Enter your Email Address to subscribe to our newsletters

- भूकंप प्रभावितेभ्यः 1,900संख्यकेभ्यः अधिकजनेभ्यः क्रिटिकल केयरसौविध्यं, ट्रॉमाप्रबन्धनं शैल्यचिकित्सासंबद्धं सौविध्यं च
नवदिल्ली, 08 जुलाईमासः (हि.स.)स्वस्य मानवीयसाहाय्यआपदुद्धाराभियानस्य आपरेशन एमिस्टेड इत्यस्य सफलतायाः अनन्तरं भारतीयसेनायाः सैन्यदलम् वेनेजुएलादेशात् प्रत्यागमनं प्रारब्धवत् अस्ति। भारतात् प्रेषितेन संयुक्तकार्यबलेन २८ जून दिनाङ्कं यावत् पूर्णरूपेण क्रियाशीलः क्षेत्रीयचिकित्सालयः निर्मितः आसीत्। अभियानकाले चिकित्सादलेन साहाय्यकार्येषु सहयोगाय स्थानीयाधिकारिभिः सह मिलित्वा कार्यं कुर्वता भूकम्पप्रभावितेभ्यः १९०० अधिकेभ्यः जनेभ्यः आवश्यकचिकित्सासेवा प्रदत्ता।
भारतीयसेनया बुधवासरे वेनेजुएलादेशे नियुक्तस्य भारतीयसैन्यदलस्य प्रत्यागमनस्य सूचना प्रदत्ता। दक्षिणामेरिकायाः उत्तरभागे आगतयोः विनाशकारिभूकम्पयोः प्रतिक्रियारूपेण भारतीयसेनया आपरेशन एमिस्टेड इति अभियानं प्रारब्धम् आसीत्। २६ जून दिनाङ्के भारतात् प्रेषितेन कार्यबलेन २८ जून दिनाङ्कं यावत् काराकासनगरस्य ला रिनकोनाडाक्षेत्रे पूर्णरूपेण क्रियाशीलः क्षेत्रीयचिकित्सालयः निर्मितः। ४१ सदस्यीयं चिकित्सादलम् आगरानगरस्थितात् ६० पैरा क्षेत्रीयचिकित्सालयात् चयनितम् आसीत्। अनेन दलेन १९०० अधिकेभ्यः भूकम्पप्रभावितेभ्यः जनेभ्यः गहनचिकित्सा आघातप्रबन्धनं शल्यचिकित्सा च प्रदत्ता। दलेन स्थानीयचिकित्साधिकारिणां कृते उन्नतौ द्वौ वहनीयौ आपत्कालीनचिकित्साप्रणालीसमुच्चयौ अपि नियुक्तौ।
वेनेजुएलादेशे भारतीयसेनायाः ४१ सदस्यीयस्य चिकित्सादलस्य नियुक्तिं भारतीयवायुसेनया सुगमां कृतम्। वायुसेनया ३५ टनाधिकां चिकित्सासामग्रीं साहाय्यसामग्रीं च प्रापयितुं द्वयोः सी १७ ग्लोबमास्टरविमानयोः उपयोगः कृतः। एताभ्यामेव विमानाभ्यां भारतेन भीषणभूकम्पानन्तरं वेनेजुएलादेशाय मानवीयसाहाय्यं प्रेषितं यस्मिन् चिकित्सोपकरणानि द्वौ क्यूब वहनीयचिकित्सालयौ च समाविष्टौ आस्ताम्। वेनेजुएलादेशस्य नागरिकैः सह एकात्मतां प्रदर्शयन् भारतस्य आपरेशन एमिस्टेड अभियानं तस्य भीषणभूकम्पस्य सन्दर्भे सञ्चालितम् आसीत् यस्मिन् बहवः जनाः मृताः बहुसङ्ख्यकाः जनाः घातिताः तथा व्यापकस्तरे विनाशः अभवत्।
अनुभविसाहाय्यकर्मिभिः चिकित्साविशेषज्ञैः च युक्तं ४१ सदस्यीयं दलं प्रभावितक्षेत्रेषु अन्वेषणोद्धाराभियानं सञ्चालितवत् आपत्कालीनचिकित्सासेवां प्रदत्तवत् तथा मानवीयसाहाय्यप्रयासेषु वेनेजुएलादेशस्य अधिकारिभिः सह मिलित्वा कार्यं कृतवत्। वेनेजुएलादेशे प्रायः द्विसप्ताहं यावत् अभियानं सञ्चाल्य अधुना भारतीयसेनायाः ४१ सदस्यीयं चिकित्सादलं प्रत्यागमनं प्रारब्धवत् अस्ति। भारतीयसेनया उक्तं यत् चरणबद्धप्रत्यागमनक्रमे अपि चिकित्सादलं भूकम्पपीडितानां साहाय्याय प्रतिबद्धम् अस्ति।
-------------------------------
Hindusthan Samachar / Dheeraj Maithani