Enter your Email Address to subscribe to our newsletters


बिजनौरम्, 08 जुलाईमासः(हि.स.) | उत्तरप्रदेशगोसेवायोगस्य सदस्यः दीपकगोयलः बुधवासरे बिजनौरजनपदस्य नुमाइशग्राउण्डस्थां कान्हागोशालां निरीक्षितवान्। सः गोवंशेभ्यः गुडं प्रदाय तेषां स्नेहपूर्वकं पूजनं माल्यार्पणं च कृतवान्। निरीक्षणकाले गोशालायां कुलम् २१८ गोवंशाः संरक्षिताः प्राप्ताः येषु २४ नरगोवंशाः १९४ मादागोवंशाः च सन्ति। निरीक्षणे ०५ गोवंशाः अस्वस्थाः रोगग्रस्ताः च प्राप्ताः।
सदस्यः पशुचिकित्सकान् निर्दिष्टवान् यत् सर्वेषां रोगग्रस्तपशूनां समयबद्धं गुणवत्तापूर्णं च चिकित्सोपचारं सुनिश्चितं क्रियताम्। तेषां स्वास्थ्यस्य नियमितम् अनुश्रवणं क्रियताम् तथा च पूर्णतया स्वस्थतां यावत् आवश्यकौषधीनां परिचर्यायाश्च व्यवस्थायां कस्यापि प्रकारस्य न्यूनता न भवेत्। सहैव गोशालायां नियमितं स्वास्थ्यपरीक्षणं कृत्वा अन्ये गोवंशाः अपि रोगेभ्यः सुरक्षिताः स्थापनीयाः इति निर्देशाः प्रदत्ताः।
सः सम्बन्धितान् अधिकारिणः कर्मचारिणश्च गोशालायां स्वच्छतां नियमितस्वास्थ्यपरीक्षणं तथा सर्वाः व्यवस्थाः निरन्तरम् उच्चगुणवत्तया परिपालयितुं निर्दिष्टवान्।
अस्मिन् अवसरे पशुपालनविभागस्य मुरादाबादमण्डलस्य अपरनिदेशकः प्रथमः डा जगदीशप्रसादः मुख्यपशुचिकित्साधिकारी डा लोकेशकुमाराग्रवालः डा सुधीरकुमारः उपमुख्यपशुचिकित्साधिकारी डा अनुपमजैनः सहिताः अन्ये सम्बन्धिताः अधिकारिणः कर्मचारिणश्च उपस्थिताः आसन्।----------------
Hindusthan Samachar / Dheeraj Maithani