Enter your Email Address to subscribe to our newsletters

—मुख्यमंत्री बालैः निर्मितविभिन्नप्रारूपाणाङ्कृतम् अवलोकनम्
वाराणसी, 08 जुलाईमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथः वाराणस्यां प्रदेशस्य १२ प्रधानाचार्यान् प्रधानाध्यापकान् च सम्मानितवान्। प्रदेशे स्वच्छहरितयोजनायाः अन्तर्गतं स्वच्छतायाः शुद्धपेयजलस्य शौचालयस्य हस्तप्रक्षालनस्य अनुरक्षणस्य श्रेष्ठविद्यालयीयवातावरणविकासस्य च कृते कृतानाम् उत्कृष्टप्रयासानां कारणेन एते विद्यालयाः राष्ट्रियस्तरे चयनिताः सन्ति।
मुख्यमन्त्री योगी बुधवासरे स्वस्य वाराणसीभ्रमणस्य द्वितीयदिने बडालालपुरस्थिते पण्डितदीनदयालउपाध्यायहस्तकलासङ्कुले आयोजितं कार्यक्रमं सम्बोधयितुं पूर्वं परिषद्विद्यालयानां बालकैः सह संवादमपि कृतवान्। मुख्यमन्त्री बालकानां नामानि ज्ञातवान् तथा प्रदर्शिन्यां तैः स्थापितानां विभिन्नप्रतिरूपाणाम् अवलोकनं कृतवान्। सः प्रतिरूपसम्बन्धिनीं सूचनां प्राप्तवान् तथा बालकानां जिज्ञासानाम् विषये अपि ज्ञातवान्। मुख्यमन्त्री दिव्याङ्गबालकानामपि उत्साहवर्धनं कृतवान्। सः बालकानाम् उत्साहं वर्धितवान् तथा तेभ्यः चाकलेट अपि प्रदत्तवान्। मुख्यमन्त्री मञ्चादपि बालकानां प्रशंसां कृतवान्।
मुख्यमन्त्री प्रदर्शिन्यां बालकानां प्रतिरूपाणां मञ्चात् प्रशंसां कृतवान्
मुख्यमन्त्री योगिआदित्यनाथः प्रदर्शिन्यां बालकानाम् उत्साहस्य प्रशंसां कृतवान्। सः उक्तवान् यत् निपुणभारताभियानस्य अन्तर्गतं तृतीयकक्षायाः बालकाः वाक्यनिर्माणे पठने च निपुणाः दृश्यन्ते स्म। तेषां भाषाज्ञानम् अङ्कगणितज्ञानं च प्रशंसनीयम् अस्ति। सः उक्तवान् यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः दृष्टिः अस्ति यत् निपुणभारताभियाने प्रत्येकं बालकं तस्य क्षेत्रे योग्यं पारङ्गतं च कर्तुं शक्नुयाम यतः सुदृढभवनं दृढाधारे एव निर्मातुं शक्यते।
एसबीआई तथा शिक्षाविभागेन सहमतिज्ञापनस्य आदानप्रदानं कृतम्
कार्यक्रमे मुख्यमन्त्रिणः समक्षं सामाजिकसुरक्षायाः अन्तर्गतं बेसिकमाध्यमिकशिक्षाविभागस्य अपरमुख्यसचिवः पार्थसारथिसेनशर्मा तथा भारतीयस्टेटबैङ्कस्य लखनऊमण्डलस्य सीजेएम दीपेशराजः सहमतिज्ञापनस्य आदानप्रदानं कृतवन्तौ।
मुख्यमन्त्रिणः हस्ताभ्यां सम्मानिताः प्रधानाचार्याः प्रधानाध्यापकाः च
१ सम्भलं प्राथमिकविद्यालयः इटैलामाफी कपिलकुमारमलिकः
