तकनीकस्य प्रभाविना उपयोगेन स्वास्थ्य सेवाः स्युः अधिक पारदर्शिन्यः, त्वरिता गुणवत्तापूर्णा च : उप मुख्यमंत्री शुक्लः
-आयुष्मान भारत डिजिटल मिशन इत्यस्य प्रगतीनां समीक्षा कृता भोपालम्, 08 जुलाईमासः (हि.स.)।मध्यप्रदेशस्य उपमुख्यमन्त्री राजेन्द्रशुक्लः बुधवासरे मन्त्रालये आयुष्मानभारतडिजिटलमिशनस्य एबीडीएम इत्यस्य अन्तर्गतं सञ्चालितानां प्रगतिशीलकार्याणां समीक्षां क
आयुष्मान भारत डिजिटल मिशन की प्रगति की समीक्षा की


-आयुष्मान भारत डिजिटल मिशन इत्यस्य प्रगतीनां समीक्षा कृता

भोपालम्, 08 जुलाईमासः (हि.स.)।मध्यप्रदेशस्य उपमुख्यमन्त्री राजेन्द्रशुक्लः बुधवासरे मन्त्रालये आयुष्मानभारतडिजिटलमिशनस्य एबीडीएम इत्यस्य अन्तर्गतं सञ्चालितानां प्रगतिशीलकार्याणां समीक्षां कृतवान्। सः निर्देशान् दत्तवान् यत् डिजिटलस्वास्थ्यसेवानां लाभः प्रदेशस्य अन्तिमसीमायां निवसन्तं प्रत्येकं नागरिकं यावत् प्राप्यताम्। सः उक्तवान् यत् प्रौद्योगिक्याः प्रभावपूर्णोपयोगेन नागरिकेभ्यः श्रेष्ठाः त्वरिताः पारदर्शकाः गुणवत्तापूर्णाश्च स्वास्थ्यसेवाः उपलब्धाः कारयितव्याः तथा आभा परिचयपत्रस्य हेल्थप्रोफेशनलरजिस्ट्री इत्यस्य हेल्थफैसिलिटीरजिस्ट्री इत्यस्य च माध्यमेन डिजिटलस्वास्थ्यतन्त्रं सुदृढं करणीयम्। सभायाम् आयुष्मानस्य मुख्यकार्यपालनाधिकारी अरविन्दकुमारशाहः सहिताः सम्बन्धितविभागीयाधिकारिणः उपस्थिताः आसन्।

उपमुख्यमन्त्री शुक्लः उक्तवान् यत् आयुष्मानभारतडिजिटलमिशनस्य उद्देश्यं देशे एकीकृतस्य परस्परसम्बद्धस्य च डिजिटलस्वास्थ्यपरितन्त्रस्य विकासः अस्ति। अस्य माध्यमेन नागरिकेभ्यः विशिष्टा डिजिटलस्वास्थ्यपरिचयसंख्या आभा परिचयपत्रं प्रदीयते येन ते स्वस्वास्थ्याभिलेखान् सुरक्षितरूपेण प्राप्तुं संविभक्तुं च शक्नुवन्ति। उपमुख्यमन्त्री शुक्लः निर्देशान् दत्तवान् यत् शासकीयेषु निजीषु च स्वास्थ्यसंस्थानेषु चिकित्सकानां परिचारिकाणाम् आयुषचिकित्सकानां दन्तचिकित्सकानाम् अन्येषां स्वास्थ्यकर्मिणां च पञ्जीकरणं तीव्रगत्या कारयितव्यम्। सः उक्तवान् यत् सर्वेषु स्वास्थ्यसंस्थानेषु डिजिटलसेवानाम् उपयोगवर्धनाय आवश्यकं प्रशिक्षणं प्राविधिकसहायतां नियमितानुश्रवणं च सुनिश्चितं करणीयम्। उपमुख्यमन्त्री शुक्लः उक्तवान् यत् आयुष्मानभारतडिजिटलमिशनेन रोगिणां चिकित्सकानां प्रयोगशालानां औषधालयानाम् चिकित्सालयानां बीमासेवानां च मध्ये स्वास्थ्यसम्बन्धिसूचनानां सुरक्षितः निर्बाधश्च आदानप्रदानः सम्भविष्यति। अनेन उपचारस्य निरन्तरता स्वास्थ्यसेवानां गुणवत्ता तथा प्रशासनिककार्यप्रणाल्यां पारदर्शिता च वर्धिष्यते।

