Enter your Email Address to subscribe to our newsletters

रायपुरम्, ०८ जुलाईमासः (हि.स.)। छत्तीसगढस्य मुख्यमन्त्रिणः विष्णुदेव-सायस्य अध्यक्षतायां राज्यस्य मन्त्रिपरिषदः महत्त्वपूर्णा सभा अद्य बुधवासरे सायं चतुर्वादने नवा रायपुर-अटल-नगर-स्थिते मन्त्रालयस्य महानदी-भवने आयोजिता भविष्यति।
अस्यां सभायां राज्यसर्वकारस्य विभिन्न-विभागैः सम्बद्धानां महत्त्वपूर्ण-प्रस्तावानां नीतिगत-निर्णयानां च विषये चर्चा भवितुमर्हति। एतदतिरिक्तं प्रदेशस्य विकासकार्येषु, प्रशासनिक-विषयेषु तथा जनहितसम्बद्धेषु अनेकेषु महत्त्वपूर्णेषु विषयेष्वपि मन्त्रिपरिषदः अनुमोदनं दातुं शक्नोति।
यद्यपि सभायाः विस्तृता कार्यसूची अद्यापि सार्वजनिकीकृता नास्ति, तथापि सर्वकारेण अनेकविषयेषु महत्त्वपूर्ण-निर्णयाः गृहीताः भविष्यन्तीति-अनुमीयते। अस्याः सभायाः निर्णयेषु सम्पूर्णस्य प्रदेशस्य दृष्टिः निबद्धा वर्तते।
Hindusthan Samachar / Divya Ranjan