Enter your Email Address to subscribe to our newsletters

प्रयागराजः, ०८ जुलाईमासः (हि.स.)। समाजवादीपक्षस्य राष्ट्रियाध्यक्षस्य अखिलेशयादवस्य विरुद्धं सामाजिक-माध्यमेषु क्रियमाणानां कथितानाम् आपत्तिजनकानां निराधाराणां च टिप्पणीनां विरोधे बुधवासरे प्रयागराजे समाजवादीपक्षस्य नेतारः, पदाधिकारीणः कार्यकर्तारश्च जनपदाधिकारी-कार्यालयस्य पुरतः प्रदर्शनम् अकुर्वन्। ततः पश्चात् राज्यपालमुद्दिश्य लिखितं ज्ञापनं जनपदाधिकारिणे समर्पितवन्तः।
ज्ञापने उक्तं यत् भारतीयजनतापक्षस्य नेतृभिः तेषां समर्थकैश्च सामाजिक-माध्यमेषु अखिलेशयादवं राममन्दिर-दान-चौर्य-प्रकरणस्य आरोपितेन टुन्नू-यादवेन सह सम्बद्धीकृत्य क्रियमाणाः टिप्पण्यः तस्य छविं मलिनीकर्तुं प्रयत्नः सन्ति। समाजवादीपक्षस्य नेतृभिः आरोपः कृतः यत् एतादृशी सामग्री समाजे पारस्परिक-सौहार्दं भङ्क्ते, समस्यापूर्णं वातावरणं निर्माति तथा जनभावनाः आहताः करोति।
समाजवादीपक्षस्य प्रतिनिधिमण्डलेन सामाजिकमाध्यमेषु एतादृशाः आपत्ति-जनकाः भ्रामकाः च टिप्पण्यः कुर्वतां विरुद्धं वैधानिकी कार्यवाहीं क्रियताम् इति याचना कृता। सहैव संचेतना अपि प्रदत्ता यत् यदि शीघ्रं कार्यवाही न भविष्यति तर्हि पक्षः आन्दोलनं कर्तुं बाध्यः भविष्यति।
प्रदर्शनस्य ज्ञापनसमर्पणस्य च अवसरे महानगराध्यक्षः सैयद् इफ्तेखार-हुसैनः, गङ्गापार-जनपदाध्यक्षः अनिलयादवः, यमुनापार-जनपदाध्यक्षः पप्पूलाल-निषादः, विधानपरिषद्सदस्यः डॉ. मानसिंहयादवः, विधायकः सन्दीपपटेलः, विधायकी गीताशास्त्री, पूर्वसांसदः धर्मराजपटेलः इत्यादयः बहुसंख्यकाः समाजवादीपक्षस्य नेतारः, पदाधिकारीणः कार्यकर्तारश्च उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan