Enter your Email Address to subscribe to our newsletters

मीरजापुरम्, 08 जुलाईमासः (हि.स.)।
मुख्यमन्त्री योगीआदित्यनाथः बुधवासरे विन्ध्याचलं प्राप्तवान् तथा मातुः विन्ध्यवासिन्याः दरबारे विधिविधानपूर्वकं दर्शनपूजनं कृत्वा प्रदेशवासिनां सुखसमृद्धेः कल्याणस्य च कामनां कृतवान्।
दर्शनानन्तरं सः विन्ध्यगलियारे श्रद्धालूनां सुरक्षायै सुविधाभ्यः च निर्मितस्य सुरक्षितगृहस्य निरीक्षणं कृत्वा तत्रत्यव्यवस्थानां समीक्षां कृतवान्।
मुख्यमन्त्री निर्धारितकार्यक्रमानुसारं उदग्रयानेन मोतीझीलविमानावतरणस्थलं प्राप्तवान्। ततः स्थलमार्गेण मातुः विन्ध्यवासिन्याः मन्दिरं प्राप्तवान् यत्र सः विधिपूर्वकं पूजार्चनां कृतवान्। दर्शनपूजनानन्तरं मुख्यमन्त्री विन्ध्यगलियारे निर्मितस्य सुरक्षितगृहस्य अवलोकनं कृतवान् तथा अधिकारिभ्यः तस्य उपयोगितायाः सुरक्षाव्यवस्थानां च विषये सूचनां प्राप्तवान्। तदनन्तरं मुख्यमन्त्री अष्टभुजास्थितस्य लोकनिर्माणविभागस्य विश्रामगृहं प्रति प्रस्थितवान्।
मुख्यमन्त्रिणः आगमनं दृष्ट्वा सम्पूर्णे विन्ध्यधाम्नि सुरक्षायाः कठोराः प्रबन्धाः कृताः आसन्। मन्दिरपरिसरे गलियारे प्रमुखमार्गेषु च आरक्षिबलं नियुक्तम् आसीत्। जिलाप्रशासनस्य आरक्षिविभागस्य च वरिष्ठाधिकारिणः सम्पूर्णकार्यक्रमकाले व्यवस्थानां निरीक्षणं कुर्वन्तः आसन्।
---------------
Hindusthan Samachar / Dheeraj Maithani