Enter your Email Address to subscribe to our newsletters

नागपुरम्, 8 जुलाईमासः (हि.स.)। भारतस्य ब्रिक्स २०२६ अध्यक्षतायाः अन्तर्गतं महाराष्ट्रस्य नागपुरनगरे ११ तथा १२ जुलाई दिनाङ्कयोः ब्रिक्सदेशानां परिवहनमन्त्रिणां तृतीया सभा आयोजयिष्यते। अस्यां सभायां ब्रिक्ससदस्यदेशानां परिवहनमन्त्रिभिः सह वरिष्ठाधिकारिणः अपि भागं ग्रहीष्यन्ति तथा चिरस्थायिपरिवहनव्यवस्था आधारभूतसंरचनायाः विकासः वैश्विकसम्पर्कव्यवस्था च इत्येतेषु विषयेषु चर्चा करिष्यन्ति।
सर्वकारीयप्रवक्तुः अनुसारं भारतस्य ब्रिक्सअध्यक्षतायाः लचीलता नवाचारः सहयोगः स्थिरता च एतेषां कृते निर्माणम् इति विषयवस्तुनः अनुरूपम् अस्याः सभायाः आयोजनं क्रियते। सभायाः उद्देश्यम् अस्ति यत् प्रौद्योगिकप्रगतेः उत्तमसम्पर्कव्यवस्थायाः च माध्यमेन समावेशिविकासः प्रोत्साह्येत। केन्द्रीयसडकपरिवहनराजमार्गमन्त्री नितिनगडकरी ११ जुलाई दिनाङ्के आयोज्यमानायाः सभायाः अध्यक्षतां करिष्यति। अस्यां ब्रिक्सदेशानां सम्बन्धितमन्त्रिणः वरिष्ठप्रतिनिधयः च सम्मिलिताः भविष्यन्ति।
ब्रिक्सपरिवहनकार्यसमूहः सदस्यदेशानां मध्ये नीतिसम्बद्धसंवादस्य सहयोगस्य च महत्त्वपूर्णः मञ्चः अभवत् अस्ति। रूसस्य ब्राजीलस्य च अध्यक्षतायां आयोजितयोः प्रथमद्वितीयसभयोः अनन्तरं नागपुरनगरे आयोज्यमाना एषा तृतीया सभा अन्तरराष्ट्रीयपरिवहनसहयोगं अधिकं सुदृढं कर्तुं दिशि महत्त्वपूर्णं पदं मन्यते।
अस्यां द्विदिवसीयसभायां परिवहनक्षेत्रे जातायाः प्रगतेः समीक्षया सह वैश्विकस्तरे स्वीक्रियमाणानां सर्वोत्तमप्रक्रियाणाम् आदानप्रदानं भविष्यति तथा भविष्यत्कालीनसहयोगस्य नवीनक्षेत्रेषु विचारविमर्शः क्रियिष्यते।
सभायां चिरस्थायिविमाननेन्धनं नगरीयगतिशीलता बहुमाध्यमपरिवहनप्रणाली सुदृढा प्रचालनआपूर्तिशृङ्खला कार्बनउत्सर्जनस्य न्यूनीकरणं कृत्रिमबुद्धिमत्ताआधारितप्रौद्योगिकीनाम् उपयोगः च इत्यादिषु विषयेषु विशेषचर्चा भविष्यति।
विस्तारिते ब्रिक्ससमूहे ब्राजीलः चीनः मिस्रः इथियोपिया भारतम् इण्डोनेशिया ईरानः रूसः सऊदीअरबः दक्षिणाफ्रिका संयुक्तअरबअमीरातः च सम्मिलिताः सन्ति। एषः समूहः विश्वस्य प्रायः अर्धजनसङ्ख्यायाः प्रतिनिधित्वं करोति तथा वैश्विकअर्थव्यवस्थायां महत्त्वपूर्णां भूमिकां निर्वहति।
ब्रिक्सदेशानां मध्ये सुदृढपरिवहनसहयोगेन व्यापारस्य प्रोत्साहने क्षेत्रीयान्तरमहाद्वीपीयसम्पर्कस्य सुधारणे प्रचालनदक्षतायाः वर्धने उत्तमवैश्विकआपूर्तिशृङ्खलायाः विकासे च साहाय्यं प्राप्स्यते इति अपेक्षा अस्ति।
नागपुरनगरे आयोज्यमाना एषा सभा परिवहनक्षेत्रे ब्रिक्सदेशानां सहयोगाय नवीनां दिशां प्रदास्यति। अनेन नगरस्य अन्ताराष्ट्रियपरिचयः अपि सुदृढः भविष्यति तथा वैश्विकनीतिनिर्माणे नागपुरनगरस्य भूमिका अधिका महत्त्वपूर्णा भवितुं शक्नोति।------------
Hindusthan Samachar / Dheeraj Maithani