Enter your Email Address to subscribe to our newsletters

२२ जुलाईदिनाङ्कं राष्ट्रियध्वजदिवसरूपेण घोषयेत् सर्वकारः
देशवासिभिः २२ जुलाईदिनाङ्के तिरङ्गादिवसम् आचरितुम् आह्वानं कृतम्
२२ जुलाई १९४७ दिनाङ्के वर्तमानस्वरूपं प्राप्तवान् अस्माकं तिरङ्गाध्वजः
गुरुग्राम ०८ जुलाईमासः हि.स.। हरियाणायाः पूर्वपुलिसमहानिदेशकः सादरइण्डियामञ्चस्य राष्ट्रियाध्यक्षः शीलमधुरः प्रधानमन्त्रिणम् आग्रहं कृतवान् यत् २२ जुलाईदिनाङ्कः विधिवत् राष्ट्रियध्वजदिवसरूपेण घोष्यताम्। अयं दिवसः सम्पूर्णे देशे राष्ट्रियपर्वरूपेण आचर्यताम्। तिरङ्गाध्वजः केवलं ध्वजः नास्ति। सः देशस्य स्वतन्त्रतायाः एकतायाः अखण्डतायाः स्वाभिमानस्य लोकतान्त्रिकचेतनायाश्च सर्वोच्चं प्रतीकम् अस्ति। एतत् सः बुधवासरे अत्र पत्रकारवार्तायाम् उक्तवान्।
पूर्वपुलिसमहानिदेशकः शीलमधुरः उक्तवान् यत् २२ जुलाई १९४७ भारतीयेतिहासस्य गौरवपूर्णः दिवसः अस्ति। अस्मिन्नेव दिने संविधानसभया स्वतन्त्रभारतस्य राष्ट्रियध्वजरूपेण वर्तमानस्वरूपयुक्तः तिरङ्गाध्वजः स्वीकृतः आसीत्। अस्मिन्नेव दिनाङ्के तिरङ्गादिवसस्य घोषणां कर्तुं सः आग्रहं करोति। अद्यतः २२ जुलाईदिनाङ्कं यावत् अर्थात् १५ दिनानि यावत् सः तिरङ्गाध्वजस्य सम्माने विभिन्नकार्यक्रमान् आयोजयिष्यति। सः देशवासिभ्यः आह्वानं कृतवान् यत् आगामिनि २२ जुलाईदिनाङ्के पूर्णोत्साहेन गरिम्णा राष्ट्रियभावनया च राष्ट्रियध्वजदिवसः आचर्यताम्। सः उक्तवान् यत् प्रत्येकः नागरिकः तिरङ्गाध्वजाय अभिवादनं कुर्यात्। विद्यालयाः महाविद्यालयाः सामाजिकसंस्थाः आवासीयसमितयः व्यापारिकसङ्घटनानि च तिरङ्गाध्वजस्य गौरवस्य इतिहासस्य च विषये कार्यक्रमान् आयोजयेयुः। शीलमधुरः उक्तवान् यत् यथा १५ अगस्तदिनाङ्के स्वतन्त्रतादिवसः २६ जनवरीदिनाङ्के गणतन्त्रदिवसः आचर्यते तथैव २२ जुलाईदिनाङ्कः अस्माकं कृते महत्त्वपूर्णः विशिष्टश्च अस्ति। अयं दिवसः केवलम् उत्सवः न भवेत् अपितु भारतस्य एकताम् अखण्डतां संवैधानिकप्रतिबद्धतां च स्मर्तुम् अवसरः भवेत्।
शीलमधुरः उक्तवान् यत् वर्षात् २०२१ आरभ्य अधुना यावत् प्रधानमन्त्रिणे राष्ट्रपतये च अस्मिन् विषये अनेकवारं ज्ञापनपत्राणि प्रेषितानि सन्ति। अद्यापि प्रधानमन्त्रिणे पुनः ज्ञापनपत्रं प्रेषितम् अस्ति। तस्य मतम् अस्ति यत् तिरङ्गाध्वजस्य सम्मानेन सम्बद्धा एषा जनभावना शीघ्रमेव राष्ट्रियनिर्णयस्य रूपं प्राप्स्यति। सः उक्तवान् यत् एतत् कस्यचित् व्यक्तेः संस्थायाः वा अभियानं नास्ति अपितु देशस्य गौरवस्य राष्ट्रियास्मितायाः नवीनपीढ्यां राष्ट्रभक्तिसंस्काराणां सुदृढीकरणस्य च प्रयासः अस्ति। अस्माकं तिरङ्गाध्वजः विविधतायाम् एकतायाः भावनां प्रतिनिधित्वं करोति या प्रत्येकं नागरिकम् एकसूत्रे बध्नाति। सः उक्तवान् यत् आगच्छन्तु तिरङ्गाध्वजस्य सम्माने वयं स्वकीयाम् एकतां राष्ट्रियैकबद्धतां च प्रदर्शयामः। राष्ट्रध्वजस्य सम्मानः एव राष्ट्रस्य सम्मानस्य सर्वोच्चं रूपम् अस्ति। शीलमधुरस्य कथनम् अस्ति यत् अस्मिन् दिने नवीनपीढीं बोधयितुम् अवसरः प्राप्स्यते यत् तिरङ्गाध्वजस्य सम्मानः केवलम् औपचारिकता नास्ति अपितु राष्ट्रस्य प्रति अस्माकं दायित्वस्य समर्पणस्य च अभिव्यक्तिः अस्ति।
Hindusthan Samachar / Dheeraj Maithani