Enter your Email Address to subscribe to our newsletters


वाराणसीतः मुख्यमन्त्रिणा मूलभूतमाध्यमिकशिक्षाविभागयोः शिक्षकाणां शिक्षामित्राणां च कृते नगदरहितस्वास्थ्यसुविधायाः शुभारम्भः कृतः
प्रत्यक्षलाभहस्तान्तरणमाध्यमेन १.१० कोटि छात्रच्छात्राणाम् अभिभावकानां वित्तकोषलेखासु १३२० कोटिरूप्यकाणां धनराशिः हस्तान्तरिता
वाराणसी, ०८ जुलाईमासः। उत्तरप्रदेशस्य मुख्यमन्त्री योगीआदित्यनाथः बुधवासरे उक्तवान् यत् शिक्षा समाजस्य आधारशिला अस्ति तथा तां विना किमपि सम्भवं नास्ति। प्रधानमन्त्री नरेन्द्रमोदी देशवासिभ्यः उक्तवान् यत् अस्माभिः विकसितभारतस्य सङ्कल्पना पूर्णा कर्तव्या। सः शिक्षकेभ्यः उक्तवान् यत् नगदरहितचिकित्सासुविधायाः प्रतिदाने सर्वकारः युष्मत्तः किमपि न इच्छति केवलम् एकमेव अपेक्षते यत् प्रत्येकः शिक्षकः बालकानाम् अध्ययनं विद्यालयानां स्वच्छतां तेषां सर्वाङ्गीणविकासं च सर्वोच्चप्राथमिकतां दद्यात्। विद्यार्थिभ्यः सम्यक् मार्गं प्रशस्तं कर्तुं शिक्षकाणां कर्तव्यम् अपि अस्ति राष्ट्रियदायित्वम् अपि अस्ति।
मुख्यमन्त्री बुधवासरे स्वस्य वाराणसीभ्रमणस्य द्वितीये दिने पण्डितदीनदयालोपाध्यायहस्तकलासङ्कुलस्य बडालालपुरक्षेत्रे आयोजितं कार्यक्रमं सम्बोधयन् आसीत्। अस्मिन् अवसरे सः मूलभूतमाध्यमिकशिक्षाविभागयोः शिक्षकाणां शिक्षामित्राणां च कृते नगदरहितस्वास्थ्यसुविधायाः शुभारम्भं कृतवान्। सहैव प्रत्यक्षलाभहस्तान्तरणमाध्यमेन प्रदेशस्य प्रायः १.१० कोटि छात्रछात्राणाम् अभिभावकानां वित्तकोषलेखासु १३२० कोटिरूप्यकाणां धनराशिं हस्तान्तरितवान्।
मुख्यमन्त्री उक्तवान् यत् प्रदेशसर्वकारः शिक्षकाणां नगदरहितचिकित्सायां प्रतिवर्षं प्रायः ४५० कोटिरूप्यकाणि व्ययिष्यति तथा अस्य सम्पूर्णं व्ययभारं राज्यसर्वकारः वहिष्यति। सः उक्तवान् यत् सर्वकारः शिक्षकाणां स्वास्थ्यस्य चिन्तां करोति येन ते पूर्णनिष्ठया समर्पणेन च नवीनपीढ्याः भविष्यं निर्मातुं शक्नुयुः। यतः आचार्यचाणक्यसदृशः गुरुः भविष्यति चेत् देशः कदापि विपन्नः न भवितुं शक्नोति विदेशीयशक्तयः अपि नेत्राणि उत्थाप्य द्रष्टुं न शक्नुवन्ति।
उत्तरप्रदेशस्य बह्व्यः योजनाः एतादृश्यः सन्ति याः देशे आदर्शरूपाः सन्ति। अद्य विद्यालयाः प्रोजेक्ट अलङ्कार इत्यस्य अन्तर्गतं विकसिताः क्रियन्ते। प्रदेशस्य शिक्षकाः देशव्यापिरूपेण स्वप्रतिभायाः परिचयं ददति। अरुणाचलप्रदेशस्य उल्लेखं कुर्वन् सः उक्तवान् यत् तत्रत्यः सांसद् तस्मै उक्तवान् यत् राज्ये बहुसङ्ख्यकाः शिक्षकाः उत्तरप्रदेशात् सन्ति। एवमेव मध्यप्रदेशसहितेषु अन्यराज्येषु अपि उत्तरप्रदेशस्य शिक्षकाणां महत्त्वपूर्णं योगदानम् अस्ति।
मुख्यमन्त्री उक्तवान् यत् पूर्वं माध्यमिकशिक्षामण्डलस्य परीक्षाः त्रिमासपर्यन्तं प्रचलन्ति स्म किन्तु अधुना शिक्षकाणां सहयोगेन केवलं १५ दिनेषु परीक्षाः सम्पन्नाः भवन्ति तथा समयबद्धरूपेण परिणामाः अपि घोषिताः क्रियन्ते।
