प्रधानमंत्री मोदी कथितवान्, यद्ध्यैर्यं कस्यचिदपि देशस्य सर्वतो महद्बलम्
नव दिल्ली, 08 जुलाईमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी अद्य प्रातः एक्स इति सामाजिकमाध्यमे एकं सुभाषितं प्रसार्य धैर्यस्य महत्त्वविषये चर्चां कृतवान्। सः उक्तवान् यत् धैर्यं कस्यापि देशस्य महत्तमा शक्तिः अस्ति। एतत् देशं कठिनतमानाम् आव्हानान
प्रधानमंत्री नरेन्द्र मोदी के एक्स हैंडल में साझा किया गया सुभाषितम्।


नव दिल्ली, 08 जुलाईमासः (हि.स.)।

प्रधानमन्त्री नरेन्द्रमोदी अद्य प्रातः एक्स इति सामाजिकमाध्यमे एकं सुभाषितं प्रसार्य धैर्यस्य महत्त्वविषये चर्चां कृतवान्। सः उक्तवान् यत् धैर्यं कस्यापि देशस्य महत्तमा शक्तिः अस्ति। एतत् देशं कठिनतमानाम् आव्हानानां मध्ये अपि एकतया स्थातुं निरन्तरं प्रगतिं समृद्धिम् आत्मनिर्भरतां च प्रति अग्रे गन्तुं प्रेरयति।

प्रधानमन्त्री नरेन्द्रमोदी उक्तवान् यत् युगान्तकाले प्रचण्डवायुना आहताः पर्वताः अपि चलितुं शक्नुवन्ति। तथापि दृढसङ्कल्पयुक्तस्य धीरपुरुषस्य स्थिरं मनः कठिनपरिस्थितिषु अपि कदापि विचलितं न भवति। एतत् सुभाषितम् इत्थम् अस्ति

चलन्ति गिरयः कामं युगान्तपवनाहताः ।

कृच्छ्रे अपि न चलत्येव धीराणां निश्चलं मनः ॥

अस्य अर्थः अस्ति यत् प्रलयकालस्य भयङ्करप्रचण्डवायोः प्रभावेण विशालाः पर्वताः अपि स्वस्थानात् विचलिताः भूत्वा कम्पितुं शक्नुवन्ति किन्तु गम्भीरकष्टे संकटे वा समुपस्थिते अपि धीराणां वीराणां विवेकिनां च पुरुषाणां मनः स्वसङ्कल्पात् कदापि विचलितं न भवति। अयं श्लोकः शिक्षयति यत् विकटपरिस्थितिषु अपि मनुष्येण स्वमानसिकसन्तुलनं सत्यस्य मार्गं च कदापि न त्यक्तव्यम्।

---------------

Hindusthan Samachar / Dheeraj Maithani