मध्यप्रदेशस्य मुख्यमन्त्री अद्य पीथमपुरे लियूगोंग-इण्डिया-निर्माण-एककस्य भूमिपूजनं करिष्यति
भोपालनगरम्, ०८ जुलाईमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः अद्य बुधवासरे धार-जनपदस्य पीथमपुर-औद्योगिक-क्षेत्रे लियूगोंग इण्डिया प्राइवेट लिमिटेड-इत्यस्य नूतन-निर्माण-संयन्त्रस्य भूमिपूजनं करिष्यति। चीनदेशस्य अग्रणी बहुराष्ट्रीय-निर्
सीएम मोहन यादव


भोपालनगरम्, ०८ जुलाईमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः अद्य बुधवासरे धार-जनपदस्य पीथमपुर-औद्योगिक-क्षेत्रे लियूगोंग इण्डिया प्राइवेट लिमिटेड-इत्यस्य नूतन-निर्माण-संयन्त्रस्य भूमिपूजनं करिष्यति। चीनदेशस्य अग्रणी बहुराष्ट्रीय-निर्माण-उपकरण-निर्मात्री गुआंग्शी लियूगोंग मशीनरी कम्पनी लिमिटेड-इत्यस्य भारतीय-एककेन मध्यप्रदेशे २७२ कोटि-रूप्यकाणां निवेशेन एतत् संयन्त्रं स्थाप्यते।

जनसम्पर्काधिकारिणी बबीतामिश्रः अवदत् यत् पीथमपुरे स्थाप्यमानं नूतनं संयन्त्रं प्रायः २० एकर-क्षेत्रे विकसितं भविष्यति। अस्मिन् संयन्त्रे प्रारम्भिकचरणे प्रतिवर्षं ६,५०० निर्माण-उपकरणानां उत्पादन-क्षमता विकसितं भविष्यति, येषु मुख्यतया उत्खनन-यन्त्राणाम् निर्माणं भविष्यति। अनेन स्वदेशीय-निर्माणक्षेत्रस्य प्रोत्साहनं, आयात-निर्भरातायाः न्यूनता तथा क्षेत्रे नूतन-रोजगार-अवसराणां सृजनं च भविष्यति।

सा अवदत् यत् लियूगोंग विश्वस्य प्रमुखासु निर्माण-उपकरण-निर्मातृषु अन्यतमा अस्ति तथा व्हील-लोडर-निर्माण-क्षेत्रे वैश्विकस्तरे अग्रणी-प्रतिष्ठां धारयति। निर्माणी व्हील-लोडर, एक्स्कवेटर, मोटर-ग्रेडर, खनन-डम्प-ट्रक, बुलडोजर, स्किड-स्टियर-लोडर, फोर्कलिफ्ट, कोल्ड-प्लेनर तथा अन्येषां आधुनिक-निर्माण-खनन-उपकरणानां निर्माणं करोति।

कम्पनी २००८ तमवर्षात् पीथमपुरे स्वस्य निर्माण-एककस्य सञ्चालनं कुर्वती अस्ति। ४४ एकराधिक-क्षेत्रे स्थापिते अस्मिन् संयन्त्रे प्रतिवर्षं ३,००० व्हील-लोडर तथा मोटर-ग्रेडर-निर्माणस्य क्षमता वर्तते। २००९ तमवर्षे अस्यैव एककात् प्रथमः मेड् इन इण्डिया व्हील-लोडर निर्मितः आसीत्। पीथमपुर-स्थिते अस्मिन् एकके अनुसन्धान-विकास-केन्द्रं तथा प्रशिक्षण-केन्द्रमपि सञ्चाल्यते, यत्र ५०० अधिकाः भारतीय-युवा-व्यावसायिकाः कार्यरताः सन्ति। एषः एककः मेक् इन इण्डिया तथा आत्मनिर्भर-भारत-अभियानस्य उद्देश्यान् सुदृढीकर्तुमपि महत्त्वपूर्णं योगदानं ददाति।

देशस्य विभिन्नेषु मार्ग-निर्माण-खनन-जलविद्युत्-पाइपलाइन-परियोजनाभि: सहितेषु आधारभूत-संरचना-कार्येषु निर्माणीनिर्मितानि ४,००० अधिकानि निर्माण-उपकरणानि उपयुज्यन्ते। पीथमपुरे प्रस्तावितं नूतनं संयन्त्रं एतस्य वर्धमानाया: याचनाया: पूर्तिं कृत्वा मध्यप्रदेशस्य औद्योगिक-विकासाय नूतनां गतिमपि प्रदास्यति।

Hindusthan Samachar / Divya Ranjan