विद्युच्चालितवाहनस्य क्रयणे सब्सिडीयोजनया उत्तरप्रदेशे इलेक्ट्रिकवाहनेभ्योऽमिलत् गतिः, आवेदनस्य प्रकरणे लखनऊनगरं सर्वतोऽग्रे
— योगिसर्वकारः ५ सहस्ररूप्यकेभ्यः २० लक्षरूप्यकाणि यावत् राजसहायतां प्रददाति विद्युद्वाहनानि स्वीकुर्वद्भ्यः अनेके लाभाः प्राप्यन्ते — वर्षं २०३० यावत् अपरिष्कृततैलस्य आयाते एकलक्षकोटिरूप्यकाणि यावत् सञ्चयस्य प्रयासः लखनऊ ०८ जुलाईमासः, हि.स.। मुख
मुख्यमंत्री योगी आदित्यनाथ


— योगिसर्वकारः ५ सहस्ररूप्यकेभ्यः २० लक्षरूप्यकाणि यावत् राजसहायतां प्रददाति विद्युद्वाहनानि स्वीकुर्वद्भ्यः अनेके लाभाः प्राप्यन्ते

— वर्षं २०३० यावत् अपरिष्कृततैलस्य आयाते एकलक्षकोटिरूप्यकाणि यावत् सञ्चयस्य प्रयासः

लखनऊ ०८ जुलाईमासः, हि.स.। मुख्यमन्त्रिणः योगिनःआदित्यनाथस्य नेतृत्वे उत्तरप्रदेशसर्वकारस्य विद्युद्वाहननिर्माणगतिशीलताप्रोत्साहननीतेः २०२२ प्रभावः सम्पूर्णे प्रदेशे तीव्रगत्या दृश्यते। परिवहनविभागस्य तथ्याङ्कानुसारं विद्युद्वाहनक्रयराजसहायतायोजनायाः अन्तर्गतं प्रदेशस्य सर्वेषु जनपदेषु जनानाम् अभिरुचिः विद्युद्वाहनेषु निरन्तरं वर्धते। योजनायाः लाभप्राप्तये सर्वाधिकानि आवेदनपत्राणि राजधानीलखनऊतः प्राप्तानि सन्ति। तथैव नोएडा आगरा गाजियाबाद वाराणसी च शीर्षस्थानेषु सन्ति।

परिवहनविभागानुसारं लखनऊट्रांसपोर्टनगरस्थे आरटीओ कार्यालये सर्वाधिकानि १२५२० आवेदनपत्राणि प्राप्तानि सन्ति। तदनन्तरम् आगरायां १०७५२ गौतमबुद्धनगरस्य नोएडायां ६०८८ गाजियाबादे ५५५६ वाराणस्यां ४०५९ कानपुरनगरे ३८९५ लखनऊमहानगरस्य एआरटीओ कार्यालये ३८३९ सहारनपुरे ३७६८ गोरखपुरे ३२०४ प्रयागराजे च ३११० आवेदनपत्राणि प्राप्तानि सन्ति।

लघुनगरेष्वपि वर्धते विद्युद्वाहनानां प्रचलनम्

प्रदेशस्य लघुजनपदेष्वपि विद्युद्वाहनानां प्रति जनानाम् अभिरुचिः वर्धते। मऊजनपदे विद्युद्वाहनक्रयराजसहायतायोजनायाः अन्तर्गतं ८१७ आवेदनपत्राणि गाजीपुरे ७५० कुशीनगरे ५४७ उन्नावे ३८७ सन्तकबीरनगरे १०१ महाराजगञ्जे १७० सिद्धार्थनगरे च ७४ आवेदनपत्राणि प्राप्तानि सन्ति। एते तथ्याङ्काः दर्शयन्ति यत् प्रदेशस्य महानगरेषु सह अन्येषु जनपदेष्वपि विद्युद्वाहनानां प्रति जनानां विश्वासः निरन्तरं वर्धते।

