Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 08 जुलाईमासः (हि.स.)।
हरियाणाराज्ये सद्यः सम्पन्ने राज्यसभानिर्वाचने कांग्रेसपक्षस्य प्रत्याशिनः कर्मवीरसिंहबौद्धस्य विजयम् दलं लोकतान्त्रिकसंघर्षस्य महतीं सफलतां रूपेण प्रस्तुतवत् आसीत्। भारतीयजनतापक्षसमर्थितस्य निर्दलीयप्रत्याशिनः निर्वाचनक्षेत्रे प्रवेशः परपक्षीयमतदानं मतानां निरस्तीकरणसम्बद्धः विवादः मतगणनायां दीर्घकालिकः गतिरोधः कांग्रेसपक्षस्य विरोधप्रदर्शनानि च इत्येतेषां मध्ये सम्पन्ने अस्मिन् बहुचर्चिते स्पर्धात्मकनिर्वाचने कर्मवीरबौद्धः अत्यल्पेन मतान्तरणेन राज्यसभां प्राप्तवान् आसीत्। हिन्दुस्थानसमाचाराय प्रदत्ते विशेषसाक्षात्कारे कर्मवीरसिंहबौद्धः राज्यसभानिर्वाचनस्य समग्रघटनाक्रमविषये स्वविचारान् विस्तरेण प्रस्तुतवान्।
प्रश्नः- राज्यसभानिर्वाचनस्य अत्यन्तं रोचकस्पर्धायां भवान् विजयं प्राप्तवान्। भवतः प्रथमा प्रतिक्रिया का।
उत्तरम्- देशे यः लोकतन्त्रः अस्ति तं बाबासाहेबडाक्टरभीमरावाम्बेडकरः संविधानसभायाः सदस्याः च येन विचारेण निर्मितवन्तः यत् देशे सर्वेभ्यः समानः सम्मानः भवेत् सर्वेभ्यः विध्यनुसारं समानाधिकाराः भवेयुः राज्यसभां गच्छन् अहम् अपि तथैव अनुभूतवान्।
प्रश्नः - भवान् ३२ वर्षाणि यावत् हरियाणानागरिकसचिवालये प्रशासनिकाधिकारी विधानसभायाः सचिवः च आसीत्। प्रशासनतन्त्रस्य उच्चस्तरात् निर्गत्य अधुना राज्यसभायां जनप्रतिनिधिरूपेण प्रवेशः भवतः कृते कियत् परिस्थितिपूर्णः आसीत्।
उत्तरम्- अहं महाविद्यालयीयदिनेषु सामाजिकान्दोलनेन सह सम्बद्धः आसम्। तदनन्तरं सेवायां स्थित्वा अपि अहं विविधैः सामाजिकान्दोलनैः सह सम्बद्धः आसम्। अहं बाबासाहेबस्य संघर्षस्य सिद्धान्तैः यथा शिक्षिताः भवत सङ्गठिताः भवत संघर्षं कुरुत भेदभावस्य पाखण्डवादस्य च विरोधं कुरुत इत्येतैः सह सम्बद्धः आसम्। एतदतिरिक्तम् अहं सेवाकाले मन्त्रालयेषु सचिवालये च कार्यरतः आसम् अतः तस्मिन् समये राज्ये ये प्रायः सर्वे मुख्यमन्त्रिणः अभवन् ते मां जानन्ति स्म। तैः सर्वैः मुख्यमन्त्रिभिः सह अहं कार्यं कृतवान्। सहस्रशः सभाः कृतवान् संसदः आवृत्तान्दोलनानि कृतवान् सर्वोच्चन्यायालयस्य आवृत्तान्दोलनानि कृतवान् रामलीलाक्रीडांगणे देशस्य विभिन्नेषु भागेषु च वयं बह्व्यः सभाः कृतवन्तः। मह्यम् एतत् कार्यं रोचते स्म। एतेषां सर्वेषां कार्याणां कृते पूर्वम् अस्माकं रामराजः यः अधुना उदितराजः अभवत् तेन सह परिसङ्घः आसीत्। तस्यैव परिसङ्घस्य अन्तर्गतं वयं पदोन्नतौ आरक्षणस्य विषये संसदि संशोधनम् अपि कारितवन्तः।
