-दिनाङ्कात् प्रारभन्ते। द्विवर्षीयस्य पूर्णतया आवासीयस्य फाउण्डेशन-पाठ्यक्रमस्य अन्तर्गतं प्रथमेषु षट्सु मासेषु आधारभूत-प्रशिक्षणं, अनन्तरं एकवर्षपर्यन्तम् उन्नत-अध्ययनं, अन्तिमेषु षट्सु मासेषु पुनरावृत्तिः तथा परीक्षा-श्रृङ्खलायाः माध्यमेन २०२८-वर्षस्य यूपीएससी- तथा पीसीएस-परीक्षाणां सिद्धता कारयिष्यते।

अवध-ओझा-महोदयस्य नेतृत्वे मार्गदर्शनं भविष्यति

अकादम्याः अध्यक्षस्य अवध-ओझा-महोदयस्य नेतृत्वे देशस्य प्रतिष्ठिताः अनुभवीन: मार्गदर्शकाः विद्यार्थिभ्यः मार्गदर्शनं प्रदास्यन्ति। अर्थशास्त्र-विषयाय नमन-जैनः तथा भूगोल-पर्यावरण-विषययोः चन्द्रमौलि-चौधरी इत्यादयः विशेषज्ञाः स्वसेवाः प्रदास्यन्ति। अकादम्याः संरक्षकः एन.पी.सिंहः तथा सचिवः प्रो.मयङ्कः स्तः।

मार्गदर्शक-मण्डले अनुभवी-प्रशासनिक-अधिकारिणः

विद्यार्थिभ्यः प्रशासनिक-सेवानां व्यावहारिकानुभवं प्रदातुं अकादम्यां विशेष-मार्गदर्शक-मण्डलस्य गठनं कृतम्। अस्मिन् योगेन्द्र-नारायणः, बलविन्दर-कुमारः, आनन्द-कुमारः, श्रीनिवास-वरखेड़ी इत्येतै: च सह अनेके सेवानिवृत्ताः आईएएस तथा आईपीएस-अधिकारिणः वरिष्ठ-शिक्षाविदश्च समाविष्टाः सन्ति।

आवेदनस्य अन्तिमा तिथिः १४ जुलाईमास:

अभ्यर्थिनः १४ जुलाई-दिनाङ्कस्य सायं पञ्चवादन-पर्यन्तम् ऑनलाइन अथवा ऑफलाइन-माध्यमेन आवेदनं कर्तुं शक्नुवन्ति। सर्वे पञ्जीकृताः अभ्यर्थिनः १४ जुलाई-दिनाङ्कस्य सायं पञ्चवादन-पर्यन्तं पतञ्जलि-योगपीठं, हरिद्वारम्, प्राप्नुवन्तु इति अनिवार्यम्। ततः १५ तः १७ जुलाई-पर्यन्तम् आवासीय-प्रशिक्षणं, १८ जुलाई-दिनाङ्के साक्षात्कारः, तथा २१ जुलाई-दिनाङ्कात् चयनित-विद्यार्थिनां नियमित-कक्षाः प्रारभन्ते।

Hindusthan Samachar / Divya Ranjan