सः उक्तवान् यत् द्वियन्त्रसर्वकारेण विगतेषु नववर्षेषु परीक्षाप्रणाली पारदर्शिका सरला अनुचितसाधनमुक्ता च कृता अस्ति। शिक्षाक्षेत्रे जातानां सुधारणाम् एव परिणामः अस्ति यत् अधुना प्रदेशस्य विद्यार्थिभिः युवभिः च परिचयसङ्कटस्य सामना न कर्तव्यः भवति। शिक्षायाः उन्नयनेन प्रदेशस्य विकासः अपि तीव्रगतिं प्राप्तवान् अस्ति।
मुख्यमन्त्री योजनायाः शुभारम्भावसरे शिक्षकान् तेषां परिवारान् च अभिनन्दयन् उक्तवान् यत् अनया स्वास्थ्यसुरक्षायोजनया प्रायः १२ लक्षशिक्षकाः लाभान्विताः भविष्यन्ति। सः उक्तवान् यत् स्थायिशिक्षकाः कर्मचारिणः च १० लक्षरूप्यकाणां सामूहिकसावधिबीमा १ कोटिरूप्यकाणां व्यक्तिगतदुर्घटनासुरक्षा १ कोटिरूप्यकाणां स्थायिदिव्याङ्गताबीमासुरक्षा तथा १.६० कोटिरूप्यकपर्यन्तं विमानदुर्घटनाबीमासुरक्षां प्राप्स्यन्ति।
मुख्यमन्त्री उक्तवान् यत् १० सहस्ररूप्यकाधिकं वेतनं प्राप्नुवन्तः संविदाकर्मचारिणः अपि ३० लक्षरूप्यकात् ८० लक्षरूप्यकपर्यन्तं व्यक्तिगतदुर्घटनाबीमां प्राप्स्यन्ति यदा तु १० सहस्ररूप्यकात् न्यूनं वेतनं प्राप्नुवन्तः कर्मचारिणः २ लक्षरूप्यकाणां दुर्घटनाबीमां प्राप्स्यन्ति। सः उक्तवान् यत् यदि केनचित् शिक्षकेण कर्मचारिणा वा सह काचित् अनिष्टघटना भवति तर्हि तेषां बालकानां शिक्षायै पुत्रीणां विवाहाय च आर्थिकसाहाय्यम् उपलब्धं कारयिष्यते। अद्य वयं प्रत्येकस्मै शिक्षकाय शिक्षामित्राय अनुदेशकाय च सामाजिकसुरक्षायाः प्रत्याभूतिं दद्मः। देशे उत्तरप्रदेशः प्रथमं राज्यम् अस्ति यत्र एषा व्यवस्था कार्यान्विता भवति।
कार्यक्रमकाले मुख्यमन्त्रिणः उपस्थितौ प्रायः १० लक्षशिक्षकाणां संविदाकर्मचारिणां च सामाजिकसुरक्षायै भारतीयस्टेटबैङ्केन सह सहमतिज्ञापनपत्रे हस्ताक्षराणि कृतानि। सहैव राष्ट्रियस्तरे चयनितानां स्वच्छहरितविद्यालयानां १२ प्रधानाचार्याः सम्मानिताः।
मुख्यमन्त्री उक्तवान् यत् मूलभूतशिक्षापरिषदः प्रत्येकस्मै छात्राय गणवेशस्य उपानहोः पादावरणयोः ऊर्णवस्त्रस्य स्यूतस्य अन्यावश्यकसामग्र्याः च कृते १२०० रूप्यकाणां साहाय्यराशिः प्रत्यक्षरूपेण अभिभावकानां वित्तकोषलेखासु प्रेष्यते। सः उक्तवान् यत् अभिभावकानां शिक्षकाणां च संयुक्तं दायित्वम् अस्ति यत् प्रत्येकः बालकः नियमितरूपेण विद्यालयं गच्छेत् तथा निपुणभारताभियानस्य अन्तर्गतं गुणवत्तापूर्णां शिक्षां प्राप्नुयात्।
सः अभिभावकान् बालकान् स्वच्छतायाः अनुशासनस्य विद्यालयीयजीवनस्य उत्तमाभ्यासानां च प्रति जागरूकान् कर्तुम् अपि आग्रहं कृतवान्। मुख्यमन्त्री उक्तवान् यत् स्वविद्यालयान् प्रति कृतज्ञताभावं धारयित्वा सर्वैः तान् अधिकम् उत्तमान् कर्तुं योगदानं दातव्यम्।
कार्यक्रमे मूलभूतशिक्षाराज्यमन्त्री स्वतन्त्रप्रभारः सन्दीपसिंहः माध्यमिकशिक्षाराज्यमन्त्री स्वतन्त्रप्रभारः गुलाबदेवी मन्त्रिमण्डलीयमन्त्री अनिलराजभरः च सहिताः अनेके जनप्रतिनिधयः अधिकारिणः च उपस्थिताः आसन्।
Hindusthan Samachar / Dheeraj Maithani