Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 08 जुलाईमासः (हि.स.)।
प्रधानमन्त्री नरेन्द्रमोदी बुधवासरे उक्तवान् यत् तस्य यात्रया भारतस्य इण्डोनेशियायाश्च मध्ये रक्षासुरक्षाक्षेत्रे सामुद्रिकसहयोगे उदयमानप्रौद्योगिकीषु कृत्रिमबुद्धिमत्तायाम् एआई डिजिटलनवाचारे क्षमतानिर्माणे च इत्यादिषु महत्त्वपूर्णक्षेत्रेषु सहयोगस्य नवीनाः अवसराः उद्घाटिताः सन्ति। सः उक्तवान् यत् एषा यात्रा उभयोः देशयोः रणनीतिकसहभागितां नवीनोच्चतां प्रति नेतुं सफलाभवत्।
प्रधानमन्त्री मोदी इण्डोनेशियायाः स्वकीयां राजकीययात्रां समाप्य सामाजिकमाध्यममञ्चे एक्स इत्यत्र लिखितवान् यत् सः भारतइण्डोनेशियासहभागितायाः भविष्यं विषयी कृत्वा प्राप्ताभिः उपलब्धिभिः अत्यन्तं सन्तुष्टः अस्ति। सः इण्डोनेशियायाः जनतां राष्ट्रपतिं प्रबोवोसुबियांतो च प्रति हार्दिकम् आभारं प्रकटयन् उक्तवान् यत् उभयोः देशयोः सम्बन्धान् नवीनोच्चतां यावत् प्रापयितुं राष्ट्रपतिना सुबियांतो इत्यनेन विशेषा आत्मीयता वैयक्तिकप्रतिबद्धता च प्रदर्शिता।
मोदी उक्तवान् यत् अस्याः यात्रायाः समये रक्षासुरक्षाक्षेत्रे सामुद्रिकसहयोगे महत्त्वपूर्णासु उदयमानप्रौद्योगिकीषु कृत्रिमबुद्धिमत्तायां डिजिटलनवाचारे क्षमतानिर्माणे च इत्यादिषु क्षेत्रेषु सहयोगस्य नवीनद्वाराणि उद्घाटितानि सन्ति येन उभयोः देशयोः सम्बन्धाः अधिकं व्यापकाः भविष्याभिमुखाश्च भविष्यन्ति।
अस्मिन्नेव समये विदेशमन्त्रालयस्य प्रवक्ता रणधीरजायसवालः अपि प्रधानमन्त्रिणः यात्राम् अत्यन्तं सफलाम् उक्तवान्। सः एक्स इत्यत्र उक्तवान् यत् प्रधानमन्त्री मोदी इण्डोनेशियायाः राजकीययात्रां समाप्य स्वकीयायाः त्रिदेशीययात्रायाः द्वितीयचरणाय मेलबर्ननगरं प्रति प्रस्थितवान्। सः उक्तवान् यत् विशेषमैत्र्याः सङ्केतरूपेण राष्ट्रपतिः प्रबोवोसुबियांतो स्वयमेव विमानपत्तनं प्राप्य प्रधानमन्त्रिणं विदायितुं उपस्थितः अभवत्।
जायसवालः उक्तवान् यत् प्रधानमन्त्रिणः इण्डोनेशियायात्रया उभयोः देशयोः मध्ये सहयोगस्य प्रमुखक्षेत्रेषु महत्त्वपूर्णाः परिणामाः प्राप्ताः सन्ति। अनेन भारतइण्डोनेशियासहभागिता अधिकसुदृढाधारे स्थापिता अस्ति तथा भविष्याय महत्त्वाकाङ्क्षी सहयोगकार्यसूची निर्धारिता अस्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani