मोदी-शासनस्य उपलब्धी: गृहे गृहे प्रापयन्तु भाजपाकार्यकर्तारः - अनुरागठाकुरः
हमीरपुरम्, ०८ जुलाईमासः (हि.स.)। भारतीयजनतापक्षस्य हमीरपुर-जनपदस्य द्विदिवसीय-जनपदस्तरीय-प्रशिक्षण-महाभियानस्य शुभारम्भः बुधवासरे बड़सर-क्षेत्रे अभवत्। कार्यक्रमम् उद्दिश्य सम्बोधयन् पूर्व-केन्द्रीयमन्त्री हमीरपुर-सांसदः अनुरागसिंहठाकुरः अवदत् यत्
भाजपा कार्यकर्ता ही मोदी सरकार की उपलब्धियों के सबसे बड़े जनदूत: अनुराग सिंह ठाकुर


हमीरपुरम्, ०८ जुलाईमासः (हि.स.)। भारतीयजनतापक्षस्य हमीरपुर-जनपदस्य द्विदिवसीय-जनपदस्तरीय-प्रशिक्षण-महाभियानस्य शुभारम्भः बुधवासरे बड़सर-क्षेत्रे अभवत्। कार्यक्रमम् उद्दिश्य सम्बोधयन् पूर्व-केन्द्रीयमन्त्री हमीरपुर-सांसदः अनुरागसिंहठाकुरः अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदिनः नेतृत्वे केन्द्रशासनेन गतद्वादशवर्षेषु जनकल्याणे, सुशासने तथा विकासे नूतनाः आयामाः स्थापिताः। सः अवदत् यत् एताः उपलब्धी: गृहे गृहे प्रापयितुं प्रत्येकं भाजपाकार्यकर्तुः दायित्वम् अस्ति।

प्रशिक्षणवर्गे राज्यसभासदस्यः डॉ. सिकन्दरकुमारः, विधायकः इन्द्रदत्तलखनपालः, विधायकः आशीषशर्मा, पूर्वविधायकः राजेन्द्रराणा, कमलेशकुमारी, डॉ. अनिलधीमानः, विजयअग्निहोत्री तथा भारतीयजनतापक्षस्य जनपदाध्यक्षः राकेशठाकुरः इत्यादयः बहुसंख्यकाः पदाधिकारीणः कार्यकर्तारश्च उपस्थिताः आसन्। स्वागतभाषणे राकेशठाकुरः अवदत् यत् प्रशिक्षणवर्गः संगठनस्य वैचारिक-साङ्गठनिक-दृष्ट्या सुदृढीकरणस्य प्रभावीमाध्यमम् अस्ति।

अनुरागठाकुरः अवदत् यत् केन्द्रशासनस्य योजनानां लाभः देशस्य कोटिशः जनेभ्य: प्राप्तः। तेन उक्तं यत् प्रधानमन्त्री-आवास-योजनायाः अन्तर्गतं चत्वारिलक्षाधिक-परिवारेभ्यः पक्वगृहाणि, जलजीवन-अभियानस्य माध्यमेन पञ्चदशलक्षाधिक-ग्रामीणपरिवारेभ्यः नलजलम्, प्रधानमन्त्री-किसान-सम्मान-निधेः अन्तर्गतं एकादशलक्षाधिक-कृषकेभ्यः आर्थिकसहायता तथा उज्ज्वला-योजनायाः अन्तर्गतं दशलक्षाधिक-महिलाभ्यः गैस-संयोजनानि प्रदत्तानि। आयुष्मान्-भारत, मुद्रा-योजना, स्टार्टअप-इण्डिया, डिजिटल-इण्डिया तथा कौशल-विकास-योजनाः अपि जनहिते महत्त्वपूर्णाः इति तेन उक्तम्।

सः अवदत् यत् अद्य भारतं विश्वस्य तृतीयं महत्तमं स्टार्टअप-पारिस्थितिकतन्त्रं जातम् अस्ति तथा शिक्षा-स्वास्थ्य-क्षेत्रयोः अपि अभूतपूर्वः विस्तारः अभवत्। हिमाचलप्रदेशाय एम्स-बिलासपुरः, पीजीआई-सैटेलाइट-केन्द्रम् ऊना, राष्ट्रिय-राजमार्गाः, फोरलेन-परियोजनाः, ग्रामीण-मार्ग-जालम् तथा डिजिटल-संयोजकता इत्यादयः बहवः विकासोपहाराः केन्द्रशासनेन प्रदत्ताः। प्राकृतिक-विपत्तीनां समयेऽपि केन्द्रशासनेन प्रदेशाय सर्वथा आवश्यकसहायता प्रदत्ता।

राज्यसभासदस्यः डॉ. सिकन्दरकुमारः अवदत् यत् भारतीयजनतापक्षस्य कार्यकर्ता केवलं निर्वाचन-राजनीत्यां सीमितः नास्ति, अपितु समाजे सकारात्मक-परिवर्तनस्य माध्यमम् अपि अस्ति। तेन कार्यकर्तृभ्यः समाजस्य प्रत्येकं वर्गेण सह निरन्तरं संवादं स्थापयितुं तथा सेवा-समर्पण-सङ्घटन-भावनया कार्यं कर्तुम् आह्वानं कृतम्।

सः अवदत् यत् केन्द्रशासनस्य जनकल्याणकारी-योजनाः तथा राष्ट्रहितसम्बद्धाः विषयाः जनं जनं प्रति प्रापयितुं प्रत्येकं भाजपाकार्यकर्तुः उत्तरदायित्वम् अस्ति। डॉ. सिकन्दरकुमारः अवदत् यत् प्रशिक्षितः, अनुशासितः राष्ट्रहिताय समर्पितश्च कार्यकर्ता एव विकसितभारतस्य सङ्कल्पस्य साकारीकरणे महत्त्वपूर्णां भूमिकां निर्वहिष्यति।

प्रशिक्षणवर्गस्य विभिन्नेषु सत्रेषु विधायकः इन्द्रदत्तलखनपालः तथा विधायकः राकेशजम्वालः अपि कार्यकर्तॄणां मार्गदर्शनम् अकुरुताम्।

Hindusthan Samachar / Divya Ranjan