सतनामपथः साहेब जगजीवन दासस्य तपोस्थली कोटवा धाम्नो भविष्यति विकासः
सर्वकारः सतनाम पथः आस्थायाः संपदः संरक्षणाय प्रतिबद्ध: जयवीर सिंहः लखनऊ, 08 जुलाईमासः (हि.स.)। उत्तरप्रदेशस्य बाराबङ्कीजिलायां कोटवाधामस्थितस्य सतनामपन्थस्य संस्थापकस्य साहेबजगजीवनदासस्य तपःस्थल्यां निर्मिते मन्दिरपरिसरे २०२.५१ लक्षरूप्यकाणां व्य
साहेब जगजीवन दास की समाधि


सर्वकारः सतनाम पथः आस्थायाः संपदः संरक्षणाय प्रतिबद्ध: जयवीर सिंहः

लखनऊ, 08 जुलाईमासः (हि.स.)।

उत्तरप्रदेशस्य बाराबङ्कीजिलायां कोटवाधामस्थितस्य सतनामपन्थस्य संस्थापकस्य साहेबजगजीवनदासस्य तपःस्थल्यां निर्मिते मन्दिरपरिसरे २०२.५१ लक्षरूप्यकाणां व्ययेन पर्यटनविकासकार्याणि कारयिष्यन्ते।

उत्तरप्रदेशस्य पर्यटनसंस्कृतिमन्त्री जयवीरसिंहः उक्तवान् यत् समर्थसाहेबबाबाजगजीवनदासेन सतनामपन्थस्य स्थापना कृता आसीत्। एषः पन्थः सत्योपासनायाः मानवीयसमानतायाः सामाजिकसद्भावस्य च सन्देशं ददाति। अस्य मूलभावना आडम्बरात् भेदभावात् च परा अस्ति। सः उक्तवान् यत् प्रदेशसर्वकारः सर्वेषां धर्माणां पन्थानां समुदायानां च आस्थां सम्मानयन् धार्मिकस्थलानां पर्यटनविकासं कारयति।

अस्मिन्नेव क्रमे राजधानीलखनऊनगरस्य समीपस्थस्य बाराबङ्कीजिलायाः सिरौलीगौसपुरतहसीलस्थिते कोटवाधाम्नि जगजीवनदासमन्दिरस्य पर्यटनविकासाय १५० लक्षरूप्यकाणां राशिः निर्गता अस्ति।

पर्यटनविकासस्य अन्तर्गतं व्यापककार्याणि भविष्यन्ति

मुख्यमन्त्रीपर्यटनविकासपरियोजनायाः अन्तर्गतं श्रद्धालूनां पर्यटकानां च सुविधानां विस्तारः करिष्यते। अस्य अन्तर्गतं ६०.५१ लक्षरूप्यकाणां व्ययेन यात्रिनिवासस्य १३.०७ लक्षरूप्यकाणां व्ययेन शौचालयखण्डस्य तथा ३६.१३ लक्षरूप्यकाणां व्ययेन वस्त्रपरिवर्तनकक्षस्य निर्माणं प्रस्तावितम् अस्ति। एतदतिरिक्तं भव्यप्रवेशद्वारं भित्तिचित्रयुक्ता भित्तिः अलङ्कारिकस्तम्भाः पेयजलव्यवस्था मन्दिरपरिसरस्य सौन्दर्यीकरणं यात्रिसुविधानां विस्तारः अलङ्कृता स्वतन्त्रभित्तिः पाषाणखण्डमार्गनिर्माणं च इत्यादीनि कार्याणि अपि करिष्यन्ते।

प्रदेशस्य प्रमुखाध्यात्मिकस्थलेषु समाविष्टं कोटवाधाम

बाराबङ्कीजिलायाः सिरौलीगौसपुरतहसीलस्थिते कोटवाधाम्नि बाबाजगजीवनदासस्य प्रायः ३५६ वर्षप्राचीनं मन्दिरं समाधिस्थलं च स्थितम् अस्ति। एतत् सतनामपन्थस्य प्रमुखतपःस्थलरूपेण प्रसिद्धम् अस्ति। मान्यता अस्ति यत् अत्र आगच्छतां श्रद्धालूनां मनोकामनाः पूर्णाः भवन्ति। प्रतिवर्षम् आयोज्यमाने मेलके प्रदेशसहितं देशस्य विभिन्नभागेभ्यः बहुसङ्ख्यकाः श्रद्धालवः आगच्छन्ति।

जन्मोत्सवे प्रदेशस्य विभिन्नभागेभ्यः श्रद्धालूनां महान् समागमः भवति

माघशुक्लपक्षस्य सप्तम्यां समर्थसाहेबबाबाजगजीवनदासस्य जन्मोत्सवः श्रद्धया उत्साहेन च सह आचर्यते। अस्मिन् अवसरे बाराबङ्की बहराइच गोण्डा बलरामपुर सुल्तानपुर अमेठी अयोध्या रायबरेली लखनऊ उन्नाव कानपुर सहितं प्रदेशस्य अनेकेभ्यः जनपदेभ्यः अन्यराज्येभ्यः अपि बहुसङ्ख्यकाः श्रद्धालवः कोटवाधाम प्राप्नुवन्ति।

पर्यटनसंस्कृतिमन्त्री जयवीरसिंहः उक्तवान् यत् सतनामिसम्प्रदायस्य प्रमुखस्थलस्य कोटवाधाम्नः पर्यटनविकासेन श्रद्धालुभ्यः आधुनिकसुविधाः उपलब्धाः भविष्यन्ति। अनेन प्रदेशस्य समृद्धसांस्कृतिकाध्यात्मिकविरासतायै राष्ट्रियस्तरे नवीनः परिचयः प्राप्स्यते।

-------------

Hindusthan Samachar / Dheeraj Maithani