न्यू-इण्डिया-फाउण्डेशन इत्यस्य अनुवाद-शोधवृत्त्यै मलयालम्-हिन्दी-उर्दू-भाषासु चतसृणां कृतिनां चयनम्
नवदेहली, ०७ जुलाईमासः (हि.स.)। न्यू-इण्डिया-फाउण्डेशन-इत्यनेन कठिन-चयन-प्रक्रियायाः अनन्तरं स्वस्य अनुवाद-शोध-योजनायाः तृतीय-चक्रस्य विजेतॄणां नामानि घोषितानि। अनुवाद-शोधवृत्ति-रूपेण मलयालम-भाषायां जयश्री-कलतिल: तथा मिनी-चन्द्रन्, हिन्दी-भाषायां मु
पुरस्कृत द्विभाषी लेखिका और अनुवादक जयश्री कलतिल (फाइल फोटो)।


नवदेहली, ०७ जुलाईमासः (हि.स.)। न्यू-इण्डिया-फाउण्डेशन-इत्यनेन कठिन-चयन-प्रक्रियायाः अनन्तरं स्वस्य अनुवाद-शोध-योजनायाः तृतीय-चक्रस्य विजेतॄणां नामानि घोषितानि। अनुवाद-शोधवृत्ति-रूपेण मलयालम-भाषायां जयश्री-कलतिल: तथा मिनी-चन्द्रन्, हिन्दी-भाषायां मुरली-रङ्गनाथन्, उर्दू-भाषायां च शेफाली-झा चयनिताः।

पुरस्कार-प्राप्ता द्विभाषिकी लेखिका अनुवादिका च जयश्री-कलतिल आदिवासी-भूम्यधिकार-कार्यकर्तुः सी.के.जानू-महोदयायाः आत्मकथायाः ‘आडिममक्का’ इत्यस्याः अनुवादार्थं शोधम् अलभत। एषा कृतिः केरलस्य भूम्यधिकाराय सञ्चालितस्य आदिवासी-आन्दोलनस्य इतिहासं निरूपयति। जानू-महोदया केरलस्य बहुप्रशंसित-विकास-प्रतिमानस्य अभिलेखेषु उपेक्षितं आदिवासीजनानां राजनैतिक-संघर्षस्य इतिहासं प्रकाशयति। कलतिल-महोदया ‘द बॉम्बे लिटरेरी मैगजीन’ इत्यस्यां अनूदित-कथासाहित्यस्य प्रबन्ध-सम्पादिका वर्तते तथा एएलटीए एमर्जिङ्ग-ट्रान्सलेटर्स-मेण्टरशिप-प्रोग्राम् इत्यस्मिन् मार्गदर्शिका अपि अस्ति।

आईआईटी-कानपुरस्य आङ्ग्लभाषायाः प्राध्यापिका मिनी-चन्द्रन् प्रसिद्ध-नाटककारस्य तोप्पिल-भासी-महोदयस्य संस्मरणात्मक-ग्रन्थस्य ‘ओलिविले ओरमगल’ इत्यस्य अनुवादं करिष्यति। भासी-महोदयः प्रमुखः मलयालम्-नाटककारः आसीत्, यः ‘निङ्गलन्ने कम्युनिस्टाक्की’ इति नाटकेन विशेषतः प्रसिद्धः। अयं ग्रन्थः केवलं १९४८ तः १९५३ पर्यन्तस्य पञ्चवर्षीयं कालखण्डं वर्णयति, तथापि मलयालम्-भाषायाः सुप्रसिद्धासु आत्मकथासु अन्यतमः अस्ति।

इतिहासकारः लेखकः अनुवादकश्च मुरली-रङ्गनाथन् राहुल-सांकृत्यायनस्य ‘तिब्बते सवा वर्ष’ इति ग्रन्थस्य अनुवादार्थं शोधवृत्तिम् अवाप्तवान्। १९३४ तमे वर्षे प्रकाशिते अस्मिन् ग्रन्थे सांकृत्यायनस्य १९२८ तमस्य वर्षस्य दिसम्बर-मासात् १९३० तमस्य वर्षस्य जून-मासपर्यन्तं बुद्धस्य अन्वेषणाय कृतानां यात्राणां विस्तृतं वर्णनम् अस्ति। एताः यात्राः कोलम्बो-नगरात् प्रारब्धाः तत्रैव समाप्ताश्च।

