Enter your Email Address to subscribe to our newsletters

वाराणसीतः मुख्यमन्त्रिणा मूलमाध्यमिकशिक्षाविभागयोः शिक्षकाणां शिक्षामित्राणां च कृते नगदरहितस्वास्थ्यसुविधायाः शुभारम्भः कृतः
१.१० कोटिछात्रछात्राणाम् अभिभावकानां वित्तकोषलेखासु प्रत्यक्षलाभान्तरणमाध्यमेन धनराशिः प्रत्यक्षं हस्तान्तरिता
वाराणसी ०८ जुलाईमासः हि. स.। उत्तरप्रदेशस्य मुख्यमन्त्री योगीआदित्यनाथः बुधवासरे वाराणस्यां मूलमाध्यमिकशिक्षाविभागयोः शिक्षकाणां शिक्षामित्राणां च कृते नगदरहितस्वास्थ्यसुविधायाः शुभारम्भं कृतवान्। सहैव प्रत्यक्षलाभान्तरणमाध्यमेन मूलशिक्षाविभागस्य विद्यालयेषु पठतां प्रदेशव्यापिनां प्रायः १.१० कोटिछात्रछात्राणाम् अभिभावकानां वित्तकोषलेखासु धनराशिं प्रत्यक्षं हस्तान्तरितवान्।
स्वस्य वाराणसीभ्रमणस्य द्वितीये दिने बुधवासरे मुख्यमन्त्री योगीआदित्यनाथः पण्डितदीनदयालउपाध्यायहस्तकलासङ्कुलस्य बडालालपुरे आयोजिते कार्यक्रमे राष्ट्रियस्तरे चयनितानां स्वच्छहरितविद्यालयानां १२ प्रधानाचार्यान् सम्मानितवान् अपि। कार्यक्रमे मुख्यमन्त्रिणः उपस्थितौ १० लक्षशिक्षकाणां संविदाकर्मचारिणां च सामाजिकसुरक्षार्थं स्टेटबैंकआफइण्डिया इत्यनेन सह सहमतिज्ञापने हस्ताक्षराणि कृतानि।
अस्मिन् अवसरे मुख्यमन्त्री उपस्थितजनान् सम्बोधयन् उक्तवान् यत् प्रदेशे नगदरहितचिकित्सार्थं प्रतिवर्षं सार्धचतुःशतकोटिरूप्यकाणि व्ययीकृतानि भविष्यन्ति। अस्य भुगतानं प्रदेशसर्वकारः करिष्यति। सः उक्तवान् यत् नगदरहितचिकित्सासुविधायाः प्रतिफले सर्वकारः भवद्भ्यः किमपि न इच्छति केवलम् एकमेव अपेक्षते यत् बालकानाम् अध्ययने ध्यानं दीयताम्। प्रदेशस्य विद्यालयेषु स्वच्छतायाः अध्ययनस्य बालकानां विकासस्य च कृते कार्यं भवेत्।
सः अरुणाचलप्रदेशस्य उल्लेखं कृत्वा उक्तवान् यत् तत्र प्रत्येकः जनः हिन्दीभाषां वदति। तत्रत्यः सांसदः अवदत् यत् अस्माकं प्रदेशे यावन्तः शिक्षकाः सन्ति ते सर्वे उत्तरप्रदेशात् आगताः सन्ति। मध्यप्रदेशे अपि बहुसङ्ख्याकाः जनाः उत्तरप्रदेशात् सन्ति। शिक्षा समाजस्य आधारशिला अस्ति। तया विना किमपि सम्भवं नास्ति।
कार्यक्रमे मन्त्री अनिलराजभरः मूलशिक्षाराज्यमन्त्री स्वतन्त्रप्रभारः संदीपसिंहः माध्यमिकशिक्षाराज्यमन्त्री स्वतन्त्रप्रभारः गुलाबदेवी च सहिताः अन्ये जनाः उपस्थिताः आसन्।
Hindusthan Samachar / Dheeraj Maithani