शिक्षकस्य परिवारे कस्याचिच्चिकित्सायाः न प्रवर्तिष्यते आवश्यकता तु अधुना ते खिन्नाः न स्युः : संदीप सिंहः
वाराणसी, 08 जुलाईमासः (हि.स.)।उत्तरप्रदेशस्य मूलशिक्षामन्त्री संदीपसिंहः बुधवासरे मूलमाध्यमिकशिक्षाविभागयोः शिक्षकाणां शिक्षामित्राणां च कृते प्रारब्धायाः मुख्यमन्त्रिनगदरहितस्वास्थ्यसुविधायाः भूरि प्रशंसां कृतवान्। वाराणस्यां सः उक्तवान् यत् एषा य
मुख्यमंत्री कैशलेस स्वास्थ्य सुविधा के शुभारंभ के अवसर पर मुख्यमंत्री


वाराणसी, 08 जुलाईमासः (हि.स.)।उत्तरप्रदेशस्य मूलशिक्षामन्त्री संदीपसिंहः बुधवासरे मूलमाध्यमिकशिक्षाविभागयोः शिक्षकाणां शिक्षामित्राणां च कृते प्रारब्धायाः मुख्यमन्त्रिनगदरहितस्वास्थ्यसुविधायाः भूरि प्रशंसां कृतवान्। वाराणस्यां सः उक्तवान् यत् एषा योजना शिक्षकाणां तेषां परिवाराणां च कृते महान् आधारः अस्ति। अद्य १२ लक्षं शिक्षकाः अस्याः सुविधायाः लाभं प्राप्तुं गच्छन्ति। शिक्षकस्य परिवारे कस्याश्चित् चिकित्सायाः आवश्यकता भविष्यति चेत् अधुना सः चिन्तितः न भविष्यति तेषां कृते अधुना नगदरहितचिकित्सायाः सुविधा उपलभ्यते।

मूलशिक्षाराज्यमन्त्री स्वतन्त्रप्रभारः संदीपसिंहः अत्र पण्डितदीनदयालउपाध्यायहस्तकलासङ्कुलस्य बडालालपुरे आयोजिते कार्यक्रमे मूलमाध्यमिकशिक्षाविभागयोः शिक्षकाणां शिक्षामित्राणां च कृते नगदरहितस्वास्थ्यसुविधायाः शुभारम्भावसरे जनान् सम्बोधयन् आसीत्। प्रदेशस्य मुख्यमन्त्रिणः योगीआदित्यनाथस्य उपस्थितौ संदीपसिंहः उक्तवान् यत् शिक्षकः केवलं पाठयति एव न अपितु राष्ट्रस्य निर्माणम् अपि करोति। शिक्षकः यदा चिन्तामुक्तः भविष्यति तदा एव सः श्रेष्ठं प्रदर्शनं कर्तुं शक्नोति तदा एव बालकानां भविष्यं संवर्धयितुं शक्नोति। मूलशिक्षामन्त्री उक्तवान् यत् दीर्घकालात् शिक्षकपरिवाराणां मागः आसीत् यत् नगदरहितचिकित्सासुविधा प्राप्येत एषा मागः अद्य पूर्णा भवितुं गच्छति।

कार्यक्रमे प्रदेशस्य माध्यमिकशिक्षाराज्यमन्त्री स्वतन्त्रप्रभारः गुलाबदेवी अद्यतनं दिनं प्रदेशस्य शिक्षकाणां कृते ऐतिहासिकक्षणम् उक्तवती। सा उक्तवती यत् काश्याः पवित्रभूमेः मुख्यमन्त्रिनगदरहितस्वास्थ्यसुविधायाः शुभारम्भः भवति। अद्यप्रभृति शिक्षकैः चिन्ता न करणीया भविष्यति तेभ्यः समये गुणवत्तापूर्णा चिकित्सा प्राप्स्यते। परिवारः सुखी भवति चेत् कोपि चिन्तामुक्तः भूत्वा कार्यं करोति। अनया योजनया शिक्षकः स्वपरिवारे आश्रितः न भविष्यति अपितु परिवारः तस्मिन् आश्रितः भविष्यति। सा उक्तवती यत् सुखम् अस्थायि भवति किन्तु प्रसन्नता स्थायिनी भवति। एषा प्रसन्नता मुख्यमन्त्रिणा प्रदत्ता अस्ति। यावत् जीवनम् अस्ति तावत् अस्याः योजनायाः माध्यमेन शिक्षकाः तेषां परिवाराश्च प्रसन्नतां प्राप्स्यन्ति। भवन्तः स्वपरिवारविषये पूर्णतया निश्चिन्ताः भविष्यन्ति। प्रदेशसर्वकारः भवतां भवतां परिवारस्य च सह अस्ति।

माध्यमिकशिक्षामन्त्री गुलाबदेवी मुख्यमन्त्रिणः प्रशंसां कुर्वती उक्तवती यत् अस्मिन् समये उत्तरप्रदेशमाध्यमिकशिक्षापरिषदः परीक्षायां कोपि अनुचितसाधनप्रयोगं कुर्वन् न गृहीतः। प्रश्नपत्रस्य रहस्यभेदः अपि न अभवत्। सा सूचितवती यत् प्रदेशस्य १८ माध्यमिकविद्यालयेषु ड्रीमलैब इति प्रयोगशालाः निर्मीयन्ते यस्य कृते सहमतिज्ञापनं सम्पन्नम् अस्ति।

Hindusthan Samachar / Dheeraj Maithani