राज्यपालेन स्मृतं कैप्टन विक्रम बत्रावर्यस्य अदम्यसाहसः बलिदानं च
भुवनेश्वरम्, 07 जुलाईमासः (हि.स.)।ओडिशाराज्यस्य राज्यपालः डा हरिबाबूकम्भमपाटिः परमवीरचक्रविजेतुः वीरगतिं प्राप्तस्य कैप्टनविक्रमबत्रस्य पुण्यतिथौ तस्मै श्रद्धाञ्जलिं समर्पितवान्। राज्यपालः उक्तवान् यत् कैप्टनबत्रावर्यस्य अद्वितीयं शौर्यम् अटूटः सङ्
राज्यपाल डा हरिबाबू  कंभमपटी   फाइल फोटो


भुवनेश्वरम्, 07 जुलाईमासः (हि.स.)।ओडिशाराज्यस्य राज्यपालः डा हरिबाबूकम्भमपाटिः परमवीरचक्रविजेतुः वीरगतिं प्राप्तस्य कैप्टनविक्रमबत्रस्य पुण्यतिथौ तस्मै श्रद्धाञ्जलिं समर्पितवान्। राज्यपालः उक्तवान् यत् कैप्टनबत्रावर्यस्य अद्वितीयं शौर्यम् अटूटः सङ्कल्पः राष्ट्राय कृतं सर्वोच्चं बलिदानं च देशवासिनां कृते सदैव प्रेरणास्रोतः भविष्यति।

सामाजिकमाध्यमे प्रसारिते स्वसन्देशे राज्यपालः उक्तवान् यत् कैप्टनविक्रमबत्रः भारतस्य वीरसपूतेषु अन्यतमः आसीत्। कारगिलयुद्धस्य समये तस्य असाधारणा वीरता अडिगं साहसं सर्वोच्चं बलिदानं च देशभक्तेः पराक्रमस्य च अमरं प्रतीकम् अस्ति।

डा कम्भमपाटिः उक्तवान् कैप्टनविक्रमबत्रस्य पुण्यतिथौ अहं तस्मै स्वश्रद्धाञ्जलिं समर्पयामि। तस्य शौर्यम् अटूटः सङ्कल्पः राष्ट्राय कृतं सर्वोच्चं बलिदानं च सदैव साहसस्य देशभक्तेश्च प्रतीकं भविष्यति। तस्य विरासत् आगामिसंततिं सम्मानेन समर्पणेन निस्वार्थभावेन च राष्ट्रसेवायै प्रेरयिष्यति।

---------------

Hindusthan Samachar / Dheeraj Maithani