प्रश्नः- भवते राज्यसभायाः प्रत्याशित्वं दातुं कांग्रेसपक्षस्य दलितराजनीतिकयुक्तिः इति कथ्यते। भवान् किं मन्यते।
उत्तरम्- कांग्रेसपक्षे समये समये पटेलस्य कालः भवतु जवाहरलालनेहरोः कालः भवतु इन्दिरागान्धी भवतु राजीवगान्धी भवतु कांग्रेसपक्षेण अस्माकं समाजस्य उन्नत्यै सर्वाधिकं कार्यं कृतम् अस्ति। नवोदयविद्यालयाः उद्घाटिताः आवासीयविद्यालयाः उद्घाटिताः रिक्तावशिष्टपदानां नियुक्तयः कृताः विशेषघटकयोजना निर्मिता भूमिपट्टाः प्रदत्ताः। बाबासाहेबः कांग्रेसपक्षेण सह संघर्षं कृतवान् किन्तु कांग्रेसपक्षेण एव सः संविधानसभायाः अध्यक्षः कृतः। कांग्रेसपक्षेण एव बाबासाहेबः राज्यसभायाः सदस्यः कृत्वा देशस्य प्रथमः विधिमन्त्री कृतः। कांग्रेसपक्षः समये समये दलितसमाजस्य उन्नतिं करोति। तस्यैव एकम् उदाहरणम् अहम् अपि अस्मि।
प्रश्नः- सांसद् भूत्वा एतत् भवतः प्रथमं वर्षाकालीनसंसत्सत्रं भविष्यति। कौ द्वौ प्रमुखौ विषयौ भवान् संसदि उत्थापयितुम् इच्छति।
उत्तरम्- मम प्रथमः विषयः स्वच्छताकर्मचारिणां भविष्यति। सम्पूर्णे देशे ते बाह्यस्रोताधारितव्यवस्थायां स्थापिताः सन्ति। ते अस्पृश्यतया सर्वाधिकं पीडिताः सन्ति आर्थिकरूपेण च सर्वाधिकं दुर्बलाः सन्ति। द्वितीयः विषयः अत्याचारसम्बद्धः भविष्यति। अनुसूचितजात्यनुसूचितजनजात्यधिनियमं कोपि सर्वकारः सम्यक् रूपेण न कार्यान्वयति। सर्वोच्चन्यायालयस्य उच्चन्यायालयस्य च निर्णयाः अस्माकं पक्षे आगच्छन्ति किन्तु ते कार्यान्विताः न भवन्ति। एतान् विषयान् अधिकृत्य अहं निरन्तरं स्वरम् उत्थापयिष्यामि। वर्तमानसर्वकारः अन्तिमसोपानस्थजनानां विषये वदति किन्तु अनेन सर्वकारेण अन्तिमसोपानस्थजनानां कृते किमपि कार्यं न कृतम् अस्ति। मह्यं षड्वर्षाणि प्राप्तानि सन्ति अहम् एतादृशान् विषयान् निरन्तरम् उत्थापयिष्यामि।
प्रश्नः - भवान् त्रिंशत् वर्षाणि प्रशासनिकाधिकारी आसीत्। किं भवते मन्यते यत् अन्यराजनेतृणाम् अपेक्षया व्यवस्थायाः दोषान् अधिकसम्यक् रूपेण प्रकाशयितुं शक्ष्यति।
उत्तरम्- आम् यदा दलितानां पिछडावर्गीयाणाम् आदिवासिनां च सञ्चिकाः आगच्छन्ति तदा अधिकारिणः साहसं न प्रदर्शयन्ति। योजनाः केवलं पत्रेषु एव अवशिष्यन्ते। संविधानं विश्वस्य श्रेष्ठतमम् अस्ति किन्तु तस्य कार्यान्वयनकर्तारः सम्यक् न सन्ति। मम सर्वेषां प्रशासनिककार्याणां ज्ञानम् अस्ति। याः अपि सञ्चिकाः आगच्छन्ति तासु कार्यान्वयनं किमर्थं न भवति इति अहं गहनतया दृष्टवान्। ये अनुसूचितजात्यनुसूचितजनजातिसम्बद्धाः मन्त्रिणः विधायकाः च भवन्ति तेषु स्वसमाजस्य विषयान् मुख्यमन्त्रिणः समक्षं स्थापयितुं साहसं न भवति। अहम् एतत् सूक्ष्मतया दृष्टवान्। तेषां क्षेत्रेषु याः योजनाः सन्ति ताः केवलं पत्रेषु एव सन्ति। एते सर्वे विषयाः सन्ति तेषां कार्यान्वयनाय अहं निरन्तरं स्वरम् उत्थापयिष्यामि।
