नवी मुंबईविमानस्थानकादधुना भवितुं शक्यते औषधानां आयातं,केंद्रान्निर्गता अधिसूचना
नव दिल्ली, 08 जुलाईमासः (हि.स.)।केन्द्रसर्वकारेण औषधानाम् आयातविषये महत्त्वपूर्णः निर्णयः कृतः अस्ति। स्वास्थ्यपरिवारकल्याणमन्त्रालयेन ड्रग्स रूल्स १९४५ इत्यस्य नियमस्य ४३ ए इत्यस्य संशोधनं कृत्वा नवीमुम्बईविमानस्थानकम् औषधानाम् आयाताय अधिसूचितप्रव
स्वास्थ्य मंत्रालय का लोगो


नव दिल्ली, 08 जुलाईमासः (हि.स.)।केन्द्रसर्वकारेण औषधानाम् आयातविषये महत्त्वपूर्णः निर्णयः कृतः अस्ति। स्वास्थ्यपरिवारकल्याणमन्त्रालयेन ड्रग्स रूल्स १९४५ इत्यस्य नियमस्य ४३ ए इत्यस्य संशोधनं कृत्वा नवीमुम्बईविमानस्थानकम् औषधानाम् आयाताय अधिसूचितप्रवेशबिन्दुरूपेण घोषितम् अस्ति। अस्य निर्णयस्य अनन्तरं देशे औषधानाम् आयाताय अधिसूचितानां स्थलमार्गीयरेलमार्गीयसमुद्रमार्गीयवायुमार्गीयप्रवेशबिन्दूनां कुलसङ्ख्या ४२ अभवत्।

स्वास्थ्यमन्त्रालयेन बुधवासरे निर्गतायां विज्ञप्तौ उक्तं यत् एतत् संशोधनं ड्रग्स एण्ड कॉस्मेटिक्स एक्ट १९४० इत्यस्य अन्तर्गतं ड्रग्स टेक्निकल एडवाइजरी बोर्ड इत्यनेन सह परामर्शानन्तरं कृतम् अस्ति।

मन्त्रालयस्य कथनम् अस्ति यत् नवीमुम्बईविमानस्थानकस्य सूच्यां समावेशेन औषधानाम् आपूर्तिशृङ्खला सुदृढा भविष्यति। औषधनिर्माणसम्बद्धानाम् उत्पादानाम् आयाते तीव्रता आगमिष्यति। आयातकर्तृभ्यः अतिरिक्तः विकल्पः प्राप्स्यते। सहैव अनेन परिवहनव्यवस्था अधिका सुदृढा भविष्यति तथा च व्यापारसुगमतायाः अपि प्रोत्साहनं भविष्यति।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani