असत्यप्रकरणात् भाजपादलं न विभेति , लोकतांत्रिकरीत्या भविष्यति संघर्षः : पूर्णिमा
पूर्वी सिंहभूमः, 07 जुलाईमासः (हि.स.)।टेल्को आरक्षिस्थाने भाजपानेतॄणां कार्यकर्तॄणां च विरुद्धं पञ्जीकृतायाः प्राथमिक्याः विरोधे सोमवासरस्य रात्रौ टेल्कोसेक्टरमार्केटस्थले भारतीयजनतापक्षस्य महत्त्वपूर्णम् उपवेशनम् आयोजितम्। भाजपायाः जमशेदपुरमहानगरा
बैठक को संबोधित करती विधायक पूर्णिमा साहू


बैठक को संबोधित करती विधायक पूर्णिमा साहू


पूर्वी सिंहभूमः, 07 जुलाईमासः (हि.स.)।टेल्को आरक्षिस्थाने भाजपानेतॄणां कार्यकर्तॄणां च विरुद्धं पञ्जीकृतायाः प्राथमिक्याः विरोधे सोमवासरस्य रात्रौ टेल्कोसेक्टरमार्केटस्थले भारतीयजनतापक्षस्य महत्त्वपूर्णम् उपवेशनम् आयोजितम्। भाजपायाः जमशेदपुरमहानगराध्यक्षस्य संजीवसिन्हस्य अध्यक्षतायां सम्पन्ने उपवेशने विधायिका पूर्णिमासाहू स्पष्टतया उक्तवती यत् भारतीयजनतापक्षः लोकतान्त्रिकमूल्येषु संविधाने च विश्वासं कुर्वन् राजनैतिकपक्षः अस्ति। सा उक्तवती यत् यदि मिथ्याप्रकरणैः कार्यकर्तॄणां मनोबलं भङ्क्तुं प्रयासः क्रियते तर्हि भाजपा संवैधानिके लोकतान्त्रिके च परिधौ स्थित्वा व्यापकं जनान्दोलनं करिष्यति।

विधायिका पूर्णिमासाहू टेल्को आरक्षिस्थाने पञ्जीकृतां प्राथमिकीं पूर्णतया निराधारां कल्पितां राजनैतिकदुर्भावनाप्रेरितां च उक्तवती। सा उक्तवती यत् शान्तिपूर्णं लोकतान्त्रिकम् आन्दोलनम् अपराधरूपेण प्रदर्श्य भाजपानेतॄणां कार्यकर्तॄणां च स्वरं निरोद्धुं प्रयासः क्रियते। तस्याः आरोपः आसीत् यत् प्राथमिक्यां तादृश्यः अनेकाः गम्भीराः विधिधाराः योजिताः सन्ति याभिः सम्बद्धा कापि घटना न तु बन्दस्य समये समक्षम् आगता न च कस्यामपि प्रशासनिकायां वार्तामाध्यमीयायां वा प्रतिवेदने तस्याः उल्लेखः अभवत्। अनेन स्पष्टं भवति यत् राजनैतिकदबावेन भाजपाकार्यकर्तॄन् पीडयितुं प्रयासः क्रियते।

उपवेशने जुलाईमासस्य तृतीये दिनाङ्के नगरे अवनतां विधिव्यवस्थां हिमांशुहत्याकाण्डं वर्धमानान् अपराधांश्च विरुध्य आयोजितस्य जमशेदपुरबन्दस्य समये टेल्को आरक्षिस्थाने टेल्कोमण्डलाध्यक्षस्य विकासशर्मणः घोडाबान्धामण्डलाध्यक्षस्य नीरजशर्मणः जिलामहामन्त्रिणः जितेन्द्ररायस्य राज्यमहिलायोगस्य पूर्वाध्यक्षायाः कल्याणीशरणस्य च सहितानां अष्टादशभाजपानेतॄणां बहूनाम् अज्ञातकार्यकर्तॄणां च विरुद्धं पञ्जीकृतायाः प्राथमिक्याः प्रतिलिपीनाम् अध्ययनं कृतम् तथा अग्रिमरणनीतेः विषये विस्तरेण चर्चा अभवत्।

भाजपायाः महानगराध्यक्षः संजीवसिन्हः उक्तवान् यत् पक्षेण पूर्णतया शान्तिपूर्णेन लोकतान्त्रिकेन च प्रकारेण जमशेदपुरबन्दस्य आयोजनं कृतम् आसीत् किन्तु सर्वकारस्य सङ्केतेन प्रशासनेन मिथ्याप्रकरणानि पञ्जीकृत्य लोकतान्त्रिकाधिकाराणां दमनस्य प्रयासः कृतः। सः उक्तवान् यत् भाजपा स्वस्य सर्वैः नेतृभिः कार्यकर्तृभिश्च सह दृढतया तिष्ठति तथा कस्यापि प्रकारस्य राजनैतिकपीडनस्य उत्तरं लोकतान्त्रिकरीत्या दास्यते।

उपवेशने सर्वसम्मत्या निर्णयः कृतः यत् भाजपायाः प्रतिनिधिमण्डलं शीघ्रमेव जमशेदपुरस्य वरिष्ठारक्ष्यधीक्षकेन सह मिलित्वा ज्ञापनं समर्पयिष्यति। प्रतिनिधिमण्डलं पञ्जीकृतप्राथमिकीतः निराधारविधिधाराणाम् अपसारणस्य तथा नगरे वर्धमानेषु अपराधेषु प्रभाविनियन्त्रणस्य आग्रहं करिष्यति। उपवेशने पूर्वजिलाध्यक्षः चन्द्रशेखरमिश्रः रामबाबूतिवारी दिनेशकुमारः गुञ्जनयादवः सुधांशुओझा मनोजसिंहः कल्याणीशरणः च सहिताः बहुसंख्यकाः भाजपापदाधिकारिणः कार्यकर्तारश्च उपस्थिताः आसन्।

---------------

Hindusthan Samachar / Dheeraj Maithani