मार्गकरस्य पञ्जीकरणशुल्कस्य च शतप्रतिशतं मुक्तिः

प्रदेशसर्वकारस्य अनया योजनया वाहनस्वामिभ्यः प्रत्यक्षः आर्थिकलाभः प्राप्यते। द्विचक्रिकविद्युद्वाहनस्य क्रये ५ सहस्ररूप्यकाणां राज्यराजसहायता प्रदीयते। एतदतिरिक्तं मार्गकरे पञ्जीकरणशुल्के च शतप्रतिशतं मुक्तिरपि प्रदीयते। एतावदेव न स्मार्टकार्ड आरसी तथा एचएसआरपी सङ्ख्यापट्टिकाशुल्के अपि सुविधाप्राप्त्या एकस्य द्विचक्रिकविद्युद्वाहनस्य क्रये कुलं प्रायः १८ सहस्ररूप्यकाणि यावत् सञ्चयः सम्भवति।

परिवहनमन्त्री दयाशङ्करसिंहः उक्तवान् यत् योजनायाः अन्तर्गतं अशासकीयविद्युद्बसेषु २० लक्षरूप्यकाणि यावत् चतुश्चक्रिकवाहनेषु १ लक्षरूप्यकाणि यावत् द्विचक्रिकवाहनेषु च ५ सहस्ररूप्यकाणि यावत् राजसहायता प्रदीयते। जनैः अस्याः योजनायाः अधिकाधिकः लाभः ग्रहीतव्यः। अनेन शून्योत्सर्जनस्य लक्ष्यं प्राप्य पर्यावरणं श्रेष्ठं कर्तुं शक्यते।

पेट्रोलडीजलवाहनानां तुलनायां विद्युद्वाहनानि मितव्ययीनि

परिवहनविभागानुसारं विद्युद्वाहनानि स्वीकुर्वद्भ्यः उपभोक्तृभ्यः केवलं क्रयसमये एव न अपितु सञ्चालनकाले अपि लाभः प्राप्यते। पेट्रोलडीजलवाहनानां तुलनायां विद्युद्वाहनानां प्रतिकिलोमीटरं सञ्चालनव्ययः न्यूनः भवति अतः प्रतिदिनं यात्रां कुर्वद्भ्यः प्रतिवर्षं सहस्रशः रूप्यकाणां सञ्चयः भवति।

सर्वकारस्य एषः उपक्रमः पर्यावरणसंरक्षणस्य दिशायामपि महत्त्वपूर्णः सिद्धः भवति। विद्युद्वाहनानां वर्धमानेन उपयोगेन पेट्रोलडीजलयोः उपभोगः न्यूनः भवति येन वायुप्रदूषणस्य कार्बनोत्सर्जनस्य च न्यूनता भवति। तथैव योगिसर्वकारस्य लक्ष्यं शून्योत्सर्जनयुक्तवाहनानां प्रोत्साहनेन प्रदेशं स्वच्छहरितपरिवहनव्यवस्थां प्रति अग्रे नेतुम् अस्ति।

अपरिष्कृततैलस्य आयाते भविष्यति महती न्यूनता

परिवहनविभागानुसारं यदि वर्षं २०३० यावत् देशे विद्युद्वाहनानां भागीदारी २० प्रतिशतं यावत् प्राप्नोति तर्हि अपरिष्कृततैलस्य आयातव्यये प्रायः एकलक्षकोटिरूप्यकाणि यावत् सञ्चयः सम्भवति। अस्मिन् लक्ष्ये उत्तरप्रदेशस्य योगदानमपि महत्त्वपूर्णं भविष्यति यस्य कृते अधिकाधिकेभ्यः जनेभ्यः विद्युद्वाहनक्रयराजसहायतायोजनायाः लाभः प्रदीयते।

---

Hindusthan Samachar / Dheeraj Maithani