Enter your Email Address to subscribe to our newsletters

रायपुरनगरम्, ०७ जुलाईमासः (हि.स.)। छत्तीसगढराज्यस्य मुख्यमन्त्रिणा विष्णुदेवसाय-महोदयेन अद्य बुधवासरे सायं सप्तवादने नवा-रायपुर-स्थिते मुख्यमन्त्रिणः निवासे भारतीय-जनतापक्षस्य विधायकदलस्य सभा आहूता।
विधायकदलस्य सचिवेन सर्वेभ्यः भाजपाविधायकेभ्यः अनिवार्यरूपेण सभायां उपस्थितेः निर्देशः प्रदत्तः। अस्याः सभायाः पूर्वं मुख्यमन्त्री साय-महोदयः सोमवासरे सायंकाले लोकभवनं गत्वा वरिष्ठ-नेतृभिः सह मिलितवान्। वर्षाकालीन-विधानसभासत्रात् प्रायः सप्ताहमेकं पूर्वम् एषा प्रथमवारं भाजपाविधायकदलस्य सभा आयोज्यते।
एतस्मात् पूर्वं सोमवासरे छत्तीसगढस्य मुख्यमन्त्री विष्णुदेवसायः रायपुर-स्थिते राजभवने राज्यपालं रमेन-डेका-महोदयम् सौजन्यसाक्षात्कारार्थं मिलितवान्। अस्मिन् शिष्टाचार-मिलने अग्रिम-विधानसभायाः वर्षाकालीन-सत्रस्य तथा अन्येषां महत्त्वपूर्णानां प्रशासकीय-विषयाणां विषये चर्चा अभवत्। तदनन्तरं राजनैतिक-शासकीय-कार्याणां समीक्षार्थं विधायकदलस्य एषा सभा आहूता।
भाजपाविधायकदलस्य अस्यां सभायाम् अग्रिम- सोमवासरात् प्रारभ्यमाणस्य विधानसभायाः वर्षाकालीन-सत्रस्य रणनीतेः, सिद्धतायाश्च विषये विस्तरेण चर्चा भविष्यति। एतदतिरिक्तं राज्यसर्वकारस्य विविधेषु महत्त्वपूर्णेषु विषयेष्वपि मन्थनं भविष्यति।
छत्तीसगढ-विधानसभायाः वर्षाकालीन-सत्रम् १३ जुलाईमासतः प्रारभ्य १७ जुलाईमासपर्यन्तं चलिष्यति। अस्मिन् अवधौ विधानसभायाः पञ्च सभाः आयोजिष्यन्ते। सत्रे वित्तीय-कार्यैः सह अन्येषामपि शासकीय-कार्याणां सम्पादनं भविष्यति।
Hindusthan Samachar / Divya Ranjan