प्रश्नः - २०२४ वर्षस्य लोकसभानिर्वाचनानन्तरस्य स्थितौ वर्तमानस्थितौ च महान् परिवर्तनम् आगतम् अस्ति। सत्तारूढगठबन्धनस्य समीपे द्वितृतीयांशबहुमतं यद्यपि नास्ति तथापि तत् द्वितृतीयांशबहुमतस्य अत्यन्तं समीपे अस्ति। यदि किमपि संविधानसंशोधनं प्रस्तुतं भवति तर्हि भवतः रणनीतिः का भविष्यति।
उत्तरम् -वर्तमानसर्वकारेण पञ्जाबस्य आमआदमीपक्षं विभज्य षट् राज्यसभासांसदः स्वपक्षे सम्मिलिताः। तदनन्तरं तृणमूलकांग्रेसपक्षस्य सांसदः विधायकाः शिवसेनायाः राष्ट्रवादीकांग्रेसपक्षस्य च सांसदः विभाजिताः। एवं प्रकारेण अन्यपक्षान् भयभीतान् कृत्वा वर्तमानसर्वकारः शासनं करोति। पश्यन्तु महिलारक्षणविधेयकं पारितम् अस्ति तर्हि सीमापुनर्निर्धारणे एतावती शीघ्रता किमर्थम्। वयम् एतादृशस्य कस्यापि विधेयकस्य प्रबलं विरोधं करिष्यामः।
प्रश्नः - आगामिनि संसत्सत्रे राममन्दिरस्य चढावधनचौर्यं नीटपरीक्षायाः प्रश्नपत्रस्य रहस्योद्घाटनम् इत्यादीन् विषयान् अधिकृत्य भवतः रणनीतिः का भविष्यति।
उत्तरम्- नीटपरीक्षायाः प्रश्नपत्रं पुनः पुनः पूर्वमेव प्रकाशितं भवति। सर्वकारस्य स्वाधिकारिषु विश्वासः नास्ति अतः सर्वाणि कार्याणि बाह्यस्रोताधारितानि कृतानि सन्ति। राममन्दिरे कोटिशः रुप्यकाणां चढावधनस्य लेखां कः दास्यति। एतान् विषयान् अधिकृत्य वयं निश्चितरूपेण स्वरम् उत्थापयिष्यामः।
प्रश्नः- हरियाणाराज्ये कृषकसम्बद्धाः विषयाः सस्यानां न्यूनतमसमर्थनमूल्यं च अत्यन्तं महत्त्वपूर्णः विषयः अस्ति। अस्मिन् विषये भवतः रणनीतिः का अस्ति।
उत्तरम्- अहं स्वयं कृषकस्य पुत्रः अस्मि। न्यूनतमसमर्थनमूल्यस्य प्रतिज्ञा कृता आसीत् किन्तु सा पूर्णा न क्रियते। उर्वरकाणि बीजानि अन्यानि आवश्यकवस्तूनि च कृषकेभ्यः सम्यक् समये न प्राप्यन्ते। न कृषकाणाम् आयः द्विगुणितः अभवत् न च ते न्यूनतमसमर्थनमूल्यं प्राप्नुवन्ति। एषः सर्वकारः कृषकविरोधी श्रमिकविरोधी च अस्ति।
प्रश्नः- हरियाणाराज्ये रोजगारस्य विषयः अपि अत्यन्तं महत्त्वपूर्णः अस्ति अग्निवीरसदृश्याः योजनायाः विषये भवतः मतं किम्।
उत्तरम्- अग्निवीरयोजनायां चत्वारि वर्षाणि कार्यं कृत्वा अनन्तरं किमपि न प्राप्यते। सहस्रशः सर्वकारीयपदानि रिक्तानि सन्ति सर्वाणि कार्याणि बाह्यस्रोताधारितानि कृतानि सन्ति। युवानः बेरोजगाराः सन्ति। वयम् आगामिकाले निश्चितरूपेण एतं विषयम् अधिकदृढतया प्रस्तोष्यामः।
---------------
Hindusthan Samachar / Dheeraj Maithani