Enter your Email Address to subscribe to our newsletters

रायपुरम् , 08 जुलाईमासः (हि.स.)।छत्तीसगढशासनस्य सामान्यप्रशासनविभागेन मङ्गलवासरे रात्रौ विलम्बेन भारतीयप्रशासनिकसेवायाः ८ अधिकारिणां स्थानान्तरणादेशः निर्गतः यस्मिन् ५ जनपदानां जिलापञ्चायतानां मुख्यकार्यपालनाधिकारिणः परिवर्तिताः सन्ति।
नगरीयप्रशासनविकासविभागस्य सञ्चालकाय रेमिजियुसएक्काय राज्यनगरीयविकासाभिकरणस्य मुख्यकार्यपालनाधिकारिणः अतिरिक्तदायित्वम् अपि प्रदत्तम् अस्ति। निर्गतादेशानुसारं रेमिजियुसएक्का भारतीयप्रशासनिकसेवा २०११ स्ववर्तमानदायित्वैः सह राज्यनगरीयविकासाभिकरणस्य मुख्यकार्यपालनाधिकारिणः अतिरिक्तदायित्वम् अपि निर्वक्ष्यति।
जिलापञ्चायतधमतरी इत्यस्य मुख्यकार्यपालनाधिकारी गजेन्द्रसिंहठाकुरः राजस्व आपदाप्रबन्धन पुनर्वासविभागे उपसचिवरूपेण पदस्थापितः अस्ति।
प्रतीकजैनः जिलापञ्चायतबस्तरतः स्थानान्तरितः जिलापञ्चायतकोरबायाः मुख्यकार्यपालनाधिकारी नियुक्तः अस्ति।
सुरुचिसिंहः जिलापञ्चायतराजनान्दगांवतः स्थानान्तरिता भिलाईनगरपालिकनिगमस्य आयुक्तरूपेण पदस्थापिता अस्ति।
जयन्तनाहटा जिलापञ्चायतदन्तेवाडातः स्थानान्तरितः जिलापञ्चायतधमतर्याः मुख्यकार्यपालनाधिकारी नियुक्तः अस्ति।
एम भार्गवः डोंगरगढस्य अनुविभागीयाधिकारी राजस्व जिलापञ्चायतदन्तेवाडायाः मुख्यकार्यपालनाधिकारी नियुक्तः अस्ति।
तनयखत्रा कटघोरायाः अनुविभागीयाधिकारी राजस्व जिलापञ्चायतबस्तरस्य मुख्यकार्यपालनाधिकारी नियुक्तः अस्ति।
दुर्गाप्रसादअधिकारी घरघोडायाः अनुविभागीयाधिकारी राजस्व जिलापञ्चायतराजनान्दगांवस्य मुख्यकार्यपालनाधिकारी नियुक्तः अस्ति।
Hindusthan Samachar / Dheeraj Maithani