ऐतिहासिके लिडू इत्यस्मिन् निर्मास्यते इसरोसंस्थायाः अनुसंधानकेंद्रं, 82कोटिद्वारा स्थापयिष्यते सैटेलाइट-अर्थ- स्थानकम्
गुवाहाटी, 08 जुलाईमासः (हि.स.)। द्वितीयविश्वयुद्धस्य इतिहासे महत्त्वपूर्णस्थानं धारयत् असमराज्यस्य ऐतिहासिकं लिडूनगरम् अधुना भारतीयान्तरिक्षानुसन्धानस्य नवीनपरिचयरूपेण विकसितुं गच्छति। शीघ्रमेव अत्र भारतीयान्तरिक्षानुसन्धानसङ्गठनस्य अनुसन्धानकेन्द
Representative Image.


गुवाहाटी, 08 जुलाईमासः (हि.स.)।

द्वितीयविश्वयुद्धस्य इतिहासे महत्त्वपूर्णस्थानं धारयत् असमराज्यस्य ऐतिहासिकं लिडूनगरम् अधुना भारतीयान्तरिक्षानुसन्धानस्य नवीनपरिचयरूपेण विकसितुं गच्छति। शीघ्रमेव अत्र भारतीयान्तरिक्षानुसन्धानसङ्गठनस्य अनुसन्धानकेन्द्रं स्थापयिष्यते।

प्राप्तसूचनानुसारं लिडूनगरे ८२ कोटिरूप्यकाणां व्ययेन उपग्रहभूकेन्द्रस्य निर्माणं करिष्यते। अनया परियोजनया भारतस्य अन्तरिक्षानुसन्धानक्षमता उपग्रहसञ्चारक्षमता च अधिकं सुदृढा भविष्यति।

अनया पहलया ऐतिहासिकं लिडूनगरं युद्धकालीनविरासतया सह भारतस्य अन्तरिक्षानुसन्धानस्य महत्त्वपूर्णकेन्द्ररूपेण अपि नवीनं परिचयं प्राप्स्यति।

--------

Hindusthan Samachar / Dheeraj Maithani