आयुष्मानस्य मुख्यकार्यपालनाधिकारी शाहः उक्तवान् यत् प्रदेशे अधुना यावत् प्रायः ५ दशमलव ८६ कोटि एबीएचए परिचयपत्राणि निर्मितानि सन्ति। सहैव प्रायः २० सहस्रं स्वास्थ्यसंस्थानानि हेल्थफैसिलिटीरजिस्ट्री इत्यस्मिन् पञ्जीकृतानि सन्ति तथा प्रायः १८ सहस्रं स्वास्थ्यव्यावसायिकाः हेल्थप्रोफेशनलरजिस्ट्री इत्यनेन सम्बद्धाः सन्ति।

हेल्थप्रोफेशनलरजिस्ट्री माध्यमेन स्वास्थ्यव्यावसायिकानां डिजिटलपरिचयः

आयुष्मानस्य मुख्यकार्यपालनाधिकारी शाहः उक्तवान् यत् हेल्थप्रोफेशनलरजिस्ट्री इत्यस्य अन्तर्गतं चिकित्सकानां परिचारिकाणां दन्तचिकित्सकानाम् आयुषचिकित्सकानाम् अन्येषां अनुज्ञापत्रधारिणां स्वास्थ्यव्यावसायिकानां च सत्यापितं डिजिटलदत्तांशसञ्चयं निर्मीयते। प्रत्येकस्मै पञ्जीकृतस्वास्थ्यव्यावसायिकाय विशिष्टः डिजिटलपरिचयः प्रदीयते। अनेन डिजिटलस्वास्थ्यमञ्चे सुरक्षितप्रमाणीकरणे दूरचिकित्सासेवानां विस्तारे विश्वसनीयडिजिटलस्वास्थ्यसेवानाम् उपलब्धतायां च सहायता प्राप्यते।

हेल्थफैसिलिटीरजिस्ट्रीमाध्यमेन स्वास्थ्यसंस्थानानाम् एकीकरणम्

हेल्थफैसिलिटीरजिस्ट्री इत्यस्य अन्तर्गतं शासकीयानां निजीस्वामित्वयुक्तानां च चिकित्सालयानां चिकित्सालयिकानां प्रयोगशालानाम् औषधालयानाम् प्रतिबिम्बनकेन्द्राणां स्वास्थ्यकल्याणकेन्द्राणां च पञ्जीकरणं क्रियते। प्रत्येकस्मै संस्थानाय विशिष्टं हेल्थफैसिलिटी परिचयपत्रं प्रदीयते। अनेन संस्थानानां सूचनानां मानकीकरणं भविष्यति तथा तानि एबीएचए स्कैनएण्डशेयर नेशनलहेल्थक्लेम्सएक्सचेन्ज इत्यादिभिः डिजिटलस्वास्थ्यसेवाभिः संयोजयितुं शक्यन्ते।

स्कैनएण्डशेयर माध्यमेन सरलम् अकागजीयं च बहिरङ्गरोगीपञ्जीकरणम्

समीक्षायां स्कैनएण्डशेयर उपक्रमस्य प्रगतेः विषये अपि सूचना प्रदत्ता। प्रदेशे वर्तमानसमये ५३३ स्वास्थ्यसंस्थानेषु स्कैनएण्डशेयर सुविधा सक्रियास्ति। अस्य माध्यमेन अधुना यावत् १ कोटि ७ लक्षं ७० सहस्रं १६४ अधिकानि बहिरङ्गरोगीपञ्जीकरणप्रतीकपत्राणि निर्गतानि सन्ति। स्कैनएण्डशेयर सुविधायाः अन्तर्गतं रोगी चिकित्सालयं प्राप्य एबीएचए अनुप्रयोगस्य अथवा अन्यस्य एबीडीएम सक्षमस्य अनुप्रयोगस्य माध्यमेन चिकित्सालयस्य क्यूआर सङ्केतं स्कैन करोति। रोगिणः सहमत्या तस्य मूलभूतसूचना चिकित्सालयस्य डिजिटलतन्त्रे सुरक्षितरूपेण संविभज्यते तथा तस्मै डिजिटलबहिरङ्गरोगीप्रतीकपत्रं प्राप्यते। अनेन रोगिभ्यः दीर्घपञ्जीकरणपङ्क्तिभ्यः राहतिः प्राप्यते तथा कागजरहितस्य त्वरितस्य च पञ्जीकरणस्य सुविधा उपलब्धा भवति।

---------------

Hindusthan Samachar / Dheeraj Maithani