२ पीलीभीतः प्राथमिकविद्यालयः चोखापुरी मनीषकुमारः
३ चित्रकूटं पूर्वमाध्यमिकविद्यालयः गढछापा हरिशङ्करत्रिपाठी
४ बरेली प्राथमिकविद्यालयः सहजनी राजीवसिंहः
५ बदायूं कम्पोजिटविद्यालयः आमगांव सङ्गीताशर्मा
६ रायबरेली प्राथमिकविद्यालयः दौतरा आशीषप्रतापसिंहः
७ सहारनपुरम् उच्चप्राथमिकविद्यालयः लबडौला कुतुबपुर सञ्जीवकुमारः
८ श्रावस्ती कस्तूरबागान्धीबालिकाविद्यालयः हरिहरपुररानी कैसरजहां
९ जालौन कस्तूरबागान्धीबालिकाविद्यालयः कोंच वन्दनावर्मा
१० प्रयागराज एयरफोर्सविद्यालयः मनौरी जावेदखानः
११ वाराणसी जवाहरनवोदयविद्यालयः गजोखर नागेशकुमारमिश्रः
१२ मेरठं दयावतीमोदीएकेडमी डा ऋतुदीवान
मुख्यमन्त्रिणा १५ लाभार्थिभ्यः नगदरहितचिकित्सापत्राणि प्रदत्तानि
मुख्यमन्त्री योगिआदित्यनाथः मुख्यमन्त्रीशिक्षकनगदरहितचिकित्सासुविधायोजनायाः १५ लाभार्थिभ्यः चिकित्सापत्राणि प्रदत्तवान्। एतेषु एकस्यैव परिवारस्य चत्वारः सदस्याः सन्ति।
प्राथमिकशिक्षाविभागतः
१ सारिकासाकोरिकर सहायिकाध्यापिका प्राथमिकविद्यालयः डुमरी काशीविद्यापीठः
२ अरविन्दसिंहः कम्पोजिटविद्यालयः अइली चिरईगांव वाराणसी
३ शिक्षामित्रं कुसुमदेवी प्राथमिकविद्यालयः परिजनपुर आराजीलाइन वाराणसी
४ अनुराधाकुशवाहा पूर्वमाध्यमिकविद्यालयः मुर्दहा हरहुआ
५ सोनी पाककर्त्री प्राथमिकविद्यालयः दशनीपुर हरहुआ
६ कल्पना पूर्णकालिकशिक्षिका कस्तूरबागान्धीबालिकाविद्यालयः शिवपुरी नगरक्षेत्रं वाराणसी
माध्यमिकशिक्षाविभागतः
७ शालिनीकुमारी सहायिकाध्यापिका निवेदिताशिक्षासदनबालिकाइण्टरकालेज महमूरगञ्जः
८ दीपकपटेलः सहायकाध्यापकः श्रीअम्बिकाप्रसादसिंहइण्टरकालेज भैरवनाथः
९ नीरजकुमारः प्रवक्ता सुभद्राकुमारीइण्टरकालेज बसनी
१० सरफुद्दीनः सहायकाध्यापकः ए ओ मुस्लिमइण्टरकालेज लल्लापुरा
११ आशुतोषमिश्रः श्रीअन्नपूर्णाब्रह्मचर्यऋषिकुलाश्रमसंस्कृतोच्चतरमाध्यमिकविद्यालयः शिवपुरः
शिक्षकस्य परिवारस्य चतुर्भ्यः सदस्येभ्यः चिकित्सापत्राणि प्रदत्तानि
पारिवारिकलाभस्य प्रतीकात्मकसन्देशं दातुं सहायकाध्यापकस्य नरेन्द्रकुमारमौर्यस्य प्राथमिकविद्यालयः जाल्हूपुरप्रथमः चिरईगांव परिवारस्य अपि चयनं कृतम्। मुख्यमन्त्री योगी नरेन्द्रमौर्याय तस्य धर्मपत्न्यै राजकुमारीमौर्याय पित्रे सुरेशकुमारमौर्याय मात्रे राजेश्वरीमौर्याय च नगदरहितचिकित्सापत्राणि प्रदत्तवान्।
Hindusthan Samachar / Dheeraj Maithani