Enter your Email Address to subscribe to our newsletters

ख़्वाजा मुईनुद्दीन चिश्ती भाषा विश्वविद्यालयस्य 11तमस्य दीक्षांत समारोहस्य आयाेजनम्
लखनऊ, 08 जुलाईमासः (हि.स.)।
उत्तरप्रदेशस्य राज्यपालः आनन्दीबेनपटेलः बुधवासरे लखनऊस्थितस्य ख्वाजामुईनुद्दीनचिश्तीभाषाविश्वविद्यालयस्य एकादशं दीक्षान्तसमारोहं सम्बोधयन्ती उक्तवती यत् युवानः ज्ञानेन संस्कारैः नवाचारैश्च विकसितभारतस्य स्वप्नं साकारं करिष्यन्ति। सा उक्तवती यत् शिक्षायाः वास्तविकम् उद्देश्यं केवलम् उपाधिप्राप्तिः नास्ति अपितु एतादृशानाम् उत्तरदायिनां संवेदनशीलानां संस्कारवतां च नागरिकाणां निर्माणम् अस्ति ये समाजस्य राष्ट्रस्य मानवतायाश्च कल्याणे स्वकीयां सक्रियां भूमिकां निर्वहेयुः। सा उक्तवती यत् विकसितभारतस्य २०४७ सङ्कल्पस्य साकारीकरणे युवानां सर्वाधिकमहत्त्वपूर्णा भूमिका अस्ति तथा अस्य कृते ज्ञानस्य नवाचारस्य नैतिकमूल्यानां भारतीयसंस्कृतेः सामाजिकोत्तरदायित्वस्य च समन्वयः आवश्यकः अस्ति।
स्वकीये अध्यक्षीयोद्बोधने राज्यपालः उक्तवती यत् भाषा केवलं संवादस्य माध्यमं नास्ति अपितु सभ्यतायाः संस्कृतेः ज्ञानस्य च वाहिका अस्ति। विश्वविद्यालयेन संस्कृतस्य पालेः हिन्द्याः उर्दूभाषायाः फारसीभाषायाः आङ्ग्लभाषायाश्च सह जर्मनभाषायाः जापानीभाषायाः चीनीभाषायाः फ्रेन्चभाषायाः अवधिभाषायाश्च अध्ययनस्य दिशि क्रियमाणाः प्रयासाः अस्य विशिष्टपरिचयस्य द्योतकाः सन्ति। सा विद्यार्थिनः आग्रहं कृतवती यत् ते स्वशिक्षां समाजस्य अन्तिमव्यक्तिं यावत् प्रापयितुं माध्यमं भवेयुः तथा राष्ट्रनिर्माणे सक्रियं योगदानं दद्युः।
आनन्दीबेनपटेलः उक्तवती यत् मम विशेषः सन्तोषः अस्ति यत् विगते एकस्मिन् वर्षे विश्वविद्यालयेन राष्ट्रियान्ताराष्ट्रियस्तरे विभिन्नसंस्थाभिः सह ७१ सहमतिज्ञापनेषु हस्ताक्षराणि कृतानि सन्ति। एषा उपलब्धिः विश्वविद्यालयस्य वैश्विकस्वीकार्यतायाः शैक्षिकोत्कृष्टतायाः अनुसन्धानस्य प्रति तस्य प्रतिबद्धतायाश्च परिचायिका अस्ति।
कुलाधिपतिः विद्यार्थिभ्यः स्वभाषायाः भारतीयभाषाणां च सम्मानं संवर्धनं च कर्तुं ज्ञानस्य उपयोगं समाजहिताय कर्तुं तथा जीवने सत्याय संवेदनायै करुणायै नैतिकतायै च सर्वोच्चस्थानं दातुं सङ्कल्पं कारितवती।
युवशक्तिः विकसितभारतस्य सर्वाधिकमहती आधारशिला सुधांशुत्रिवेदी
समारोहस्य मुख्यातिथिः डा सुधांशुत्रिवेदी उक्तवान् यत् शिक्षायाः उद्देश्यं केवलं रोजगारप्राप्तिः नास्ति अपितु ज्ञानस्य इच्छायाः कर्मणश्च समन्वयं संस्थाप्य श्रेष्ठव्यक्तित्वस्य निर्माणम् अस्ति। सः उक्तवान् यत् भारतं विश्वस्य सर्वाधिकयुवाराष्ट्रम् अस्ति तथा एषा एव युवशक्तिः विकसितभारतस्य सर्वाधिकमहती आधारशिला अस्ति। भारतीयज्ञानपरम्परायाः सांस्कृतिकविरासतस्य आधुनिकविज्ञानस्य च समन्वयेन भारतं विश्वस्य नेतृत्वं कर्तुं सामर्थ्यं धारयति। सः विद्यार्थिनः नवाचारम् उद्यमितां सामाजिकोत्तरदायित्वं च स्वजीवनस्य आधारं कर्तुम् आहूतवान्।
विशिष्टातिथिः प्रदेशस्य उच्चशिक्षामन्त्री योगेन्द्रउपाध्यायः उक्तवान् यत् विश्वविद्यालयः उच्चशिक्षाक्षेत्रे निरन्तरं नवीनं परिचयं स्थापयति।
कुलपतिः प्रो अजयतनेजः विश्वविद्यालयस्य उपलब्धीनाम् उल्लेखं कुर्वन् उक्तवान् यत् सत्रे २०२५ २६ आयोजितासु परीक्षासु १२७० विद्यार्थिषु १२३६ विद्यार्थिनः सफलाः अभवन् तथा एकादशे दीक्षान्तसमारोहे कुलं १२५ मेधापदकानि प्रदत्तानि येषु ५४ स्वर्णपदकानि सम्मिलितानि सन्ति। सः उक्तवान् यत् वर्तमानसमये विश्वविद्यालयः ९८ शैक्षणिककार्यक्रमान् सञ्चालयति तथा विदेशीयविद्यार्थिनः आकर्षयितुं स्टडी इन इण्डिया इति अन्तर्जालीयमञ्चे पञ्जीकरणं कृतम् अस्ति। सः उक्तवान् यत् विश्वविद्यालयेन अधुना यावत् ७१ राष्ट्रियान्ताराष्ट्रियसंस्थाभिः सह सहमतिज्ञापनानि कृतानि सन्ति।
विश्वविद्यालयस्य कुलपतिः प्रो अजयतनेजः वार्षिकप्रगतिप्रतिवेदनं प्रस्तुत्य विश्वविद्यालयस्य शैक्षणिकानाम् अनुसन्धानसम्बन्धिनाम् नवाचारसम्बन्धिनाम् अधःसंरचनात्मकानां च उपलब्धीनां विवरणं प्रस्तुतवान्।
कार्यक्रमस्य सञ्चालनं डा नीरजशुक्लः कृतवान्।
Hindusthan Samachar / Dheeraj Maithani