विन्ध्यमण्डलस्य विकासविषये मुख्यमन्त्री दृढः, मीरजापुरे समीक्षासभां कृत्वा अधिकारिभ्यः निर्धारितसमये योजनानां समापनस्य निर्देशाः
मीरजापुरम्, ०८ जुलाईमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः बुधवासरे मीरजापुरे अष्टभुजास्थिते लोकनिर्माणविभागस्य डाकबङ्गला विन्ध्यमण्डलस्य जनप्रतिनिधिभिः अधिकारिभिश्च सह विकासकार्याणां समीक्षां कृत्वा योजनानां कार्यान्वयने त्वरां
अष्टभुजा डाक बंगले में विंध्य मंडल के जनप्रतिनिधियों और अधिकारियों के साथ विकास कार्यों की समीक्षा करते मुख्यमंत्री योगी आदित्यनाथ


मीरजापुरम्, ०८ जुलाईमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः बुधवासरे मीरजापुरे अष्टभुजास्थिते लोकनिर्माणविभागस्य डाकबङ्गला विन्ध्यमण्डलस्य जनप्रतिनिधिभिः अधिकारिभिश्च सह विकासकार्याणां समीक्षां कृत्वा योजनानां कार्यान्वयने त्वरां कर्तुं निर्देशान् अयच्छत्। सः स्पष्टतया अवदत् यत् विकासपरियोजनासु कापि शिथिलता न स्वीकरिष्यते तथा सर्वे प्रस्तावाः निर्धारितसमयसीमायाः अन्तर्गतं शासनाय प्रेषणीयाः।

सभायां मीरजापुर, सोनभद्र तथा भदोही-जनपदानां ग्राममार्गाः, प्रमुख-जिलामार्गाः, सेतु-निर्माणम्, बाइपास-मार्गाः, धार्मिक-पर्यटनम् तथा अन्याः विकास-परियोजनाः इत्यादिषु विस्तरेण चर्चा अभवत्। मुख्यमन्त्री निर्देशम् अयच्छत् यत् सर्वे प्रस्तावाः १५ जुलाई पर्यन्तं शासनाय प्रेषणीयाः तथा १५ अगस्त पर्यन्तं स्वीकृत-योजनानां कृते धनराशेः उपलब्धतासम्बद्धा प्रक्रिया पूर्णा भवेत्।

मुख्यमन्त्री जनप्रतिनिधिभ्यः स्थानीयावश्यकतानुरूपान् प्रस्तावान् प्रदातुं तथा जनपदाधिकारिभ्यः तेषु शीघ्रकार्यवाहीं सुनिश्चितीकर्तुं निर्देशम् अददात्। सः अवदत् यत् विकासकार्याणां लाभः समये एव जनतां प्रति प्राप्नोति इति सुनिश्चितं भवेत्।

समीक्षायां मीरजापुरस्य जीर्णमार्गाणां पुनर्निर्माणम्, मतवार-मार्गस्य मरम्मत-कार्यं तथा आवश्यकस्थलेषु इण्टरलॉकिङ्ग-व्यवस्थां कर्तुं निर्देशाः प्रदत्ताः। वनभूमिसम्बद्धेषु प्रकरणेषु शीघ्रम् अनापत्ति-प्रमाणपत्रस्य निर्गमनं कृत्वा कार्येषु त्वरां कर्तुमपि निर्देशः प्रदत्तः। मुख्यमन्त्री विन्ध्याचलधामे श्रद्धालूनां सुविधां प्राधान्येन स्वीकृत्य विन्ध्यवासिनी-अष्टभुजा- तथा कालीखोह-मन्दिरान् संयोजयन्तीनां मार्गाणां स्वच्छता, सौन्दर्यीकरणम्, अतिक्रमण-निवारणम् तथा उत्तम-यातायात-व्यवस्थां सुनिश्चितीकर्तुं निर्देशम् अयच्छत्। सः अवदत् यत् विन्ध्यधामम् आगच्छतां श्रद्धालूनां कृते उत्तमसुविधानां प्रदानं सर्वकारस्य प्राथमिकता अस्ति।

सभायां नटवां-रेलमार्ग-अधःपथस्य वर्षाकाले जलवृद्धे: समस्यापि प्रस्तुताभवत्। मुख्यमन्त्री अधिकारिभ्यः अस्याः समस्यायाः स्थायि-समाधानार्थं रेलविभागेन सह समन्वयं स्थापयित्वा शीघ्रं कार्ययोजनां निर्मातुं निर्देशम् अयच्छत्।

Hindusthan Samachar / Divya Ranjan