विंध्य पौध प्रसादम् इत्यतो हरित -आस्थायाः संदेशः, लक्षद्वयेन अधिकानां पादपानां वितरणम्
मीरजापुरम्, 08 जुलाईमासः (हि.स.)। उत्तरप्रदेशस्य मीरजापुरे जनपदप्रशासनस्य उपक्रमेण विन्ध्याचलधाम्नि श्रद्धालुभ्यः प्रसादेन सह निशुल्कपादपवितरणार्थं प्रारब्धा विन्ध्यपौधप्रसादम् योजना व्यापकं जनसमर्थनं प्राप्नोति। अधुना पर्यन्तं द्विलक्षाधिकानां प
विंध्याचल धाम में श्रद्धालुओं को प्रसाद के साथ निःशुल्क पौधे वितरित करते डीएम व अन्य।


मीरजापुरम्, 08 जुलाईमासः (हि.स.)।

उत्तरप्रदेशस्य मीरजापुरे जनपदप्रशासनस्य उपक्रमेण विन्ध्याचलधाम्नि श्रद्धालुभ्यः प्रसादेन सह निशुल्कपादपवितरणार्थं प्रारब्धा विन्ध्यपौधप्रसादम् योजना व्यापकं जनसमर्थनं प्राप्नोति। अधुना पर्यन्तं द्विलक्षाधिकानां पादपानां वितरणं कृतम् अस्ति। अस्य उपक्रमस्य उद्देश्यम् श्रद्धालूनां मध्ये पर्यावरणसंरक्षणं प्रति जागरूकतावर्धनेन सह हरितास्थायाः प्रोत्साहनम् अस्ति।

जिलाधिकारी पवनकुमारगंगवारः अवदत् यत् विन्ध्याचलधाम्नि प्रतिदिनम् आगच्छतां श्रद्धालूनां नवरात्रमेलकस्य जनसम्मर्दस्य च दृष्ट्या एषा योजना प्रारब्धा आसीत्। विगते नवरात्रमेलके मुख्यमन्त्री योगीआदित्यनाथः अपि श्रद्धालूनां मध्ये विन्ध्यपौधप्रसादम् इत्यस्य वितरणं कृतवान् आसीत्।

अस्मिन्नेव क्रमे श्रद्धालूनां कृते विन्ध्यप्रसादम् पेटिका अपि उपलभ्यते। अस्यां मातुः विन्ध्यवासिन्याः प्रसादः स्मृतिसामग्री पूजासामग्री च एकस्यामेव पेटिकायाम् उपलभ्यते।

राष्ट्रियग्रामीणाजीविकामिशनेन सम्बद्धानां स्वसहायतासमूहानां महिलाभिः एतेषाम् उत्पादानां निर्माणं क्रियते येन तासाम् आजीविकायाः अपि संवर्धनं भवति।

प्रशासनस्य कथनम् अस्ति यत् त्रिकोणदर्शनमार्गे विन्ध्यवासिनी अष्टभुजा कालीखोह च आगच्छतां लक्षशः श्रद्धालूनां समीपं स्वसहायतासमूहानाम् उत्पादाः प्राप्नुवन्ति येन स्थानीयमहिलाभ्यः रोजगारस्य नवीनावसराः अपि प्राप्यन्ते।

---------------

Hindusthan Samachar / Dheeraj Maithani