Enter your Email Address to subscribe to our newsletters

भारतीयेतिहासे ०९ जुलाई दिनाङ्कः अनेकासां महत्त्वपूर्णघटनानां साक्षी अभवत्। हिन्दीचलच्चित्रजगतः कृते अयं दिवसः विशेषमहत्त्वपूर्णः अस्ति यतः अस्मिन्नेव दिने भारतीयचलच्चित्रजगतः द्वौ महानौ कलाकारौ गुरुदत्तः संजीवकुमारश्च जातौ। उभाभ्यां स्वकीयाभिनयेन सर्जनात्मकप्रतिभया च भारतीयचलच्चित्रजगत् नवीनोन्नतिं प्रति नीतम्।
अद्यतनदिनाङ्के एव १९२५ तमे वर्षे कर्नाटकराज्ये जातः वसन्तकुमारशिवशङ्करपादुकोणः यं विश्वं गुरुदत्तनाम्ना जानाति हिन्दीचलच्चित्रजगतः महान् अभिनेता निर्देशकः निर्माता च आसीत्। तेन स्वचलच्चित्रेषु मानवीयसंवेदनानां सामाजिकयथार्थस्य कलात्मकदृष्टेश्च एतादृशः समन्वयः कृतः यः अद्यापि आदर्शरूपेण मन्यते।
तस्य कालजयिन्यौ प्यासा तथा कागज के फूल इति चलच्चित्रे अन्तरराष्ट्रीयस्तरे अपि प्रशंसिते। प्रतिष्ठिता टाइम पत्रिका एते उभे चलच्चित्रे विश्वस्य शतश्रेष्ठचलच्चित्राणां सूच्यां स्थानं दत्तवती। एतदतिरिक्तं चौदहवीं का चाँद तथा साहिब बीबी और गुलाम इत्येते अपि तस्य स्मरणीयचलच्चित्रेषु अन्तर्भवन्ति।
अपरतः १९३८ तमे वर्षे अस्मिन्नेव दिने गुजरातराज्यस्य सूरतनगरे जातस्य संजीवकुमारस्य वास्तविकं नाम हरिभाईजरीवाला आसीत्। तेन स्वाभाविकेन प्रभावशालिना विविधतापूर्णेन च अभिनयेन हिन्दीचलच्चित्रजगति विशिष्टा परिचितिः निर्मिता। संजीवकुमारः प्रणयप्रधानासु हास्यप्रधानासु गम्भीरासु चरित्रप्रधानासु च भूमिकासु समानं कौशलं प्रदर्शितवान्।
तेन आंधी कोशिश अंगूर शोले त्रिशूल तथा नया दिन नई रात इत्यादिषु चलच्चित्रेषु स्वकीयाभिनयप्रतिभा प्रमाणिता। विशेषतः कोशिश तथा आंधी इति चलच्चित्रयोः तस्य अभिनयः अद्यापि हिन्दीचलच्चित्रजगतः श्रेष्ठतमेषु अभिनयप्रदर्शनेषु गण्यते।
महत्त्वपूर्णघटनाचक्रम्
१८१६ अर्जेन्टिनादेशेन स्पेनदेशात् स्वातन्त्र्यं प्राप्तम्।
१८७५ बम्बई स्टाक एक्सचेञ्ज इत्यस्य स्थापना अभवत्।
१९५१ देशे प्रथमा पञ्चवर्षीययोजना १९५१ तः १९५६ पर्यन्तं प्रकाशिता।
१९६९ वन्यजीवमण्डलेन सिंहः देशस्य राष्ट्रियपशुः घोषितः। १९७३ तमे वर्षे सिंहस्य स्थाने व्याघ्रः राष्ट्रियपशुः घोषितः।
१९७३ ब्रिटेनदेशस्य त्रिशतवर्षपुरातने बहामास उपनिवेशे ब्रिटिशसाम्राज्यस्य शासनस्य अन्तः अभवत्।
१९८२ समस्ताः सुरक्षाव्यवस्थाः वञ्चयित्वा माइकलफागननामकः कश्चन व्यक्तिः ब्रिटेनदेशस्य महाराज्ञ्याः एलिजाबेथायाः शयनकक्षपर्यन्तं प्राप्तवान्।
१९९१ दक्षिणाफ्रिकादेशाय ओलम्पिकक्रीडासु पुनः सहभागितायाः अनुमतिः प्रदत्ता।
२००० फिजीदेशे जार्जस्पीटस्य सैन्यनेतॄणां च मध्ये सन्धिः सम्पन्नः।
२००१ भारतेन पाकिस्तानसीमायां द्वयोः सीमाचौक्योः स्थापनायाः घोषणा कृता।
२००२ आर्गेनाइजेशन आफ अफ्रीकन यूनिटी इत्यस्य नाम परिवर्त्य अफ्रीकन यूनियन इति कृतम्।
२००४ एशियाई विकास बैंक इत्यनेन आतङ्कवादस्य प्रतिरोधार्थं स्वस्य ४२ सदस्यदेशानां कृते एकः कोषः निर्मितः।
२००७ भारतीयमूलस्य अमेरिकीयवैज्ञानिकाय हिमांशुजैनाय काचविज्ञानक्षेत्रे उल्लेखनीयकार्याय ओट्टो स्काट रिसर्च पुरस्कारः प्रदत्तः।
२००८ ईरानदेशेन दीर्घमध्यमदूरप्रहारक्षमतायुक्तानां नवप्रक्षेपास्त्राणां परीक्षणं कृतम्।
२०११ जनमतसङ्ग्रहानन्तरं सूडानदेशात् पृथक् भूत्वा दक्षिणसूडानः स्वतन्त्रदेशः अभवत्। ९८.८३ प्रतिशतं जनैः पृथग्देशस्य समर्थनाय मतदानं कृतम्।
जन्म
१८१९ सीवनयन्त्रस्य आविष्कर्तुः एलायसहाउस्य जन्म।
१८४५ लार्डमिण्टोद्वितीयस्य जन्म। सः १९०५ तः १९१० पर्यन्तं भारतस्य वायसरायः गवर्नरजनरलश्च आसीत्।
१९०० सत्यनारायणसिन्हस्य जन्म। सः भारतीयराष्ट्रीयकाङ्ग्रेसस्य राजनेता संसदीयकार्याणां मन्त्री मध्यप्रदेशस्य भूतपूर्वराज्यपालश्च आसीत्।
१९२३ मानकभाईअग्रवालस्य जन्म। सः द्वितीयलोकसभायाः सदस्यः आसीत्।
१९२५ प्रसिद्धस्य अभिनेतुः निर्देशकस्य च गुरुदत्तस्य जन्म।
१९३० चलच्चित्रनिर्मातुः निर्देशकस्य पटकथालेखकस्य च के बालाचन्दरस्य जन्म।
१९३८ भारतीयाभिनेतुः संजीवकुमारस्य जन्म।
१९६२ प्रसिद्धस्य भारतीयराजनेतुः शिरोमणिअकालीदलस्य अध्यक्षस्य सुखबीरसिंहबादलस्य जन्म।
निधनम्
१९९१ सुप्रसिद्धस्य शायरस्य शेरीभोपालीस्य निधनम्।
२०१५ भारतस्य प्रख्यातस्य शायरस्य लेखकस्य च सरदारअंजुमस्य निधनम्।
Hindusthan Samachar / Dheeraj Maithani