मानवशास्त्रविदुषी विदुषी च शेफाली-झा इब्राहीम-हुसैन-जलीसस्य ‘दो मुल्क, एक कहानी’ इति ग्रन्थस्य उर्दू-भाषातः आङ्ग्लभाषायां अनुवादं करिष्यति। स्वातन्त्र्योत्तर-दक्षिण-एशियायाः अशान्त-राजनैतिक-परिवेशस्य चित्रणं कुर्वती एषा कृतिः वैयक्तिकानुभव-आधारित-पत्रकारितायाः महत्त्वपूर्णं तथ्यम् अस्ति। युवा-उर्दू-लेखकस्य पत्रकारस्य च दृष्ट्या स्वातन्त्र्योत्तर-दक्षिण-एशियायाः निर्माणसम्बद्धानां प्रमुख-घटनानां विवरणम् अस्मिन् ग्रन्थे विद्यते।

न्यू-इण्डिया-फाउण्डेशन-इत्यस्य गवर्निङ्ग-बोर्ड-इत्यस्य सदस्या नीरजा-गोपाल-जयाल: अवदत् यत् अस्य वर्षस्य शोधवृत्ति: अद्यतन-भारते अनुवाद-क्षेत्रे विद्यमानां असाधारणां विद्वत्तां प्रतिनिधित्वं कुर्वन्ति। तैः चयनितेषु ग्रन्थेषु आत्मकथा, संस्मरणम्, यात्रावृत्तान्तः, राजनैतिक-पत्रकारिता च अन्तर्भवन्ति, ये भारतस्य बौद्धिक-सामाजिक-इतिहासस्य विषये विशिष्टं दृष्टिकोणं प्रस्तौति।

तया उक्तं यत् एषा शोधवृत्ति: प्रत्येकं शोधकर्तृभ्यः षण्मासानां कृते षट्-लक्ष-रूप्यकाणां अनुदानं प्रददाति, येन ते असमिया, बाङ्ग्ला, गुजराती, हिन्दी, कन्नड, मराठी, मलयालम्, ओडिया, तमिळ तथा उर्दू इत्येतासु दशसु भारतीय-भाषासु लिखितानां कथेतर-कृतीनां आङ्ग्लभाषायाम् अनुवादं कर्तुं शक्नुवन्ति। अस्मिन् वर्षे चयन-प्रक्रियायां एनआईएफ-न्यासिभिः सह दशानां भाषाणां भाषाविशेषज्ञ-समितयः अपि आसन्, यासु प्रतिष्ठिताः द्विभाषिक-विद्वांसः, प्राध्यापकाः, साहित्यिक-अनुवादकाश्च समाविष्टाः आसन्।

न्यू-इण्डिया-फाउण्डेशन-इत्यस्य गवर्निङ्ग-बोर्ड-इत्यस्य सदस्यः श्रीनाथ-राघवन् अवदत् यत् भारतस्य विषये अत्यन्तमहत्त्वपूर्णाः अनेकाः ग्रन्थाः भारतीय-भाषासु लिखिताः सन्ति, तथापि तेषां बहवः विस्तीर्ण-पाठक-समाजं न प्राप्नुवन्ति। अनुवाद-शोधवृत्ति-योजनया वयं एतासां उत्कृष्ट-कृतीनां आङ्ग्ल-भाषायाम् अनुवादे अनुवादकानां साहाय्यं कर्तुम् इच्छामः, येन ताः विविधेषु प्रदेशेषु तथा विभिन्न-वंशेषु पाठकेषु व्यापकं प्रसारं प्राप्नुयुः।

Hindusthan Samachar / Divya Ranjan