विद्यालयं चलामः अभियानम् - चित्रकूटे जनपदस्तरीया जागरण-शोभायात्रा आयोजिता, शिक्षां प्रति जनाः जागरूकाः कृताः
चित्रकूटम्, ०८ जुलाईमासः (हि.स.)। सर्वान् बालकान् शिक्षया सह सम्बद्धान् कर्तुम् उद्दिश्य विद्यालयं चलामः अभियानस्य द्वितीयचरणस्य अन्तर्गतं चित्रकूट-जनपदे विविधमाध्यमैः अभिभावकाः सामान्यजनाश्च जागरूकाः क्रियन्ते। अस्यैव उद्देश्यार्थं बुधवासरे बान्दा
स्कूल चलो अभियान के दूसरे चरण का हुआ भव्य शुभारंभ: नगर में निकाली गई जनपद स्तरीय विशाल रैली


चित्रकूटम्, ०८ जुलाईमासः (हि.स.)। सर्वान् बालकान् शिक्षया सह सम्बद्धान् कर्तुम् उद्दिश्य विद्यालयं चलामः अभियानस्य द्वितीयचरणस्य अन्तर्गतं चित्रकूट-जनपदे विविधमाध्यमैः अभिभावकाः सामान्यजनाश्च जागरूकाः क्रियन्ते। अस्यैव उद्देश्यार्थं बुधवासरे बान्दा-चित्रकूट-जनपदसहकारी-धनागारस्य अध्यक्षः पङ्कज-अग्रवालः तथा जनपद-बेसिक-शिक्षाधिकारिणी रञ्जना शुक्ला नगरपालिकापरिसरात् हरितध्वजं प्रदर्श्य नगरे जागरण-शोभायात्राया: शुभारम्भम् अकुरुताम्।

अस्मिन् अवसरे चित्रकूटस्य जनपद-बेसिक-शिक्षाधिकारिणी रञ्जना शुक्ला अवदत् यत् सर्वे अभिभावकाः स्वबालकानां प्रवेशं बेसिक-शिक्षा-परिषदः सञ्चालितेषु विद्यालयेषु अवश्यं कारयन्तु। विद्यालयं चलामः अभियानस्य रल्याः शुभारम्भं कुर्वन् बान्दा-चित्रकूट-जनपदसहकारी-धनागारस्य अध्यक्षः पङ्कज-अग्रवालः अवदत् यत् उत्तरप्रदेशे योगी-आदित्यनाथस्य नेतृत्वे भारतीय-जनतापक्षस्य शासनस्य गठनानन्तरं शिक्षाक्षेत्रे गुणात्मकः सुधारः अभवत्। सः अवदत् यत् अद्य परिषदीय-विद्यालयाः कस्मिन्नपि विषये निजी-विद्यालयेभ्यः न्यूनाः न सन्ति। एषा शोभायात्रा नगरपालिकातः प्रारभ्य पुरातन-बाजारमार्गेण धनुष-चतुष्पथं गत्वा पुनः टण्डन-विद्यालयस्य समीपे समापिता।

रल्यां पीएम-श्री-कम्पोजिट-विद्यालयः कछारपुरवा, प्राथमिक-विद्यालयाः, उच्च-प्राथमिक-विद्यालयाः, नगरक्षेत्रस्य सर्वे शिक्षाधिकारीणः, प्रधानाध्यापकाः, शिक्षकाः, शिक्षिकाः तथा घोषवाक्यानि उच्चारयन्तः बालकाः सहभागिनः अभवन्। अस्मिन् अवसरे सभासदः शङ्करप्रसाद-यादवः, खण्ड-शिक्षाधिकारी अतुलदत्त-तिवारी, एस. एस. शुक्लः, प्रवीण-दीक्षितः, समन्वयकः पुष्पेन्द्रसिंहः, हरिकान्तः, ज्ञानेन्द्र-मिश्रः, वीरेन्द्र-गुप्तः, कुलदीपसिंहः, श्रीमती रचना-यादवः, प्रधानाध्यापिका विद्यासागरसिंहः, रञ्जना-चन्देलः, सञ्जू-यादवः, गीताञ्जलिः, पूनम-श्रीवास्तवः, अनुराधा-सिंहः, आराधना-सिंहः, शहनाज़-बानो, अनुरञ्जना-सिंहः इत्यादयः उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan