Enter your Email Address to subscribe to our newsletters

नारायणपुरम्, ०७ जुलाईमासः (हि.स.)। जनजातीय-कार्य-मन्त्रालयस्य अधीनस्थया नेशनल एजुकेशन सोसायटी फॉर ट्राइबल स्टूडेण्ट्स् इत्यनया राजस्थानस्य ईएमआरएस-खेरवाड़ा इत्यत्र आयोजितायां आञ्चलिक-स्तरीय-राष्ट्रीय-युवा-संसद्-प्रतियोगितायाम् एकलव्य-मॉडल्-आवासीय-विद्यालयस्य छेरीबेड़ा, नारायणपुर-जनपदस्य त्रि-पञ्चाशत्-सदस्यात्मिका प्रतिनिधि-मण्डलीराज्यस्य प्रतिनिधित्वं कृत्वा उत्कृष्टं प्रदर्शनम् अकरोत्। अस्यां प्रतियोगितायाम् उत्तराखण्ड-मध्यप्रदेश-छत्तीसगढ़-राज्यस्य दलानि सहभागित्वम् अकुर्वन्। तेषु मध्यप्रदेशस्य दलं प्रथमस्थानम् अलभत, छत्तीसगढ़स्य दलं च उपविजेतृ-पदम् अधिगतवान् तथा राज्यस्य गौरवं वर्धितवान्।
अस्याः उल्लेखनीयायाः उपलब्धेः आधारेण छत्तीसगढ़स्य प्रतिनिधि-दले समाविष्टाः ईएमआरएस-छेरीबेड़ा-विद्यालयस्य अष्टौ विद्यार्थिनः राष्ट्रीय-स्तराय चयनिताः। तेषु हर्षा इत्यस्याः सभाध्यक्षस्य भूमिकायै प्रथमस्थानं प्राप्तम्। मनसाय तथा अनुराधा द्वितीयस्थानम् अलभेताम्, यद्यपि अञ्जीला, निकिता, वेदिका, जयबती तथा शामी तृतीयस्थानम् अधिगतवन्तः। चयनित-विद्यार्थिनः नवदेहल्यां संसद्-भवनस्य शैक्षणिक-भ्रमणस्य तथा संसदः कार्यवाह्याः प्रत्यक्षावलोकनस्य अवसरं प्राप्स्यन्ति।
एषा उपलब्धिः विद्यालयस्य, नारायणपुर-जनपदस्य, समग्रस्य छत्तीसगढ़-राज्यस्य च गौरवस्य विषयः अस्ति। अस्याः उल्लेखनीय-सफलतायाः श्रेयः विद्यालयस्य प्राचार्याय डॉ.मनमोहन-त्यागी-महोदयाय गच्छति, येन प्रेरणा-दायि-नेतृत्वं, मार्गदर्शनं संरक्षणं च प्रदत्तम्। तथा कार्यक्रम-प्रभारी सामाजिक-विज्ञान-अध्यापकः श्री अनुप-कुमार-मौर्य-महोदयस्य समर्पित-प्रयत्नाः प्रभावी-प्रशिक्षणं च विद्यार्थिनां सफलतायां महत्त्वपूर्णां भूमिकाम् अवहताम्।
अस्मिन् अवसरे प्राचार्यः डॉ.मनमोहन-त्यागी नेस्ट्-मुख्यालयस्य नवदेहल्याः, ईएमआरएस-स्टेट्-सोसायटी रायपुरस्य, नारायणपुर-जनपदस्य जनपदाधि-कारिण्याः नम्रता-जैन-महोदयायाः, आदिम-जाति-कल्याण-विभागस्य सहायक-आयुक्तस्य डॉ. राजेन्द्र-सिंह-महोदयस्य तथा सर्वेषां अधिकारिणां सहयोगिनं च प्रति कृतज्ञतां प्रकटितवान्। तेन उक्तं यत् सर्वेषां सहयोगेन, मार्गदर्शनेन, निरन्तर-समर्थनेन च विद्यार्थिनः पूर्णोत्साहेन, अनुशासनेन, आत्मविश्वासेन च प्रतियोगितायां सहभागित्वं कृत्वा विद्यालयस्य तथा छत्तीसगढ़-राज्यस्य नाम राष्ट्रीय-स्तरे गौरवान्वितवन्तः। विद्यालय-परिवारेण अस्याः उपलब्धेः निमित्तं चयनित-विद्यार्थिभ्यः, तेषाम् अभिभावकेभ्यः तथा समस्त-शिक्षकेभ्यः हार्दिकाः शुभकामनाः अभिनन्दनं च प्रदत्तम्, तेषां उज्ज्वल-भविष्यस्य कामना च कृता।
Hindusthan Samachar / Divya Ranjan