देशस्य सर्वेषु विमानस्थानकेषु प्रयोक्ष्यते एटीआरएस, 2027 यावत् समस्तेषु राज्येषु एफआरआरओकार्यालयः - अमित शाहः
नव दिल्ली, 08 जुलाईमासः (हि.स.)। केन्द्रीयगृहसहकारितामन्त्री अमितशाहः केन्द्रीयनागरिकविमाननमन्त्री राममोहननायडूकिंजरापुः च बुधवासरे देशस्य प्रमुखविमानपत्तनेषु यात्रिसुविधानां सुरक्षाव्यवस्थायाः आप्रवासनप्रणाल्याश्च समीक्षां कृतवन्तौ। सभायां यात्रि
देशस्य सर्वेषु विमानस्थानकेषु प्रयोक्ष्यते एटीआरएस, 2027 यावत् समस्तेषु राज्येषु एफआरआरओकार्यालयः - अमित शाहः


नव दिल्ली, 08 जुलाईमासः (हि.स.)।

केन्द्रीयगृहसहकारितामन्त्री अमितशाहः केन्द्रीयनागरिकविमाननमन्त्री राममोहननायडूकिंजरापुः च बुधवासरे देशस्य प्रमुखविमानपत्तनेषु यात्रिसुविधानां सुरक्षाव्यवस्थायाः आप्रवासनप्रणाल्याश्च समीक्षां कृतवन्तौ। सभायां यात्रिणाम् आवागमनम् अधिकं सुगमं सुरक्षितम् आधुनिकं च कर्तुं महत्त्वपूर्णाः निर्णयाः कृताः।

सभायां गृहसचिवः गुप्तचरविभागस्य आईबी निदेशकः नागरिकविमाननमन्त्रालयस्य सचिवः केन्द्रीयऔद्योगिकसुरक्षाबलस्य सीआईएसएफ महानिदेशकः भारतीयविमानपत्तनप्राधिकरणस्य एएआई अध्यक्षः तथा गृहनागरिकविमाननमन्त्रालययोः वरिष्ठाधिकारिणः उपस्थिताः आसन्।

अमितशाहः निर्देशं दत्तवान् यत् देशस्य सर्वेषु विमानपत्तनेषु स्वचालित एक्सरे ट्रे रिटर्न प्रणाली एटीआरएस चरणबद्धरीत्या कार्यान्विता क्रियताम् येन मानवसंसाधनस्य आवश्यकता न्यूना भविष्यति तथा सुरक्षापरीक्षणप्रक्रिया अधिका तीव्रा प्रभावपूर्णा च भविष्यति। सः एतदपि उक्तवान् यत् नवीनविमानपत्तनेषु अस्याः प्रणाल्याः स्थापनायै उपयुक्ताः मानदण्डाः निर्धारिताः क्रियन्ताम्।

गृहमन्त्री उक्तवान् यत् विमानपत्तनेषु प्रवेशद्वाराणि चेकइन काउण्टर सुरक्षा परीक्षणमार्गाः आप्रवासनकाउण्टर इत्यादयः सर्वाः प्रक्रियाः एकीकृत्य व्यापकं संरचनात्मकतन्त्रं निर्मीयताम् येन कस्मिन्नपि स्तरे यात्रिणाम् आवागमनं बाधितं न भवेत्। सः उक्तवान् यत् प्रत्येकस्मै सम्पर्कबिन्दवे समन्विता योजना निर्मिता अस्ति यया यात्रिणां निर्बाधम् आवागमनं सुनिश्चितं भविष्यति।

शाहः निर्माणाधीनानि २१ विमानपत्तनानि तथा विकासाय चिह्नितानि अन्यानि ४१ विमानपत्तनानि यात्रियातायातस्य आधारेण प्राथमिकतां दातुं निर्देशान् दत्तवान्। सः उक्तवान् यत् सर्वेषु ६२ विमानपत्तनेषु विकासकार्याणि आगामिनोः द्वयोः वर्षयोः पूर्णानि क्रियन्ताम् तथा एतत् सुनिश्चितं क्रियतां यत् सुरक्षामानदण्डैः सह किमपि सम्झौतं न भवेत् तथा व्यावसायिकक्षेत्राणि निर्धारितमानदण्डानाम् अन्तर्गतं तिष्ठेयुः।

सः नागरिकविमाननमन्त्रालयं यात्रियातायातस्य विमानयातायातस्य च आधारेण सर्वेषु विमानपत्तनेषु एयरोब्रिज सङ्ख्यानिर्धारणाय मानदण्डान् निर्मातुं निर्देशान् अपि दत्तवान्। सहैव वर्तमानसमये १६ प्रमुखविमानपत्तनेषु उपलब्धां बैगेजड्राप सुविधाम् अधिकयात्रिसङ्ख्यायुक्तेषु अन्येषु अन्ताराष्ट्रियविमानपत्तनेषु विस्तारयितुं उक्तवान्।

गृहमन्त्री स्पष्टं कृतवान् यत् एक्सरे परीक्षणकार्ये नियुक्तानां सीआईएसएफ कर्मिणां निर्धारितशैक्षणिकयोग्यतामानदण्डेषु कापि शिथिलता न प्रदातव्या तथा आवश्यकयोग्यतायुक्ताः अधिकारिणः कर्मिणश्च एव अस्मिन् कार्ये नियुक्ताः क्रियन्ताम्।

अमितशाहः निर्देशं दत्तवान् यत् वर्षं २०२७ यावत् सर्वेषां राज्यानां राजधानीषु विदेशीयक्षेत्रीयपञ्जीकरणकार्यालयाः एफआरआरओ स्थापिताः क्रियन्ताम्। सः अगरतलाजेवरविमानपत्तनयोः अधिकृतानि आप्रवासनपरीक्षणकेन्द्राणि शीघ्रं प्रारब्धुं निर्देशान् अपि दत्तवान्।

सः फास्टट्रैक इमिग्रेशन ट्रस्टेड ट्रैवलर्स प्रोग्राम एफटीआई टीटीपी इत्यस्य लोकप्रियतावर्धनाय विमानसेवाप्रदातृसंस्थानां सहयोगेन एतादृशीं व्यवस्थां विकसितुं उक्तवान् यस्याः अन्तर्गतं अन्ताराष्ट्रिययात्रापत्रस्य आरक्षणसमये यात्रिभ्यः व्हाट्सएपसन्देशं प्रेषयित्वा अस्मिन् अन्तर्जालीयमञ्चे पञ्जीकरणाय प्रोत्साहनं प्रदास्यते।

सभायां गृहमन्त्री एतदपि निर्देशं दत्तवान् यत् नागरिकविमाननमन्त्रालयः सीआईएसएफ च पृथक् पृथक् स्वतन्त्रतृतीयपक्षीयसंस्थाभिः व्यस्तयात्राकाले अध्ययनं कारयेताम् येन प्रमुखविमानपत्तनानां सर्वेषु सम्पर्कबिन्दुषु यात्रिभिः अनुभूयमानस्य विलम्बस्य आकलनं कृत्वा तस्य न्यूनीकरणाय प्रभावपूर्णाः उपायाः कर्तुं शक्येरन्।

---------------

Hindusthan Samachar / Dheeraj Maithani