अदाणी-फाउण्डेशनद्वारा बड़काग्रामस्य चतुर्षु ग्रामेषु सौर-उच्च-मास्ट-दीपाः स्थापिताः
हजारीबागः, ०८ जुलाईमास: (हि.स.)। हजारीबाग-मण्डलस्य बड़कागांव-प्रखण्डे ग्रामवासिनां कृते उत्तमाः सार्वजनिकसुविधाः प्रदातुं तथा रात्रिकाले उत्पद्यमानाः समस्याः निवारयितुं अदाणी-फाउण्डेशनेन महत्त्वपूर्ण: प्रयत्न: आरब्ध:। गोंदुलपारा-खनन-परियोजनायाः अन्
फाइल फोटो


हजारीबागः, ०८ जुलाईमास: (हि.स.)। हजारीबाग-मण्डलस्य बड़कागांव-प्रखण्डे ग्रामवासिनां कृते उत्तमाः सार्वजनिकसुविधाः प्रदातुं तथा रात्रिकाले उत्पद्यमानाः समस्याः निवारयितुं अदाणी-फाउण्डेशनेन महत्त्वपूर्ण: प्रयत्न: आरब्ध:। गोंदुलपारा-खनन-परियोजनायाः अन्तर्गतं निगम-सामाजिक-दायित्वस्य अन्तर्गतं होरम, मरदुसोटी, पुंदौल तथा चंदौल-ग्रामाणां प्रमुखेषु सार्वजनिकस्थलेषु सौर-उच्च-मास्ट-दीपाः स्थापिताः।

एतेषां उच्च-मास्ट-दीपानां प्रज्वलनात् पूर्वं सायंकाले सूर्यास्तानन्तरं ग्रामाणां मार्गाः, चत्वराणि तथा अन्यानि सार्वजनिकस्थानानि अन्धकारे निमज्जन्ति स्म। अधुना तु रात्रिकालेऽपि एतेषु स्थलेषु पर्याप्तः प्रकाशः उपलब्धः भवति, येन ग्रामवासिनाम् आवागमनं अधिकं सुरक्षितं सुकरं च जातम्। विशेषतः महिलाः, बालकाः तथा वृद्धजनाः अस्य विशेषं लाभम् अनुभवन्ति।

ग्रामवासिभिः अस्य उपक्रमस्य स्वागतं कृत्वा उक्तं यत् पूर्वं रात्रौ आवागमने बहवः कष्टानुभवाः भवन्ति स्म। अधुना सार्वजनिकस्थलेषु पर्याप्तप्रकाशस्य उपलब्धतया सुरक्षाभावना दृढा अभवत् तथा सामाजिकक्रियाकलापानामपि प्रोत्साहनं जातम्। देवालय-परिसरेषु, चत्वरेषु तथा मुख्यमार्गेषु स्थापिताः सौर-उच्च-मास्ट-दीपाः ग्रामवासिनां कृते अत्यन्तम् उपयोगिनः सिद्धाः।

सौर-ऊर्जायाः आधारेण निर्मिता एषा व्यवस्था पर्यावरणसंरक्षणस्य दिशि अपि महत्त्वपूर्ण: प्रयत्न: इति मन्यते। अनेन ऊर्जासंरक्षणस्य सह स्वच्छ-स्थायि-ऊर्जायाः उपयोगस्य प्रोत्साहनं भविष्यति। तथा च ग्रामीणक्षेत्रेषु आधारभूतसुविधानां सुदृढीकरणे सततविकासस्य त्वरायां च एषा योजना सहायकत्वेन सिद्धा भविष्यति।

अदाणी-फाउण्डेशनं गोंदुलपारा-खनन-परियोजनायाः माध्यमेन बड़कागांव-प्रखण्डे निगम-सामाजिक-दायित्वस्य अन्तर्गतं शिक्षा, स्वास्थ्यं, पोषणम्, कौशल-विकासः, महिला-सशक्तीकरणम्, आजीविका-संवर्धनम्, पेयजल-व्यवस्था, आधारभूत-संरचना-विकासः, क्रीडा-युवा-विकासः तथा पर्यावरण-संरक्षणम् इत्यादिषु विविधेषु क्षेत्रेषु निरन्तरं कार्यं करोति। फाउण्डेशन-इत्यस्य उद्देश्यं स्थानीय-समुदायानां जीवनस्तरस्य उन्नयनं कृत्वा तान् आत्मनिर्भरान्, सुरक्षितान् तथा सततविकासस्य मुख्यधारया सह सम्बद्धान् कर्तुम् अस्ति।

Hindusthan Samachar / Divya Ranjan