मोदी इंडोनेशियादेशस्य राष्ट्रपतिः च प्रम्बानन मंदिर पुनरुद्धार परियोजनायाः शुभारंभङ्कृतवान्
योग्याकार्ता, 08 जुलाईमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी इण्डोनेशियादेशस्य राष्ट्रपतिः प्रबोवोसुबियान्तो च बुधवासरे इण्डोनेशियादेशस्य योग्याकार्तास्थितस्य विश्वप्रसिद्धस्य प्रम्बाननमन्दिरपरिसरस्य संरक्षणपुनरुद्धारपरियोजनायाः संयुक्तरूपेण शुभ
प्रधानमंत्री नरेन्द्र मोदी और इंडोनेशिया के राष्ट्रपति प्रबोवो सुबियांतो बुधवार को प्रम्बानन मंदिर परिसर के संरक्षण एवं पुनरुद्धार परियोजना का शुभारंभ करने के दौरान


योग्याकार्ता, 08 जुलाईमासः (हि.स.)।

प्रधानमन्त्री नरेन्द्रमोदी इण्डोनेशियादेशस्य राष्ट्रपतिः प्रबोवोसुबियान्तो च बुधवासरे इण्डोनेशियादेशस्य योग्याकार्तास्थितस्य विश्वप्रसिद्धस्य प्रम्बाननमन्दिरपरिसरस्य संरक्षणपुनरुद्धारपरियोजनायाः संयुक्तरूपेण शुभारम्भं कृतवन्तौ। यूनेस्कोविश्वविरासतसूच्यां समाविष्टः एषः मन्दिरपरिसरः इण्डोनेशियादेशस्य विशालतमं हिन्दुमन्दिरम् अस्ति। भगवान् शिवाय समर्पितं दशमशताब्द्याः एतत् ऐतिहासिकविरासतस्थलं भारतस्य इण्डोनेशियादेशस्य च सामूहिकसांस्कृतिकसम्बन्धानां महत्त्वपूर्णं प्रतीकं मन्यते।

परियोजनायाः शुभारम्भावसरे प्रधानमन्त्री मोदी उक्तवान् यत् एतत् तस्य सौभाग्यम् अस्ति यत् जीवने पुनः पुनः भगवान् शिवेन सम्बद्धानां पवित्रस्थलानां सेवायाः संरक्षणस्य च अवसरः तेन प्राप्तः। सः उक्तवान् यत् तस्य जन्म गुजरातराज्यस्य वडनगरनगरे अभवत् यत्र हाटकेश्वरमहादेवस्य प्रसिद्धं तीर्थस्थलम् अस्ति। द्वादशज्योतिर्लिङ्गेषु प्रथमः सोमनाथः अपि गुजरातराज्ये स्थितः अस्ति तथा तस्य विकासे प्रत्यक्षदायित्वं निर्वोढुम् अपि तेन अवसरः प्राप्तः। सः उक्तवान् यत् तस्य राजनैतिकजीवनस्य केन्द्रम् अपि काशीविश्वनाथः अस्ति यत्र बाबाविश्वनाथस्य आशीर्वादः निरन्तरं तेन प्राप्यते।

प्रधानमन्त्री उक्तवान् यत् केदारनाथधाम्नः पुनर्निर्माणस्य उज्जयिनीस्थितस्य महाकालस्य विकासस्य च अनन्तरम् अधुना प्रायः १००० तः १२०० वर्षप्राचीनायाः ब्रह्मविष्णुमहेशसम्बद्धायाः अस्याः महान् सांस्कृतिकविरासतायाः पुनरुद्धारकार्यस्य शुभारम्भः तस्य कृते अत्यन्तं सौभाग्यस्य विषयः अस्ति। सः उक्तवान् यत् अस्य ऐतिहासिकावसरस्य साक्षी भवितुं सः स्वं भाग्यवन्तं मन्यते।

मोदी उक्तवान् यत् इण्डोनेशियायात्रायाः तृतीये दिने अपि तेन अत्रत्ये वायुमण्डले जनजीवने च भारतीयसंस्कृतेः सैव सुगन्धिः अनुभूयते या भारतभूमौ अनुभूयते। सः प्रायः १२०० वर्षाणि यावत् एतां विरासतां संरक्षितवतीम् इण्डोनेशियादेशस्य जनतां तथा विभिन्नकालखण्डेषु अत्र शासनं कृतवतः सर्वान् जनान् प्रति कृतज्ञतां प्रकटितवान्।

प्रधानमन्त्री उक्तवान् यत् ल्हासातः कैलासमानसरोवरयात्रा भवतु अथवा इण्डोनेशियादेशस्य पवित्रं प्रम्बाननमन्दिरं भवतु प्रत्येकस्मिन् स्थाने महामृत्युञ्जयमन्त्रस्य ओं नमः शिवाय इति मन्त्रस्य च उच्चारणं श्रूयते। सः उक्तवान् यत् एतत् दृश्यम् अत्यन्तं भावपूर्णम् आसीत्। सः विश्वासं प्रकटितवान् यत् विश्वविरासतस्थलरूपेण अस्य भव्यस्य मन्दिरपरिसरस्य पुनरुद्धारानन्तरं बहुसङ्ख्यकाः भारतीयश्रद्धालवः पर्यटकाः च अत्र दर्शनार्थम् आगमिष्यन्ति।

सः उक्तवान् यत् विश्वस्य कस्मिन्नपि भागे गम्यताम् भारतस्य सांस्कृतिकविरासतायाः झलक् अवश्यमेव दृश्यते। प्रम्बाननमन्दिरं दक्षिणपूर्वीयेषियाक्षेत्रे भारतीयसांस्कृतिकविरासतायाः महत्त्वपूर्णतमेषु परिचयचिह्नेषु अन्यतमम् अस्ति। मन्दिरपरिसरे भगवान् शिवस्य मातुः दुर्गायाः भगवान् गणेशस्य च प्रतिमाः प्रतिष्ठिताः सन्ति तथा शताब्दीः यावत् अत्र गहनया आस्थया पूजार्चना क्रियमाणा आसीत्।

प्रधानमन्त्री मोदी उक्तवान् यत् तेन स्वयम् अस्मिन् मन्दिरे दर्शनस्य पूजायाः च सौभाग्यं प्राप्तं यत् सः स्वजीवनस्य अत्यन्तं चैतन्यपूर्णम् अविस्मरणीयं च क्षणं वर्णितवान्। सः भगवान्तं प्रति भारतस्य इण्डोनेशियादेशस्य च मैत्रीं अधिकं सुदृढां कर्तुं उभयोः देशयोः नागरिकाणां कल्याणाय उभयोः देशयोः तीव्रविकासाय च प्रार्थनां कृतवान्। सः विश्वासं प्रकटितवान् यत् २०२९ वर्षात् पूर्वम् अस्याः पुनरुद्धारपरियोजनायाः कार्यं पूर्णं भविष्यति तथा तस्य पूर्णतायाः अनन्तरं सः पुनः प्रम्बाननमन्दिरस्य दर्शनार्थम् अवश्यम् आगमिष्यति।

---------------

Hindusthan Samachar / Dheeraj Maithani